न्याय वैशेषिक दर्शन में पारिभाषिक नियम और निर्वचन

SOORAJ KRISHNA SHASTRI
0

 

न्यायवैशेषिके पारिभाषिकपदानि निर्वचनानि च

१ लक्षणप्रमाणाभ्यां वस्तुसिद्दि: न तु प्रतिज्ञामात्रेण ।

२ जातिमत्वे सति बाह्यैकेन्द्रियमात्रग्राह्यत्वं  विशेषगुणत्वम्।

३ असाधारणधर्मो लक्षणम्(गो: सास्नादिमत्वं लक्षणम्)।

(समानासमानजातीयव्यवच्छेदकत्वम्)

४ लक्ष्यैकदेशवृत्तित्वम् अव्याप्तिः (गो: कपिलत्वम्)।

५ लक्ष्यवृतित्वे सति अलक्ष्यवृत्तित्वम् अतिव्याति:। (गोः शृङ्गित्वम्)। 

६ लक्ष्यमात्रावृतित्वमसम्भव: (गोः एकशफवत्त्वम्)।

७ उत्पन्नं द्रव्यं  क्षणमगुणं निष्क्रियं च तिष्ठति।

८ अतस्मिन् तद्बुद्धिः भ्रान्तिः।

९ अन्यूनानतिरिक्तव्यक्तिकत्वं तुल्यत्वम्।

१० परस्परात्यन्ताभावसमानाधिकरणयो: धर्मयो: एकत्र समावेश: सङ्कर: ।

११ नित्यत्वे सति अनेकसमवेतत्वं सामान्यत्वम् ।

१२ स्वपरव्यावर्तकस्वभावत्वं विशेषत्वम्।

१३ नित्यसंबन्धत्वं समवायत्वम्।

१४ नियतपूर्वंवृत्तित्वं कारणत्वम्।

१५ प्रतिपत्तु: सामान्याश्रयत्वेनावधारिते धर्मिणि विशेषावधारणात्मको य: प्रत्ययो जायते स एव संशय: ।

१६ समानेन्द्रियग्राह्याणां समनियतानाम् एकव्यंजकाभिव्यंग्यत्वनियम:।

१७ वस्तुस्वभावात् यो हि येन प्रतिबद्धस्सन् तद्भावे भवति तदभावे च न भवति स एव तस्य हेतुरिति      सार्वत्रिको नियम:।

१८ एकार्थसमवायित्वं चैकस्मिन् अर्थे समवायेन वृत्तिमत्वम्।

१९ हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्ति: । 

२० यद्धि शरीराश्रयं सत् स्वसंयुक्तेऽर्थे ज्ञातुरपरोक्षप्रतीतिसाधनं द्रव्यं तदिन्द्रियमित्युच्यते।

