भागवत प्रथम स्कन्ध पञ्चम अध्याय (bhagwat 1.5)।सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
bhagwat chapter 1.5 |
भागवत प्रथम स्कन्ध पञ्चम अध्याय (bhagwat 1.5)
सूत उवाच
अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।
देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
नारद उवाच
पाराशर्य महाभाग भवतः कच्चिदात्मना ।
परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
जिज्ञासितं सुसंपन्नं अपि ते महदद्भुतम् ।
कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम् ।
तथापि शोचस्यात्मानं अकृतार्थ इव प्रभो ॥ ४ ॥
व्यास उवाच
अस्त्येव मे सर्वमिदं त्वयोक्तं
तथापि नात्मा
परितुष्यते मे ।
तन्मूलमव्यक्तमगाधबोधं
पृच्छामहे
त्वात्मभवात्मभूतम् ॥ ५ ॥
स वै भवान् वेद समस्तगुह्यं
उपासितो यत्पुरुषः
पुराणः ।
परावरेशो मनसैव विश्वं
सृजत्यवत्यत्ति
गुणैरसङ्गः ॥ ६ ॥
त्वं पर्यटन्नर्क इव त्रिलोकीं
अन्तश्चरो
वायुरिवात्मसाक्षी ।
परावरे ब्रह्मणि धर्मतो व्रतैः
स्नातस्य मे न्यूनमलं
विचक्ष्व ॥ ७ ॥
श्रीनारद उवाच
भवतानुदितप्रायं यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
न यद् वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत
कर्हिचित् ।
तद्वायसं तीर्थमुशन्ति मानसा
न यत्र हंसा
निरमन्त्युशिक्क्षयाः ॥ १० ॥
तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन्
प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
श्रृण्वन्ति गायन्ति
गृणन्ति साधवः ॥ ११ ॥
नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं
निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे
न चार्पितं कर्म
यदप्यकारणम् ॥ १२ ॥
अथो महाभाग भवानमोघदृक्
शुचिश्रवाः सत्यरतो
धृतव्रतः ।
उरुक्रमस्याखिलबंधमुक्तये
समाधिनानुस्मर तद्विचेष्टितम्
॥ १३ ॥
ततोऽन्यथा किञ्चन यद्विवक्षतः
पृथग् दृशस्तत्
कृतरूपनामभिः ।
न कर्हिचित् क्वापि च दुःस्थिता मतिः
लभेत
वाताहतनौरिवास्पदम् ॥ १४ ॥
जुगुप्सितं धर्मकृतेऽनुशासतः
स्वभावरक्तस्य महान्
व्यतिक्रमः ।
यद्वाक्यतो धर्म इतीतरः स्थितो
न मन्यते तस्य
निवारणं जनः ॥ १५ ॥
विचक्षणोऽस्यार्हति वेदितुं विभोः
अनन्तपारस्य
निवृत्तितः सुखम् ।
प्रवर्तमानस्य गुणैरनात्मनः
ततो भवान् दर्शय
चेष्टितं विभोः ॥ १६ ॥
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः
भजन् अपक्वोऽथ पतेत्
ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां
स्वधर्मतः ॥ १७ ॥
तस्यैव हेतोः प्रयतेत कोविदो
न लभ्यते यद्भ्रमतामुपर्यधः
।
तल्लभ्यते दुःखवदन्यतः सुखं
कालेन सर्वत्र
गभीररंहसा ॥ १८ ॥
न वै जनो जातु कथञ्चनाव्रजेत्
मुकुंदसेव्यन्यवदङ्ग
संसृतिम् ।
स्मरन् मुकुंदाङ्घ्र्युपगूहनं पुनः
विहातुमिच्छेन्न
रसग्रहो जनः ॥ १९ ॥
इदं हि विश्वं भगवानिवेतरो
यतो
जगत्स्थाननिरोधसंभवाः ।
तद्धि स्वयं वेद भवांस्तथापि वै
प्रादेशमात्रं भवतः
प्रदर्शितम् ॥ २० ॥
त्वमात्मनात्मानमवेह्यमोघदृक्
परस्य पुंसः
परमात्मनः कलाम् ।
अजं प्रजातं जगतः शिवाय तन्
महानुभावाभ्युदयोऽधिगण्यताम्
॥ २१ ॥
इदं हि पुंसस्तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य
च बुद्धिदत्तयोः ।
अविच्युतोऽर्थः कविभिर्निरूपितो
यदुत्तमश्लोक
गुणानुवर्णनम् ॥ २२ ॥
अहं पुरातीतभवेऽभवं मुने
दास्यास्तु कस्याश्चन
वेदवादिनाम् ।
निरूपितो बालक एव योगिनां
शुश्रूषणे प्रावृषि
निर्विविक्षताम् ॥ २३ ॥
ते मय्यपेताखिलचापलेऽर्भके
दान्तेऽधृतक्रीडनकेऽनुवर्तिनि
।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः
शुश्रूषमाणे
मुनयोऽल्पभाषिणि ॥ २४ ॥
उच्छिष्टलेपाननुमोदितो द्विजैः
सकृत्स्म भुञ्जे
तदपास्तकिल्बिषः ।
एवं प्रवृत्तस्य विशुद्धचेतसः
तद्धर्म एवात्मरुचिः
प्रजायते ॥ २५ ॥
तत्रान्वहं कृष्णकथाः प्रगायतां
अनुग्रहेणाश्रृणवं
मनोहराः ।
ताः श्रद्धया मेऽनुपदं विश्रृण्वतः
प्रियश्रवस्यङ्ग
ममाभवद् रुचिः ॥ २६ ॥
तस्मिंस्तदा लब्धरुचेर्महामते
प्रियश्रवस्यस्खलिता
मतिर्मम ।
ययाहमेतत् सदसत्स्वमायया
पश्ये मयि ब्रह्मणि
कल्पितं परे ॥ २७ ॥
इत्थं शरत् प्रावृषिकावृतू हरेः
विश्रृण्वतो मेऽनुसवं
यशोऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर्महात्मभिः
भक्तिः
प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
ज्ञानं गुह्यतमं यत्तत् साक्षाद्भगवतोदितम् ।
अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥
येनैवाहं भगवतो वासुदेवस्य वेधसः ।
मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
एतत् संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
आमयो यश्च भूतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
यदत्र क्रियते कर्म भगवत् परितोषणम् ।
ज्ञानं यत् तद् अधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥
इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् ।
यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ ३८ ॥
इमं स्वनिगमं ब्रह्मन् अवेत्य मदनुष्ठितम् ।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥
त्वमप्यदभ्रश्रुत विश्रुतं
विभोः
समाप्यते येन विदां
बुभुत्सितम् ।
प्राख्याहि दुःखैर्मुहुरर्दितात्मनां
संक्लेशनिर्वाणमुशन्ति
नान्यथा ॥ ४० ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
COMMENTS