भागवत माहात्म्य स्कन्द पुराण चतुर्थ अध्याय,(श्रीमद् भागवतस्य वक्तृश्रोतॄणां लक्षणानि, भागवतश्रवणस्य फलं विधिश्च)
भागवत माहात्म्य स्कन्द पुराण चतुर्थ अध्याय। यह रहा आपका चित्र: इसमें श्रीमद् भागवत के वक्ता और श्रोताओं के दिव्य स्वरूप का चित्रण है, जो स्कन्द पुराण के चौथे अध्याय के अनुसार है। |
भागवत माहात्म्य स्कन्द पुराण चतुर्थ अध्याय
(श्रीमद् भागवतस्य वक्तृश्रोतॄणां लक्षणानि, भागवतश्रवणस्य फलं विधिश्च)
ऋषयः ऊचुः
साधु सूत चिरं जीव चिरमेवं प्रशाधि नः ।
श्रीभागवमाहात्म्यं अपूर्वं त्वन् मुखाच्छ्रुतम् ॥ १ ॥
तत्स्वरूपं प्रमाणं
च विधिं च श्रवणे वद ।
तद्वक्तुर्लक्षणं
सूत श्रोतुश्चापि वदाधुना ॥ २ ॥
सूत उवाच
श्रीमद् भागवतस्याथ श्रीमद्भगवतः सदा ।
स्वरूपमेकमेवास्ति
सच्चिदानन्दलक्षणम् ॥ ३ ॥
श्रीकृष्णासक्तभक्तानां तन्माधुर्यप्रकाशकम् ।
समुज्जृम्भति
यद्वाक्यं विद्धि भागवतं हि तत् ॥ ४ ॥
ज्ञानविज्ञान
भक्त्यङ्ग चतुष्टयपरं वचः ।
मायामर्दनदक्षं च
विद्धि भागवतं च तत् ॥ ५ ॥
प्रमाणं तस्य को
वेद ह्यनन्तस्याक्षरात्मनः ।
ब्रह्मणे हरिणा
तद्दिक् चतुःश्लोक्या प्रदर्शिता ॥ ६ ॥
तदानन्त्यावगाहेन
स्वेप्सितावहनक्षमाः ।
ते एव सन्ति भो
विप्रा ब्रह्मविष्णुशिवादयः ॥ ७ ॥
मितबुद्ध्यादिवृत्तीनां मनुष्याणां हिताय च ।
परीक्षिच्छुकसंवादो
योऽसौ व्यासेन कीर्तितः ॥ ८ ॥
ग्रन्थोऽष्टादशसाहस्रो योऽसौ भागवताभिधः ।
कलिग्राहगृहीतानां
स एव परमाश्रयः ॥ ९ ॥
श्रोतारोऽथ
निरूप्यन्ते श्रीमद् विष्णुकथाश्रयाः ।
प्रवरा अवराश्चेति
श्रोतारो द्विविधा पताः ॥ १० ॥
प्रवराश्चातको हंसः
शुको मीनादयस्तथा ।
अवरा
वृकभूरुण्डवृषोष्ट्राद्याः प्रकीर्तिताः ॥ ११ ॥
अखिलोपेक्षया यस्तु
कृष्णशास्त्रश्रुतौ व्रती ।
सः चातको
यथाम्भोदमुक्ते पाथसि चातकः ॥ १२ ॥
हंसः स्यात्
सारमादत्ते यः श्रोता विविधाच्छ्रुतात् ।
दुग्धेनैक्यं
गतात्तोयाद् यथा हंसोऽमलं पयः ॥ १३ ॥
शुकः सुष्ठु मितं
वक्ति व्यासम् श्रोतॄंश्च हर्षयन् ।
सुपाठितः शुको
यद्वत् शिक्षकं पार्श्वगानपि ॥ १४ ॥
शब्दं नानिमिषो
जातु करोत्यास्वादयन् रसम् ।
श्रोता स्निग्धो
भवेन्मीनो मीनः क्षीरनिधौ यथा ॥ १५ ॥
यस्तुदन् रसिकान्
श्रोतॄन् व्रौत्यज्ञो वृको हि सः ।
वेणुस्वनरसासक्तान्
वृकोऽरण्ये मृगान् हथा ॥ १६ ॥
भूरुण्डः
शिक्षयेदन्यात् श्रुत्वा न स्वयमाचरेत् ।
यथा हिमवतः श्रृंगे
भूरुण्डाखो विहंगमः ॥ १७ ॥
सर्वं
श्रुतमुपादत्ते सारासारान्धधीर्वृषः ।
स्वादुद्राक्षां
खलिं चापि निर्विशेषं यथा वृषः ॥ १८ ॥
स उष्ट्रो मधुरं
मुञ्चन् विपरीते रमेत यः ।
यथा निम्बं
चरत्युष्ट्रो हित्वाम्रमपि तद्युतम् ॥ १९ ॥
अन्येऽपि बहवो भेदा
द्वयोर्भृङ्गखरादयः ।
विज्ञेयास्तत्तदाचारैः तत्तत्प्रकृतिसम्भवैः ॥
२० ॥
यः स्थित्वाभिमुखं
प्रणम्य विधिवत्
त्यक्तान्यवादो
हरेः ।
लीलाः
श्रोतुमभीप्सतेऽतिनिपुणो
नम्रोऽथ
कॢपाञ्जलिः ।
शिष्यो
विश्वसितोऽनुचिन्तनपरः
प्रश्नेऽनुरक्तः शुचिः ।
नित्यं
कृष्णजनप्रियो निगदितः
श्रोता स वै
वक्तृभिः ॥ २१ ॥
भावगन्मतिरनपेक्षः
सुहृदो दीनेषु स्मानुकम्पो यः ।
बहुधा बोधनचतुरो
वक्ता सम्मानितो मुनिभिः ॥ २२ ॥
