भागवत माहात्म्य स्कन्द पुराण प्रथम अध्याय।भागवत माहात्म्य स्कन्द पुराण प्रथम अध्याय(संस्कृत)।श्रीसच्चिदानन्दघन स्वरूपिणे कृष्णाय चानन्तसुखाभिवर्
भागवत माहात्म्य स्कन्द पुराण प्रथम अध्याय(संस्कृत)
श्रीसच्चिदानन्दघन स्वरूपिणे
कृष्णाय
चानन्तसुखाभिवर्षिणे ।
विश्वोद्भवस्थाननिरोधहेतवे
नुमो नु वयं
भक्तिरसाप्तयेऽनिशम् ॥ १ ॥
नैमिषे सूतमासीनं
अभिवाद्य महामतिम् ।
कथामृतरसास्वाद
कुशला ऋषयोऽब्रुवन् ॥ २ ॥
ऋषयः ऊचुः
वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ।
अभिषिच्य गते
राज्ञि तौ कथं किंच चक्रतुः ॥ ३ ॥
सूत उवाच
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं
व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
महापथं गते राज्ञि
परीक्षित् पृथिवीपतिः ।
जगाम मथुरां विप्रा
वज्रनाभदिदृक्षया ॥ ५ ॥
पितृव्यमागतं
ज्ञात्वा वज्रः प्रेमपरिप्लुतः ।
अभिगम्याभिवाद्याथ
निनाय निजमन्दिरम् ॥ ६ ॥
परिष्वज्य स तं
वीरः कृष्णैकगतमानसः ।
रोहिण्याद्या हरेः
पत्नीः ववन्दायतनागतः ॥ ७ ॥
ताभिः
संमानितोऽत्यर्थं परीक्षित् पृथिवीपतिः ।
विश्रान्तः
सुखमासीनो वज्रनाभमुवाच ह ॥ ८ ॥
परीक्षिदुवाच
तात त्वत्पितृभिः नूनं अस्मत् पितृपितामहाः ।
उद्धृता
भूरिदुःखौघादहं च परिरक्षितः ॥ ९ ॥
न पारयाम्यहं तात
साधु कृत्वोपकारतः ।
त्वामतः
प्रार्थयाम्यङ्ग सुखं राज्येऽनुयुज्यताम् ॥ १० ॥
कोशसैन्यादिजा
चिन्ता तथारिदमनादिजा ।
मनागपि न कार्या ए
सुसेव्याः किन्तु मातरः ॥ ११ ॥
निवेद्य मयि
कर्तव्यं सर्वाधिपरिवर्जनम् ।
श्रुत्वैतत्
परमप्रीतो वज्रस्तं प्रत्युवाच ह ॥ १२ ॥
वज्रनाभ उवाच
राज उचितमेतत्ते यदस्मासु प्रभाषसे ।
त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ॥ १३
॥
तस्मात् नाल्पापि
मे चिन्ता क्षात्रं दृढमुपेयुषः ।
किन्त्वेका परमा
चिन्ता तत्र किञ्चिद् विचार्यताम् ॥ १४ ॥
माथुरे
त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ।
क्व गता वै
प्रजात्रत्या अत्र राज्यं प्ररोचते ॥ १५ ॥
इत्युक्तो
विष्णुरातस्तु नदादीनां पुरोहितम् ।
शाण्डिल्यमाजुहावाशु वज्रसन्देहमुत्तये ॥ १६ ॥
अथोटजं विहायाशु
शाण्डिल्यः समुपागतः ।
पूजितो वज्रनाभेन
निषसादासनोत्तमे ॥ १७ ॥
उपोद्घातं
विष्णुरातः चकाराशु ततस्त्वसौ ।
उवाच
परमप्रीतस्तावुभौ परिसान्त्वयन् ॥ १८ ॥
शाण्डिल्य उवाच
श्रृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ।
व्रजनं
व्याप्तिरित्युक्त्या व्यापनाद् व्रज उच्यते ॥ १९ ॥
गुणातीतं परं
ब्रह्म व्यापकं व्रज उच्यते ।
सदानन्दं परं
ज्योतिः मुक्तानां पदमव्ययम् ॥ २० ॥
तस्मिन् नन्दात्मजः
कृष्णः सदानन्दाङ्गविग्रहः ।
आत्मारामस्चाप्तकामः प्रेमाक्तैरनुभूयते ॥ २१ ॥
