भागवत माहात्म्य स्कन्द पुराण द्वितीय अध्याय(संस्कृत)
![]() |
भागवत माहात्म्य स्कन्द पुराण द्वितीय अध्याय(संस्कृत) |
भागवत माहात्म्य स्कन्द पुराण द्वितीय अध्याय(संस्कृत)
ऋषयः ऊचुः
शाण्डिल्ये तौ समादिश्य परावृत्ती स्वमाश्रमम् ।
किं कथं चक्रतुस्तौ
तु राजानौ सूत तद् वद ॥ १ ॥
सूत उवाच
ततस्तु विष्णुरातेन श्रेणीमुख्याः सहस्रशः ।
इन्द्रप्रस्थान्
समानाय्य मथुरास्थानमापिताः ॥ २ ॥
माथुरान्
ब्राह्मणान् तत्र वानरांश्च पुरातनान् ।
विज्ञाय माननीयत्वं
तेषु स्थापैतवान् स्वराट् ॥ ३ ॥
वज्रस्तु तत्सहायेन
शाण्डिल्यस्याप्यनुग्रहात् ।
गोविन्दगोपगोपीनां
लीलास्थानान्यनुक्रमात् ॥ ४ ॥
विज्ञायाभिधयाऽऽस्थाप्य ग्रामानावासयद् बहून् ।
कुण्डकूपादिपूर्तेन
शिवादिस्थापनेन च ॥ ५ ॥
गोविन्दहरिदेवादि
स्वरूपारोपणेन च ।
कृष्णाइकभक्तिं
स्वे राज्ये ततान च मुमोद ह ॥ ६ ॥
प्रजास्तु
मुदितास्तस्य कृष्णकीर्तनतत्पराः ।
परमानन्दसम्पन्ना
राज्यं तस्यैव तुष्टुवुः ॥ ७ ॥
एकदा कृष्णपत्न्यस्तु
श्रीकृष्णविरहातुराः ।
कालिन्दीं मुदितां
वीक्ष्य तत्तासां करुणापरमानसा ॥ १० ॥
कालिन्दी उवाच
आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका ।
तस्या
दास्यप्रभावेण विरहोऽस्मान् न संस्पृशेत् ॥ ११ ॥
तस्या
एवांशविस्ताराः सर्वाः श्रीकृष्णनायिकाः ।
नित्यसम्भोग
एवास्ति तस्याः साम्मुख्ययोगतः ॥ १२ ॥
स एव सा स सैवास्ति
वंशी तत्प्रेमरूपिका ।
श्रीकृष्णनखचन्द्रालि सङ्घाच्चन्द्रावली स्मृता
॥ १३ ॥
रूपान्तरमगृह्णाना
तयोः सेवातिलालसा ।
रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः ॥ १४ ॥
युष्माकमपि कृष्णेन
विरहो नैव सर्वतः ।
किन्तु एवं न जानीथ
तस्माद् व्याकुलतामिताः ॥ १५ ॥
एवमेवात्र गोपीनां
अक्रूरावसरे पुरा ।
विरहाभास एवासीद्
उद्धवेन समाहितः ॥ १६ ॥
तेनैव भवतीनां चेद्
भवेदत्र समागमः ।
तर्हि नित्यं
स्वकान्तेन विहारमपि पल्स्यथ ॥ १७ ॥
सूत उवाच
एवमुक्तास्तु ताः पत्न्यः प्रसन्नां पुनरब्रुवन् ।
उद्धवालोकनेनात्म
प्रेष्ठसङ्गमलालसाः ॥ १८ ॥
श्रीकृष्णपत्न्य ऊचुः
धन्यासि सखि कान्तेन यस्या नैवास्ति विच्युतिः ।
यतस्ते
स्वार्थसंसिद्धिः तस्या दास्यो बभूविम ॥ १९ ॥
परन्तूद्धवलाभे
स्याद् अस्मत् सर्वार्थसाधनम् ।
तथा वदस्व कालिन्दि
तल्लाभोऽपि यथा भवेत् ॥ २० ॥
सूत उवाच
एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा ।
स्मरन्ती
कृष्णचन्द्रस्य कलाः षोडशरूपिणीः ॥ २१ ॥
साधनभूमिर्बदरी
व्रजता कृष्णेन मंत्रिणे प्रोक्ता ।
तत्रास्ते स तु
साक्षात् तद् वयुनं ग्राहयन् लोकान् ॥ २२ ॥
फलभूमिर्व्रजब्ःउमिः दत्ता तस्मै पुरैव सरहस्यम्
।
फलमिह तिरोहितं
सत्तद् इहेदानीं स उद्धवोऽलक्ष्यः ॥ २३ ॥
गोवर्द्धनगिरिनिकटे
सखीस्थले तद्६रजः कामः ।
तत्रत्याङ्कुरवल्लीरूपेणास्ते
स उद्धवो नूनम् ॥ २४ ॥
आत्मोत्सवरूपत्वं
हरिणा तस्मै समार्पितं नियतम् ।
तस्मात् तत्र
स्थित्वा कुसुमसरःपरिसरे सवज्राभिः ॥ २५ ॥
वीणावेणुमृदङ्गैः
कीर्तनकाव्यादिसरससङ्गीतैः ।
उत्सव आरब्धव्यो
हरिरतलोकान् समानाय्य ॥ २६ ॥
तत्रोद्धवावलोको
भविता नियतं महोत्सवे वितते ।
यौष्माकीणां
अभिमतसिद्धिं सविता स एव सवितानाम् ॥ २७ ॥
सूत उवाच
इति श्रुत्वा प्रसन्नास्ताः कालिन्दीं अभिवन्द्य तत् ।
कथयामासुरागत्य
वज्रं प्रति परीक्षितम् ॥ २८ ॥
विष्णुरातस्तु तत्
श्रुत्वा प्रसन्नस्तद्युतस्तदा ।
तत्रैवागत्य तत्
सर्वं कारयामास सत्वरम् ॥ २९ ॥
गोवर्द्धनाददूरेण
वृन्दारण्ये सखीस्थले ।
प्रवृत्तः
कुसुमाम्भोधौ कृष्णसंकीर्तनोत्सवः ॥ ३० ॥
वृषभानुसुताकान्त
विहारे कीर्तनश्रिया ।
साक्षादिव
समावृत्ते सर्वेऽनन्यदृशोऽभवन् ॥ ३१ ॥
ततः पश्यत्सु
सर्वेषु तृणगुल्मलताचयात् ।
आजगामोद्धवः
स्रग्वी श्यामः पीताम्बरावृतः ॥ ३२ ॥
गुञ्जमालाधरो गायन्
वल्लवीवल्लभं मुहुः ।
तदागमनतो रेजे भृशं
सङ्कीर्तनोत्सवः ॥ ३३ ॥
चन्द्रिकागमतो
यद्वत् स्फाटिकाट्टालभूमणिः ।
अथ सर्वे
सुखाम्भोधौ मग्नाः सर्वं विसस्मरुः ॥ ३४ ॥
क्षणेनागतविज्ञाना
दृष्ट्वा श्रीकृष्णरूपिणम् ।
उद्धवं
पूजयाञ्चक्रुः प्रतिलब्धमनोरथाः ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये
वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये गोवर्धनपर्वतसमीपे
परीक्षिदादीनां उद्धवदर्शनवर्णनं नाम द्वितीयोऽध्यायः॥२॥
हरिः ॐ तत्सत्
श्रीकृष्णार्पणमस्तु ॥