अथ भारतभृस्थाने
श्रीभागवतसेवने ।
विधिं श्रृणुत भो
विप्रा येन स्यात् सुखसन्ततिः ॥ २३ ॥
राजसं सत्त्विकं
चापि तामसं निर्गुणं तथा ।
चतुर्विधं तु
विज्ञेयं श्रीभागवतसेवनम् ॥ २४ ॥
सप्ताहं यज्ञवद्
यत्तु सश्रमं सत्वरं मुदा ।
सेवितं राजसं तत्तु
बहुपूजादिशोभनम् ॥ २५ ॥
मासेन ऋतुना वापि
श्रवणं स्वादसंयुतम् ।
सात्त्विकं
यदनायासं समस्तानन्दवर्धनम् ॥ २६ ॥
तामसं यत्तु वर्षेण
सालसं श्रद्धया युतम् ।
विस्मृतिस्मृतिसंयुक्तं सेवनं तच्च सौख्यदम् ॥
२७ ॥
वर्षमासदिनानां तु
विमुच्य नियमाग्रहम् ।
सर्वदा
प्रेमभक्त्यैव सेवनं निर्गुणं मतम् ॥ २८ ॥
पारीक्षितेऽपि
संवादे निर्गुणं तत् प्रकीर्तितम् ।
तत्र
सप्तदिनाख्यानं तदायुर्दिनसंखय्या ॥ २९ ॥
अन्यत्र त्रिगुणं
चापि निर्गुणं च यथेच्छया
यथा कथञ्चित्
कर्तव्यं सेवनं भगवच्छ्रुतेः ॥ ३० ॥
ये
श्रीकृष्णविहारैक भजनास्वादलोलुपाः ।
मुक्तावपि निराकाङ्क्षाः
तेषां भागवतं धनम् ॥ ३१ ॥
येऽपि
संसारसन्तापनिर्विण्णा मोक्षकाङ्क्षिणः ।
तेषां भवौषधं चैतत्
कलौ सेव्यं प्रयत्नतः ॥ ३२ ॥
ये चापि विषयारामाः
सांसारिकसुखस्पृहाः ।
तेषां तु कर्म
मार्गेण या सिद्धिः साधुना कलौ ॥ ३३ ॥
सामर्थ्यधनविज्ञानाभावादत्यन्तदुर्लभा ।
तस्मात्तैरपि
संसेव्या श्रीमद्भागवती कथा ॥ ३४ ॥
धनं पुत्रांस्तथा
दारान् वाहनादि यशो गृहान् ।
असापत्न्यं च
राज्यं च दद्यात् भागवती कथा ॥ ३५ ॥
इह लोके वरान्
भुक्त्वा भोगान् वै मनसेप्सितान् ।
श्रीभागवतसंगेन
यात्यन्ते श्रीहरेः पदम् ॥ ३६ ॥
यत्र भागवती वार्ता
ये च तच्छ्रवणे रताः ।
तेषां संसेवनं
कुर्याद् देहेन च धनेन च ॥ ३७ ॥
तदनुग्रहतोऽस्यापि
श्रीभागवतसेवनम् ।
श्रीकृष्णव्यतिरिक्तं यत्तत् सर्वं धनसंज्ञितम्
॥ ३८ ॥
कृष्णार्थीति
धनार्थीति श्रोता वक्ता द्विधा मतः ।
यथा वक्ता तथा
श्रोता तत्र सौख्यं विवर्धते ॥ ३९ ॥
उभयोर्वैपरीत्ये तु
रसाभासे फलच्युतिः ।
किन्तु
कृष्णार्थिनां सिद्धिः विलम्बेनापि जायते ॥ ४० ॥
धनार्थिनस्तु
संसिद्धिः विधिसंपूर्णतावशात् ।
कृष्णार्थिनोऽगुणस्यापि प्रेमैव विधिरुत्तमः ॥
४१ ॥
आसमाप्ति सकामेन
कर्त्तव्यो हि विधिः स्वयम् ।
स्नातो
नित्यक्रियां कृत्वा प्राश्य पादोदकं हरेः ॥ ४२ ॥
पुस्तकं च गुरुं
चैव पूजयित्वोपचारतः ।
ब्रूयाद् वा
श्रृणुयाद् वापि श्रीमद्भागवतं मुदा ॥ ४३ ॥
पयसा वा हविषेण
मौनं भोजमाचरेत् ।
ब्रह्मचर्यमधःसुप्तिं क्रोधलोभादिवर्जनम् ॥ ४४ ॥
कथान्ते कीर्तनं
नित्यं समाप्तौ जागरं चरेत् ।
ब्रह्मणान्
भोजयित्वा तु दक्षिणाभिः प्रतोषयेत् ॥ ४५ ॥
गुरवे वस्त्रभूषादि
दत्त्वा गां च समर्पयेत् ।
एवं कृते विधाने तु
लभते वाञ्छितं फलम् ॥ ४६ ॥
दारागारसुतान्
राज्यं धनादि च यदीप्सितम् ।
परंतु शोभते नात्र
सकामत्वं विडम्बनम् ॥ ४७ ॥
कृष्णप्राप्तिकरं
शश्वत् प्रेमानन्दफलप्रदम् ।
श्रीमद्भागवतं
शास्त्रं कलौ कीरेण भाषितम् ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये
वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये भागवत श्रोतृवक्तृ
लक्षणविधिनिरूपणं नाम चतुर्थोऽध्यायः॥४॥
हरिः ॐ तत्सत्
श्रीकृष्णार्पणमस्तु ॥
COMMENTS