आत्मा तु राधिका
तस्य तयैव रमणादसौ ।
आत्मारामतया
प्राज्ञैः प्रोच्यते बूढवेदिभिः ॥ २२ ॥
कामास्तु
वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ।
नित्यां सर्वे
विहाराद्या आप्तकामस्ततस्त्वयम् ॥ २३ ॥
रहस्यं त्विदमेतस्य
प्रकृतेः परमुच्यते ।
प्रकृत्या
खेलतस्तस्य लीलान्यैरनुभूयते ॥ २४ ॥
सर्गस्थित्यप्यया
जत्र रजःसत्त्वतमोगुणैः ।
लीलैवं द्विविधा
तस्य वास्तवी व्यावहारिकी ॥ २५ ॥
वास्तवी
तत्स्वसंवेद्या जीवानां व्यावहारिकी ।
आद्यां विना
द्वितीया न द्वितीया नाद्यगा क्वचित् ॥ २६ ॥
युवयोः गोचरेयं तु
तल्लीला व्यावहारिकी ।
यत्र भूरादयो लोका
भुवि माथुरमण्डलम् ॥ २७ ॥
अत्रैव व्रजभूमिः
सा यत्र तत्वं सुगोपितम् ।
भासते
प्रेमपूर्णानां कदाचिदपि सर्वतः ॥ २८ ॥
कदाचित्
द्वापरस्यान्ते रहोलीलाधिकारिणः ।
समवेता यदात्र
स्युः यथेदानीं तदा हरिः ॥ २९ ॥
स्वैः सहावतरेत्
स्वेषु समावेशार्थमीप्सिताः ।
तदा
देवादयोऽप्यन्ये ऽवरन्ति समन्ततः ॥ ३० ॥
सर्वेषां वाञ्छितं
कृत्वा हरिरन्तर्हितोऽभवत् ।
तेनात्र त्रिविधा
लोकाः स्थिताः पूर्वं न संशयः ॥ ३१ ॥
नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ।
देवाद्यास्तेषु
कृष्णेन द्वारिकां प्रापिताः पुरा ॥ ३२ ॥
पुनर्मौसलमार्गेण
स्वाधिकारेषु चापिताः ।
तल्लिप्सूंश्च सदा
कृष्णः प्रेमानन्दैकरूपिणः ॥ ३३ ॥
विधाय
स्वीयनित्येषु समावेशितवांस्तदा ।
नित्याः
सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः ॥ ३४ ॥
व्यावकारिकलीलास्थाः तत्र यन्नाधिकारिणः ।
पश्यन्त्यत्रागतास्तत्मात् निर्जनत्वं समन्ततः ॥
३५ ॥
तस्माच्चिन्ता न ते
कार्या वज्रनाभ मदाज्ञया ।
वासयात्र बहून्
ग्रामान् संसिद्धिस्ते भविष्यति ॥ ३६ ॥
कृष्णलीलानुसारेण
कृत्वा नामानि सर्वतः ।
त्वया वासयता
ग्रामान् संसेव्या भूरियं परा ॥ ३७ ॥
गोवर्द्धने
दीर्घपुरे मथुरायां महावने ।
नन्दिग्रामे
बृहत्सानौ कार्या राज्यस्थितिस्त्वया ॥ ३८ ॥
नद्यद्रिद्रोणिकुण्डादि कुञ्जान् संसेवतस्तव ।
राज्ये प्रजाः
सुसम्पन्नास्त्वं च प्रीतो भविष्यसि ॥ ३९ ॥
सच्चिदानन्दभूरेषा
त्वया सेव्या प्रयत्नतः ।
तव
कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात् ॥ ४० ॥
वज्र संसेवनादस्य
उद्धवस्त्वां मिलिष्यति ।
ततो रहस्यमेतस्मात्
प्राप्स्यसि त्वं समातृकः ॥ ४१ ॥
एवमुक्त्वा तु
शाण्डिल्यो गतः कृष्णमनुस्मरन् ।
विष्णूरातोऽथ
वज्रश्च परां प्रीत्तिमवापतुः ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये
वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये शाण्डील्योपदिष्ट
व्रजभूमिमाहात्म्यवर्णनं नाम प्रथोमोऽध्यायः॥१॥
हरिः ॐ तत्सत्
श्रीकृष्णार्पणमस्तु ॥