shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 20, bhagwatdarshan
Bhagwat chapter 10.20 |
श्रीशुक उवाच
तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः ।
गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १ ॥
गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य
विस्मिताः ।
मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ
॥ २ ॥
ततः प्रावर्तत प्रावृट्
सर्वसत्त्वसमुद्भवा ।
विद्योतमानपरिधिः विस्फूर्जित नभस्तला
॥ ३ ॥
सान्द्रनीलाम्बुदैर्व्योम सविद्युत्
स्तनयित्नुभिः ।
अस्पष्टज्योतिः आच्छन्नं ब्रह्मेव
सगुणं बभौ ॥ ४ ॥
अष्टौ मासान् निपीतं यद्
भूम्याश्चोदमयं वसु ।
स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल
आगते ॥ ५ ॥
तडिद्वन्तो महामेघाः चण्ड श्वसन
वेपिताः ।
प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा
इव ॥ ६ ॥
तपःकृशा देवमीढा आसीद् वर्षीयसी मही ।
यथैव काम्यतपसः तनुः सम्प्राप्य
तत्फलम् ॥ ७ ॥
निशामुखेषु खद्योताः तमसा भान्ति न
ग्रहाः ।
यथा पापेन पाखण्डा न हि वेदाः कलौ
युगे ॥ ८ ॥
श्रुत्वा पर्जन्यनिनदं मण्डुकाः
व्यसृजन् गिरः ।
तूष्णीं शयानाः प्राग् यद्वद्
ब्राह्मणा नियमात्यये ॥ ९ ॥
आसन् उत्पथवाहिन्यः
क्षुद्रनद्योऽनुशुष्यतीः ।
पुंसो यथास्वतंत्रस्य देहद्रविण
सम्पदः ॥ १० ॥
हरिता हरिभिः शष्पैः इन्द्रगोपैश्च
लोहिता ।
उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव
भूरभूत् ॥ ११ ॥
क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां
मुदं ददुः ।
मानिनां उनुतापं वै दैवाधीनं अजानताम्
॥ १२ ॥
जलस्थलौकसः सर्वे नववारिनिषेवया ।
अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया
॥ १३ ॥
सरिद्भी सङ्गतः सिन्धुः चुक्षोभ
श्वसनोर्मिमान् ।
अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्
यथा ॥ १४ ॥
गिरयो वर्षधाराभिः हन्यमाना न
विव्यथुः ।
अभिभूयमाना व्यसनैः यथा अधोक्षजचेतसः
॥ १५ ॥
मार्गा बभूवुः सन्दिग्धाः तृणैश्छन्ना
ह्यसंस्कृताः ।
नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता
इव ॥ १६ ॥
लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः
।
स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु
गुणिष्विव ॥ १७ ॥
धनुर्वियति माहेन्द्रं निर्गुणं च
गुणिन्यभात् ।
व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो
यथा ॥ १८ ॥
न रराजोडुपश्छन्नः
स्वज्योत्स्नाराजितैर्घनैः ।
अहंमत्या भासितया स्वभासा पुरुषो यथा
॥ १९ ॥
मेघागमोत्सवा हृष्टाः प्रत्यनन्दन्
शिखण्डिनः ।
गृहेषु तप्ता निर्विण्णा
यथाच्युतजनागमे ॥ २० ॥
पीत्वापः पादपाः पद्भिः
आसन्नानात्ममूर्तयः ।
प्राक् क्षामास्तपसा श्रान्ता यथा
कामानुसेवया ॥ २१ ॥
सरःस्वशान्तरोधःसु न्यूषुरङ्गापि
सारसाः ।
गृहेष्वशान्तकृत्येषु ग्राम्या इव
दुराशयाः ॥ २२ ॥
जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे
।
पाषण्डिनामसद्वादैः वेदमार्गाः कलौ
यथा ॥ २३ ॥
व्यमुञ्चन् वान्वायुभिर्नुन्ना
भूतेभ्योऽथामृतं घनाः ।
यथाऽऽशिषो विश्पतयः काले काले
द्विजेरिताः ॥ २४ ॥
