क्रीडति जिह्वा वदनगुहायाम्
उच्चारणखेलं सुखदम्।
भिन्नं-भिन्नं गत्वा स्थानं
पृथगक्षरैः पृथक् खेलम्॥
कण्ठं गत्वा वदति अकारौ(अ,आ)
तथा कवर्गं सविसर्गम्(क,ख,ग,घ,ङ+ঃ)
तालु स्पृष्ट्वा वदति इकारौ(इ,ई)
तथा चवर्गं यश-सहितम्(च,छ,ज,झ,ञ,य,श)॥
मूर्धानं स्पृष्ट्वैषा वक्ति
ऋ-ॠ-टवर्गं रष-सहितम्(ऋ,ॠ,ट,ठ,ड,ढ,ण,र,ष)।
दन्तान् स्पृष्ट्वा वदति तवर्गं
तथा लकारं स-सहितम्(ल,स)।
ओष्ठौ लब्ध्वा वदति पवर्गं(प,फ,ब,भ,म)
ह्रस्वमुकारं वा दीर्घम्(उ,ऊ)॥
जिह्वाया नासिका सखी या
भवति सहाया गङ्गायाम्।
‘ङ’-अक्षरप्रकाशे दक्षा
पुनः कञ्चने ञ-वर्णे॥
णनमाक्षरैः(ण,न,म-अक्षरैः) समं जानीमः
सहयोगं नासादत्तम्।
कण्ठतालु-जिह्वा-क्रीडायाम्
एकारः ऐकारश्च(ए,ऐ)॥
उच्चरितौ स्पष्टतः अक्षरौ
ओ-औ कण्ठौष्ठाभ्यां च।
ओष्ठ-दन्तसङ्गतौ वकारः(व)
पुनर्नासिकाऽनुस्वारे(ं)॥
एतद् गीतं सदा स्मरामो
वर्णानां वयमुच्चारे॥
thanks for a lovly feedback