।। देव्युवाच ॥
अतिदारिद्र्यसिंधौं तु मग्नानां परमेश्वर।
उध्दारक्रमतो देव पूजां वद विधानतः ॥
दारिद्रय विध्वंसिनी पूजां ललितायां सविस्तराम् ।
शीघ्रसंम्पत्सिध्दिभूतां कृपया वद मे प्रभो ॥
।। ईश्वरोवाच ॥
शीघ्र संम्पत्प्रसिद्ध्यर्थं भार्गवेण कृता पुरा ।
श्रीमत्त्रिपुरसुंदर्याः सा पूजा कथ्यते मया ॥
य याति मंद भागोपि कुबेर सदृशो भुवि ।
जायते नात्र संदेहस्तां पूजां श्रुणु वल्लभे ॥
चक्रपूजां विधायादौ नैमित्तिकमथाचरेत् ।
तत्तदावरणस्थानेष्वियं पूजा विधीयते ॥
।। ध्यानम् ॥
हारनूपुरसंयुक्तां कमलद्वयधारिणीम् ।
लक्ष्मिःपरशिवमयि शुध्दजाम्बुनदप्रभाम् ॥
तेजोरुपां च कमलवसतिं विश्वमोहिनीम् ।
सर्वभूषोज्वलांगीं च बीजापुरधरा तथा ॥
।। स्तोत्रम् ॥
आद्याशक्तिश्च सकल जननीं कलशधारिणीम् ।
विष्णुवामांगसंस्थां च ततश्च कमलालया ॥
श्रीमत्सौभाग्यजननी भार्गवी च सनातनी ।
सर्वकामफलवाप्नोति साधनैक सुखावहा ॥
हिरण्यवर्णा हरिणीं सुवर्णललितस्त्रजाम् ।
समस्तसंम्पत्सुखदौ खिल सौभाग्यदायिनी ॥
समस्तकल्याणकरीं ज्ञानदां च हरिप्रियाम् ।
विज्ञानसंम्पत्सुखदां ह्यश्वपूर्णाँ हिरण्यमयी ॥
विचित्र वाग्भूतिकरी रथमध्यां मनोहराम् ।
हस्तिनादप्रमोदां चानंन्तसौभाग्यदायिनी ॥
सर्वभुतान्तरस्थांच स्वर्णप्राकारमध्यगाम् ।
समस्तभुतेश्वरी च विश्वरुपा प्रभामयी ॥
दारिद्रय दुःखौघ तमोहन्त्रिं पद्मिनिं तथा ।
दीनार्तिविच्छेददक्षा कृपाकलितलोचना ॥
प्रणतस्वान्त शोकघ्निं शरणागत रक्षणा ।
शांतिः कांतिः पद्मसंस्थां कमनीय गुणाश्रया ॥
क्षान्तिर्दान्तिंश्च दुरितक्षयकारिण्यतः परम् ।
शशिशेखर संस्था च धनधान्यसमृध्दिदाम् ॥
शक्तिं रतिर्नित्यपुष्टां रजनीकरसोदराम् ।
करिशिणीं च भक्तिश्च भवसागरतारिणीम् ॥
मतिः सिध्दिर्धुतिश्चैवं मधुसुदनवल्लभाम् ।
पुष्टिं हिरण्यमालां च सुलक्षणेन च लक्षिताम् ॥
अतिदुर्गति हंन्त्रिं च वरसद्गतिदायिनीम् ।
देवि देवगणाराध्या भुवनार्ति विनाशिनीम् ॥
आर्द्राँ पुष्करिणीं पुष्टिर्धरणीधरवल्लभा ।
दारिद्रय दुःखहन्त्रिं च भयविध्वंसिनी तथा ॥
श्रीविष्णुवक्षस्थगा ह्यशेषासुविभूतिदाम् ।
लक्षणालक्षितांगी च पद्मा पद्मासनार्चिताम् ॥
विद्यासत्करिं चैव देवसंघाभिपूजिताम् ।
भद्राच भाग्यरुपा च नित्या निर्मल बुध्दिदाम् ॥
सत्या च सर्वभूतस्थां रत्नगर्भान्तरस्थिताम् ।
रम्या शुध्दां च कान्ता च कान्तिमद्भासितांगका ॥
सर्व सौख्यप्रदां देवि भक्तौघाभयदायिनीम् ।
श्वेतव्दिपकृतावासा जगन्माता जगन्मयी ॥
रत्नगर्भस्थितां सौम्यां क्षीराम्बुधिकृतालयाम् ।
प्रसन्न हृदयां चैव परिपूर्णा हिरण्यमयी ॥
वसुन्धरा श्रीधरां च वसुदोग्ध्रि कृपामयी ।
विष्णुप्रियां रत्नगर्भां समस्त फलदा तथा ॥
रसातलगताश्चैव सुव्रता च हरिप्रियाम् ।
धरणीगर्भ संस्था च समुन्नतमुखी तथा ॥
समस्तपुर संस्था च परिपूर्णमनोरथा ।
करुणारसनिःष्यन्द-नेत्रद्वयविलासिनीम् ॥
सर्वराजगृहावासां महालक्ष्मीर्गुणान्विताम् ।
वैकुण्ठनागरस्थां च क्षीरसागरकन्यका ॥
योगीह्रत्पद्मसंस्थां च कल्पवल्लि दयावतीम् ।
भक्तचिन्तामणिश्चैव ह्यादिमायेन्दिरा मम ॥
निराकारा च साकारा ब्रह्माण्डचयधारिणीम् ।
एकनाथाद्य लक्ष्मिश्चाज्ञानहन्त्री गुणातिगाम् ॥
प्रज्ञानलोचनाशेष वाग् जाड्य मलहारिणीम् ।
सुस्पृष्टवाक्यप्रदा चैव सर्व संपद्विराजिताम् ॥
प्रभा लावण्य सुभगा दोग्ध्रि स्वर्णप्रदा तथा ।
समस्त विघ्नौघहन्त्रि भोगदा च विचक्षणाम् ॥
देवादिनाथवन्द्यां च दीनपोषणतत्पराम् ।
मांगल्यबीजमहिमा निधिरुपिण्यनन्तगा ॥
आद्यादिलक्ष्मिश्च महासिध्दलक्ष्मिस्ततः परम् ।
राज्यलक्ष्मि दिव्यलक्ष्मि सुश्रीर्मंगलदेवताम् ॥
भक्तिदा मुक्तिदा चैव भुक्तिदा संगतिप्रदा ।
कीर्तिदा धनदा चैव पुत्र पौत्र विवर्धनम् ॥
पद्मानना च पद्मोरुः पद्माक्षी पद्मसंभवा ।
अश्वदायि च गोदायि धनदायि महाधना ॥
चन्द्रसुर्याग्नि सर्वाभां जातवेदास्त्र संस्थिताम् ।
दिग्गजेन्द्र समाराध्यां दिव्यभूषण भूषिताम् ॥
सर्वसंपत्प्रदा चैव तथा सर्वार्थदायिनी ॥
॥ जय ललिता परमेश्वरी विजयते ॥
thanks for a lovly feedback