एवं वनं तद् वर्षिष्ठं पक्वखर्जुर
जम्बुमत् ।
गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्
हरिः ॥ २५ ॥
धेनवो मन्दगामिन्य ऊधोभारेण भूयसा ।
ययुर्भगवताऽऽहूता द्रुतं प्रीत्या
स्नुतस्तनीः ॥ २६ ॥
वनौकसः प्रमुदिता वनराजीर्मधुच्युतः ।
जलधारा गिरेर्नादाद् आसन्ना ददृशे
गुहाः ॥ २७ ॥
क्वचिद् वनस्पतिक्रोडे गुहायां
चाभिवर्षति ।
निर्विश्य भगवान् रेमे कन्दमूलफलाशनः
॥ २८ ॥
दध्योदनं समानीतं शिलायां सलिलान्तिके
।
सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः
॥ २९ ॥
शाद्वलोपरि संविश्य चर्वतो
मीलितेक्षणान् ।
तृप्तान् वृषा वत्सतरान् गाश्च
स्वोधोभरश्रमाः ॥ ३० ॥
प्रावृट्श्रियं च तां वीक्ष्य
सर्वभूतमुदावहाम् ।
भगवान् पूजयांचक्रे
आत्मशक्त्युपबृंहिताम् ॥ ३१ ॥
एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे
।
शरत् समभवद् व्यभ्रा
स्वच्छाम्ब्वपरुषानिला ॥ ३२ ॥
शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं
ययुः ।
भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया
॥ ३३ ॥
व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्कमपां
मलम् ।
शरत् जहाराश्रमिणां कृष्णे
भक्तिर्यथाशुभम् ॥ ३४ ॥
सर्वस्वं जलदा हित्वा विरेजुः
शुभ्रवर्चसः ।
यथा त्यक्तैषणाः शान्ता मुनयो
मुक्तकिल्बिषाः ॥ ३५ ॥
गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः
शिवम् ।
यथा ज्ञानामृतं काले ज्ञानिनो ददते न
वा ॥ ३६ ॥
नैवाविदन् क्षीयमाणं जलं गाधजलेचराः ।
यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः
कुटुम्बिनः ॥ ३७ ॥
गाधवारिचरास्तापं अविन्दन् शरदर्कजम्
।
यथा दरिद्रः कृपणः
कुटुम्ब्यविजितेन्द्रियः ॥ ३८ ॥
शनैः शनैर्जहुः पङ्कं स्थलान्यामं च
वीरुधः ।
यथाहंममतां धीराः शरीरादिष्वनात्मसु ॥
३९ ॥
निश्चलाम्बुरभूत् तूष्णीं समुद्रः
शरदागमे ।
आत्मनि उपरते सम्यङ्
मुनिर्व्युपरतागमः ॥ ४० ॥
केदारेभ्यस्त्वपोऽगृह्णन् कर्षका
दृढसेतुभिः ।
यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन
योगिनः ॥ ४१ ॥
शरदर्कांशुजांस्तापान् भूतानां
उडुपोऽहरत् ।
देहाभिमानजं बोधो मुकुन्दो
व्रजयोषिताम् ॥ ४२ ॥
खमशोभत निर्मेघं शरद् विमलतारकम् ।
सत्त्वयुक्तं यथा चित्तं
शब्दब्रह्मार्थदर्शनम् ॥ ४३ ॥
अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी
।
यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो
भुवि ॥ ४४ ॥
आश्लिष्य समशीतोष्णं प्रसून वनमारुतम्
।
जनास्तापं जहुर्गोप्यो न
कृष्णहृतचेतसः ॥ ४५ ॥
गावो मृगाः खगा नार्यः पुष्पिण्यः
शरदाभवन् ।
अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव
॥ ४६ ॥
उदहृष्यन् वारिजानि सूर्योत्थाने
कुमुद् विना ।
राज्ञा तु निर्भया लोका यथा दस्यून्
विना नृप ॥ ४७ ॥
पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च
महोत्सवैः ।
बभौ भूः पक्वसस्याढ्या कलाभ्यां
नितरां हरेः ॥ ४८ ॥
वणिङ्मुनि नृपस्नाता निर्गम्यार्थान्
प्रपेदिरे ।
वर्षरुद्धा यथा सिद्धाः स्वपिण्डान्
काल आगते ॥ ४९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे विंशोऽध्यायः ॥ २० ॥
COMMENTS