रक्षाबंधन पर्व के संस्कृत श्लोक

SOORAJ KRISHNA SHASTRI
0
Happy raksha bandhan
Happy raksha bandhan 


दाम्पत्यं च सुमानुषं भवति चेत् गार्हस्थ्यमत्यद्भुतम् 

सौभ्रात्रं यदि सुस्थिरं भवति चेत् सौख्यं सदा राजते । 

एवं सत्परिवारबन्धनविधौ पुत्त्रस्य पुत्र्यास्तथा 

पत्नोर्मानसमादिमं बहुविधं भाग्यं च दिव्यं भवेत् ॥ १॥


सौहार्द जनसम्मतं यदि भवेत् स्थैर्यं च राराज्यते 

तत्स्थैर्येण च राजिते च भुवने सौराज्यमापद्यते । 

सर्वं बन्धनपञ्चकं सुविशदं चादर्शयुक्तं भवेत् 

विद्याभ्यासवशेन सद्गुरुपदे लभ्येत वै शाश्वतम् ॥ २॥


तस्मादेव महर्षिभिश्च कलिता सर्वैः सदा संस्कृतिः 

संस्कारेषु गुरोः समीपगमनं प्राधान्यमाहुः परम् । 

वेदानाम् अधिवाचनं सुमहितं शिक्षादिसद्द्बोधनम् 

कर्तुं चाश्रमसन्निधौ च वसतिः पूर्वैः सदा कल्पिता ॥ ३॥


वेदारम्भजने तदा लसदुपाकर्मैव तत्कल्पितम् 

तद्दीक्षाव्रतमाहितं खलु तदा राकाव्रतं कथ्यते । 

तद्राकाव्रतमेव श्रावणमहामासे जनैः पाल्यते 

अन्येषां च कृते च रक्षणपरे रक्षासु बन्धः कृतः ॥ ४॥


रक्षाबन्धनपर्वपूतमनिशं सत्सोदरीभिः मुदा 

नानाचित्रविचित्रभासुरमिदं चेक्रीयमाणं सदा । 

सर्वे सोदरबान्धवैः बहुविधं चोपायनं दीयते 

मिष्टान्नं बहु भुज्यते मधुमयं बान्धव्यमाबध्यते ॥ ५॥


मान्या भारतसंस्कृतिः जनतया कल्याणसम्पत्करी 

संस्कृत्या च समाजनिर्मितरसौ धन्या शुभा जायते । 

सङ्गे शक्तिरनुत्तमा विजयते संस्कारबन्धेन च 

तेनैवात्र च सौमनस्यमनुषं तस्माच्च शान्तिः सुखम् ॥ ६॥


दाम्पत्येन च सौमनस्यमपरं सौभ्रात्त्रमत्यद्भुतम् 

पित्रोः पुत्रचयेन  सङ्गतिरसौ शस्या भवेन्निश्चितम् । 

सम्बन्धत्रितयेन गेहसुखता राराज्यतेऽहर्निशं 

मान्यैस्तत्परिवारनिचयैः सङ्गो भवत्यद्भुतः ॥ ७॥


तत्सङ्गैः शुभराज्यनिर्मितिरसा राजन्वती जायते 

षड्बन्धाः गुरुनिर्भरा गुरुकुले संवर्धमानाः पराः । 

योगे चक्रसुसंस्थितिः निरुपमा षण्णां यथा दृश्यते 

तद्वत्सङ्घपराः सुनिशिताः नूनं सुखं शाश्वतम् ॥ ८॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top