२१ अन्वयानुपपत्तिर्वा तात्पर्यानुपपत्तिर्वा लक्षणाबीजम्।

२२ येनेन्द्रियेण या व्यक्तिर्गृह्यते तेनैव  तद्गता जातिरिति।

२३ भोक्तुर्भोगायतनं चेष्टेन्द्रियार्थाश्रयो वा शरीरम्।

२४ शरीरेन्द्रियव्यतिरिक्तत्वे सति आत्मोपयोगसाधनं द्रव्यं विषय: ।

२५ मानव्यवहारासाधारणकारणं परिमाणम्।

२६ सर्वव्यवहारहेतु: ज्ञानं बुद्धिः।

२७ तद्वति तत्प्रकारिकानुभूति: विद्या।

२८तदभाववति तत्प्रकारिकानुभूति: अविद्या ।

२९ एकस्मिन् धर्मिणि नानाधर्मप्रकारकं ज्ञानं संशय:।

३० अतस्मिन् तद्बुध्दि: विपर्यय:।

३१ स्वार्थम् वा परार्थम् वा अप्राप्तार्थप्रार्थनम् इच्छा।

३२ पदपदार्थयो: साक्षात् सम्बन्ध: शक्ति:।

३३ पदपदार्थयो: परंपरासम्बन्ध: लक्षणा।

३४ अर्थाव्यभिचारित्वम् आप्ति:। तया वर्तते इति आप्त:।

३५ येन पदेन विना यस्य पदस्याननुभावकत्वम् तेन पदेन सह तस्याकांक्षा।

३६ यत्समवेतमुत्पद्यते तत्समवायिकारणम्।

३७ समवायिकारणे प्रत्यासन्नं यत्कारणं तदसमवायिकारणम्।

३८ तदुभयभिन्नं कारणं निमित्तकारणम्।

३९ यध्दर्मविशिष्टं कार्यं भवति स धर्म: कार्यतावच्धेदक: घटत्वविशिष्टं कार्यं , घटत्वं कार्यतावच्छेदकं, घटत्वावच्छिन्ना कार्यता

४० यध्दर्मविशिष्टं कारणं भवति स धर्म: कारणतावच्छेदक:। दण्डत्वविशिष्टं कारणं, दण्डत्वं कारणतावच्छेदकं, दण्डत्वावच्छिन्ना कारणता।

४१ येन सम्बन्धेन यन्नास्तीत्यु्च्यते तन्निष्ठा प्रतियोगिता तत्सम्बन्धावच्छिन्ना।

उदाहरणम् --

  • संयोगसम्बन्धेन घटो नास्ति।
  • संयोगसम्बन्ध: प्रतियोगितावच्छेदकसम्बन्ध:
  • संयोगसम्बन्धावच्छिन्ना प्रतियोगिता

४२ विषयता त्रिधा – विशेष्यता, प्रकारता, संसर्गताचेति प्रकारतैव विशेषणता इत्युच्यते।

४३ शाब्दबोधो द्विविध: 🡪 खण्डशाब्दबोध:, अखण्डशाब्दबोधश्चेति

आद्य: - घटमानय इत्यत्र घट पदस्य घटोर्थ:, द्वितीयाया: कर्मत्वमर्थ:,आङ्पूर्वकनीञ्धातो: आनयनम्, आख्यातस्य कृतिश्चार्थः,एवंरूप: खण्डशाब्दबोध:। द्वितीय: - घटकर्मकानयनानुकूलकृतिमान् चैत्र: इत्याकार:। आद्यस्य शाब्दबोधत्वव्यवहार: गौण:

यमते प्रथमान्तार्थमुख्यविशेव्यकशाब्दबोधोऽङ्गीक्रियते। यथा घटमानयेत्यत्र घटकर्मकानयनानुकूलकृतिमान् चैत्र इति। वैयाकरणमते, भावो नाम धात्वर्थ:प्रधानं विशेष्यम्,यथा तत्रैव चैत्रकर्तृकं घटकर्मकमानयनमिति।

मीमांसकमते चाख्यातार्थमुख्यविशेष्यकबोधोङ्गीक्रियते, यथा तत्रैव घटकर्मकानयनानुकूला चैत्रसमवेता कृतिरिति।

 

एतन्मते शक्तिर्लक्षणाचेति वृत्तिर्द्विविधैव न व्यंजनावृत्तिरपि तृतीया अभ्युपेयते, यत: शब्दशक्तिमूलव्यंजनावृत्तिश्शक्त्या, अर्थशक्तिमूलव्यंजनावृत्तिरनुमानेन च चरितार्या भवति , यथा दूरस्था भूधरा रम्या इत्यत्र भूधरपदस्य पर्वतनृपयोस्समाना शक्तिरेवाङ्गीक्रियते, गच्छ गच्छसि चेत्कान्त तत्रैव स्याज्जनिर्ममेत्यादौ इयं कान्ता भर्तृगमनोत्तरकालिकमरणव्यापारवती, एतादृशविलक्षणशब्दप्रयोगकर्तृत्वात् इत्यनुमानेनैवार्थशक्तिमूलव्यंजनया बोध्यस्य मरणरूपार्थस्य बोधनात् वृत्तिर्द्विविधैवेति सिध्दम्।

नानार्थकस्थले  सैंधवमानयेत्यादावेव तात्पर्यज्ञानस्यावश्यकता, न सर्वत्र शब्दबोधे तस्यावश्यकतेति केषांचिदाशय:।शाब्दबोधमात्रं प्रति तात्पर्यज्ञानं कारणमिति अन्येषामाशय:। 

 

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top