shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 3, bhagwatdarshan
bhagwat chapter 10.3 |
श्रीशुक उवाच
अथ
सर्वगुणोपेतः कालः परमशोभनः ।
यर्ह्यैवाजनजन्मर्क्षं शान्तर्क्ष-ग्रहतारकम् ॥ १ ॥
दिशः
प्रसेदुर्गगनं निर्मलोडुगणोदयम् ।
मही
मंगलभूयिष्ठ पुरग्राम-व्रजाकरा ॥ २ ॥
नद्यः
प्रसन्नसलिला ह्रदा जलरुहश्रियः ।
द्विजालिकुल
सन्नादस्तबका वनराजयः ॥ ३ ॥
ववौ
वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।
अग्नयश्च
द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥
मनांस्यासन्
प्रसन्नानि साधूनां असुरद्रुहाम् ।
जायमानेऽजने
तस्मिन् नेदुर्दुन्दुभयो दिवि ॥ ५ ॥
जगुः
किन्नरगन्धर्वाः तुष्टुवुः सिद्धचारणाः ।
विद्याधर्यश्च
ननृतुः अप्सरोभिः समं तदा ॥ ६ ॥
मुमुचुर्मुनयो
देवाः सुमनांसि मुदान्विताः ।
मन्दं
मन्दं जलधरा जगर्जुः अनुसागरम् ॥ ७ ॥
निशीथे
तम उद्भूते जायमाने जनार्दने ।
देवक्यां
देवरूपिण्यां विष्णुः सर्वगुहाशयः ।
आविरासीद्
यथा प्राच्यां दिशि इन्दुरिव पुष्कलः॥ ८॥
तमद्भुतं
बालकमम्बुजेक्षणं
चतुर्भुजं
शंखगदार्युदायुधम् ।
श्रीवत्सलक्ष्मं
गलशोभि कौस्तुभं
पीताम्बरं सान्द्रपयोदसौभगम्
॥ ९ ॥
महार्हवैदूर्यकिरीटकुण्डल
त्विषा परिष्वक्त सहस्रकुन्तलम् ।
उद्दाम
काञ्च्यङ्गद कङ्कणादिभिः
विरोचमानं वसुदेव ऐक्षत ॥ १० ॥
स
विस्मयोत्फुल्ल विलोचनो हरिं
सुतं विलोक्यानकदुन्दुभिस्तदा ।
कृष्णावतारोत्सव
संभ्रमोऽस्पृशन्
मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११ ॥
अथैनमस्तौदवधार्य
पूरुषं
परं नताङ्गः कृतधीः कृताञ्जलिः ।
स्वरोचिषा
भारत सूतिकागृहं
विरोचयन्तं गतभीः प्रभाववित् ॥ १२ ॥
वसुदेव उवाच
विदितोऽसि
भवान् साक्षात् पुरुषः प्रकृतेः परः ।
केवलानुभवानन्द
स्वरूपः सर्वबुद्धिदृक् ॥ १३ ॥
स
एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।
तदनु
त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४ ॥
यथा
इमे अविकृता भावाः तथा ते विकृतैः सह ।
नानावीर्याः
पृथग्भूता विराजं जनयन्ति हि ॥ १५ ॥
सन्निपत्य
समुत्पाद्य दृश्यन्तेऽनुगता इव ।
प्रागेव
विद्यमानत्वात् न तेषां इह संभवः ॥ १६ ॥
एवं
भवान् बुद्ध्यनुमेयलक्षणैः
ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।
अनावृतत्वाद्
बहिरन्तरं न ते
सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७ ॥
य
आत्मनो दृश्यगुणेषु सन्निति
व्यवस्यते स्व-व्यतिरेकतोऽबुधः ।
विनानुवादं
न च तन्मनीषितं
सम्यग् यतस्त्यक्तमुपाददत् पुमान् ॥ १८ ॥
त्वत्तोऽस्य
जन्मस्थिति संयमान् विभो
वदन्ति अनीहात् अगुणाद् अविक्रियात्।
त्वयीश्वरे
ब्रह्मणि नो विरुध्यते
त्वद् आश्रयत्वाद् उपचर्यते गुणैः ॥ १९ ॥
स
त्वं त्रिलोकस्थितये स्वमायया
बिभर्षि शुक्लं खलु वर्णमात्मनः ।
सर्गाय
रक्तं रजसोपबृंहितं
कृष्णं च वर्णं तमसा जनात्यये
॥ २० ॥
त्वमस्य
लोकस्य विभो रिरक्षिषुः
गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।
राजन्य
संज्ञासुरकोटि यूथपैः
निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१ ॥
अयं
त्वसभ्यस्तव जन्म नौ गृहे
श्रुत्वाग्रजांस्ते न्यवधीत्
सुरेश्वर ।
स
तेऽवतारं पुरुषैः समर्पितं
श्रुत्वाधुनैव अभिसरत्युदायुधः ॥ २२ ॥
श्रीशुक उवाच
अथैनं
आत्मजं वीक्ष्य महापुरुष लक्षणम् ।
देवकी
तं उपाधावत् कंसाद् भीता सुचिस्मिता ॥ २३ ॥
देवक्युवाच
रूपं
यत् तत् प्राहुरव्यक्तमाद्यं
ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं
निर्विशेषं निरीहं
स त्वं साक्षात्
विष्णुरध्यात्मदीपः ॥ २४ ॥
नष्टे
लोके द्विपरार्धावसाने
महाभूतेषु आदिभूतं गतेषु ।
व्यक्ते
अव्यक्तं कालवेगेन याते
भवान् एकः शिष्यते शेषसंज्ञः ॥ २५ ॥
योऽयं
कालस्तस्य तेऽव्यक्तबन्धो
चेष्टां आहुः चेष्टते येन
विश्वम् ।
निमेषादिः
वत्सरान्तो महीयान्
तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥
मर्त्यो
मृत्युव्यालभीतः पलायन्
लोकान्
सर्वान् निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं
प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युरस्मादपैति ॥ २७ ॥
स
त्वं घोरात् उग्रसेनात्मजात् नः
त्राहि त्रस्तान् भृत्यवित्रासहासि ।
रूपं
चेदं पौरुषं ध्यानधिष्ण्यं
मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८ ॥
जन्म
ते मय्यसौ पापो मा विद्यात् मधुसूदन ।
समुद्विजे
भवद्धेतोः कंसाद् अहमधीरधीः ॥ २९ ॥
उपसंहर
विश्वात्मन् अदो रूपं अलौकिकम् ।
शंखचक्रगदापद्म
श्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥
विश्वं
यदेतत् स्वतनौ निशान्ते
यथावकाशं पुरुषः परो भवान् ।
बिभर्ति
सोऽयं मम गर्भगो अभूद्
अहो नृलोकस्य विडंबनं हि तत् ॥ ३१ ॥
श्रीभगवानुवाच
त्वमेव
पूर्वसर्गेऽभूः पृश्निः स्वायंभुवे सति ।
तदायं
सुतपा नाम प्रजापतिः अकल्मषः ॥ ३२ ॥
युवां
वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः ।
सन्नियम्येन्द्रियग्रामं
तेपाथे परमं तपः ॥ ३३ ॥
वर्षवाता-तप-हिम
घर्मकालगुणाननु ।
सहमानौ
श्वासरोध विनिर्धूत-मनोमलौ ॥ ३४ ॥
शीर्णपर्णा-निलाहारौ
उपशान्तेन चेतसा ।
मत्तः
कामान् अभीप्सन्तौ मद् आराधनमीहतुः॥३५॥
एवं
वां तप्यतोस्तीव्रं तपः परमदुष्करम् ।
दिव्यवर्षसहस्राणि
द्वादशेयुः मदात्मनोः ॥ ३६ ॥
तदा
वां परितुष्टोऽहं अमुना वपुषानघे ।
तपसा
श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ ३७ ॥
प्रादुरासं
वरदराड् युवयोः कामदित्सया ।
व्रियतां
वर इत्युक्ते मादृशो वां वृतः सुतः ॥ ३८ ॥
अजुष्टग्राम्यविषयौ
अनपत्यौ च दम्पती ।
न
वव्राथेऽपवर्गं मे मोहितौ देवमायया ॥ ३९ ॥
गते
मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् ।
ग्राम्यान्
भोगान् अभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४०॥
अदृष्ट्वान्यतमं
लोके शीलौदार्यगुणैः समम् ।
अहं
सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥ ४१ ॥
तयोर्वां
पुनरेवाहं अदित्यामास कश्यपात् ।
उपेन्द्र
इति विख्यातो वामनत्वाच्च वामनः ॥ ४२॥
तृतीयेऽस्मिन्
भवेऽहं वै तेनैव वपुषाथ वाम् ।
जातो
भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३ ॥
एतद्
वां दर्शितं रूपं प्राग्जन्म स्मरणाय मे ।
नान्यथा
मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४ ॥
युवां
मां पुत्रभावेन ब्रह्मभावेन चासकृत् ।
चिन्तयन्तौ
कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ ४५॥
श्रीशुक उवाच
इत्युक्त्वासीत्
हरिः तूष्णीं भगवान् आत्ममायया ।
पित्रोः
संपश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ ४६ ॥
ततश्च
शौरिः भगवत्प्रचोदितः
सुतं समादाय स सूतिकागृहात् ।
यदा
बहिर्गन्तुमियेष तर्ह्यजा
या योगमायाजनि नन्दजायया ॥ ४७ ॥
तया
हृतप्रत्यय सर्ववृत्तिषु
द्वाःस्थेषु पौरेष्वपि शायितेष्वथ ।
द्वारस्तु
सर्वाः पिहिता दुरत्यया
बृहत् कपाटायस कीलश्रृंखलैः ॥ ४८ ॥
ताः
कृष्णवाहे वसुदेव आगते
स्वयं व्यवर्यन्त यथा तमो रवेः ।
ववर्ष
पर्जन्य उपांशुगर्जितः
शेषोऽन्वगाद् वारि निवारयन् फणैः ॥ ४९ ॥
मघोनि
वर्षत्यसकृत् यमानुजा
गंभीरतोयौघजवोर्मिफेनिला ।
भयानकावर्त
शताकुला नदी
मार्गं ददौ सिन्धुरिव
श्रियः पतेः ॥ ५० ॥
नन्दव्रजं
शौरिरुपेत्य तत्र तान्
गोपान् प्रसुप्तान् उपलभ्य निद्रया ।
सुतं
यशोदाशयने निधाय तत्
सुतां उपादाय पुनर्गृहान् अगात्
॥ ५१ ॥
देवक्याः
शयने न्यस्य वसुदेवोऽथ दारिकाम् ।
प्रतिमुच्य
पदोर्लोहं आस्ते पूर्ववदावृतः ॥ ५२ ॥
यशोदा
नन्दपत्नी च जातं परमबुध्यत ।
न
तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ ५३ ॥
इति
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे
पूर्वार्धे कृष्णजन्मनि तृतीयोऽध्यायः॥३॥