Image; A vibrant digital painting depicting the Dashavatara, the ten incarnations of Lord Vishnu in Hindu mythology. Each avatar is intricately detailed |
मत्स्यरूपिणो भगवतः प्रार्थना-
त्रय्या दुर्जयदानवेन्द्रहृतया वैयाकुलीं प्रापिते
नालीकासनमानसे सरसिजे भानोरपायेन वा ।
मध्येऽम्भोनिधि यः प्रहृत्य तमरिं वाणीं पुराणीं पुनः
*प्रादात् तस्य यथापुरं स तनुतां श्रीमत्स्यमूर्तिः श्रियम् ॥ १॥
कूर्मरूपिणो भगवतः प्रार्थना-
यच्छ्वासानिलपर्युदस्तजलधि*क्रोडोच्चलद्वीचिका-
वेधःसौधविघट्टनोद्भटरवो ब्रह्माण्डमास्फोटयन् ।
दैत्यान् मोहयतो हरेर्दिविषदां पीयूषदानक्षणे*
साहाय्यं विततान शर्म कुहनामूर्तिः स निर्मातु नः ॥ २॥
वराहरूपिणो भगवतः प्रार्थना-
दंष्ट्राग्रे पृथुसीम्नि यस्य जलधेरुन्मग्नमूर्तेः पुरा
घोणे घुर्घुरधूर्णमानतनुतामासेदुषी मेदिनी ।
प्रीता शैलशिखाधिरोहजनितामाधत्त दिव्यां श्रियं
मायासूकरशेखरः स दिशतामामोदभूमोदयम् ॥ ३॥
नरसिंहरूपिणो भगवतः प्रार्थना-
दंष्ट्रांशूच्चयपाण्डरैर्नखमुखैर्दैत्येन्द्रवक्षःस्थली-
निष्ट्यूतामितकुङ्कुमाभरुधिरप्राग्भारसम्भावितैः ।
मालिन्यं द्युसदां ममार्ज हृदये प्रह्लादमाह्लादयन्
यः पूर्वं तमिमं भजेम शरणं वैकुण्ठकण्ठीरवम् ॥ ४॥
वामनरूपिणो भगवतः प्रार्थना-
आसीद् यस्य वितानमम्बरसरित् पूर्वं परस्तादसौ
शीर्षत्राणमभूदथो गलतले मन्दारमालाभवत् ।
जाता धौतमथांशुकं कटितटे पादारविन्दे ततः
सम्पेदे मधुबिन्दुरीतिमवतात् याच्ञावटुस्तद्वदुः ॥ ५॥
परशुरामरूपिणो भगवतः प्रार्थना-
दृप्तक्षत्रवधाध्वरे पितृवधामर्षोदयाद् दीक्षितो
बाहा हेहयनायकस्य समिधः साहस्रमप्युज्ज्वलाः ।
धाराग्रज्वलदाशुशुक्षणिशिखामध्ये कुठारस्य यो
निस्तन्द्रं जुहुवाम्बभूव मुनिराडव्यादभव्यात् स नः ॥ ६॥
श्रीरामभद्ररूपिणो भगवतः प्रार्थना-
वीरः कोऽपि सकृन्नतार्तिहरणश्रद्धाविशुद्धाशयः
कामं कामपि सम्पदं वितनुतामाकल्पमल्पेतराम् ।
यस्यापाङ्गजशोणिमा स्तनतटे सेहे न मुक्ताश्रियं
नेत्रे कज्जलकालिमानमपि च क्रव्यादवामभ्रुवाम् ॥ ७॥
बलभद्ररूपिणो भगवतः प्रार्थना-
यस्याहुर्मुसलं हलं प्रहरणं सङ्ग्रामसीमाजुषो
भेत्तुं वैरिशिरोधनान् नमयितुं चान्यानपेक्षं बुधाः ।
येनाकार्षि च हस्तिनं कुरुमदज्वालारुजं जाह्नवी-
पूरे त्याजयितुं स लाङ्गलधरः कुर्वीत गुर्वी श्रियम् ॥ ८॥
श्रीकृष्णरूपिणो भगवतः प्रार्थना-
अन्विष्टोऽपि चिरादकृत्रिमगिरां श्रेणीभिरेणीदृशां
गोपालाह्वयजन्मनां तु सुलभं स्वात्मानमाधत्त यः ।
यो विश्वस्य नियन्तृतामनुभवन्त्रप्यावहद् दूततां
बघ्नीमोऽञ्जलिमादरेण करुणादिग्धाय मुग्धात्मने ॥ ९॥
कल्किरूपिणो भगवतः प्रार्थना-
राजन्यापशन्दैर्जगद्विपदलङ्कर्मीणचर्यापदै-
र्निर्मूले निखिले कलेरुपचयाद् धर्मे महीमण्डले ।
प्रादुर्भूय कृपाणपाणिरथ तान् निर्धूय भूयः पुरा
धर्मं कार्तयुगं प्रवर्तयति यः कल्की श्रियै कल्पताम् ॥ १०॥
इति कौशिकरङ्गनाथसूरिः सुकुमारैः पदगुम्भनैः स्तुवन् सन् ।
परमं पुरुषं दशावतारम् शोभते कृतार्थः ॥
thanks for a lovly feedback