shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 15, bhagwatdarshan
bhagwat chapter 10.15 |
श्रीशुक उवाच
ततश्च पौगण्डवयः श्रितौ व्रजे
बभूवतुस्तौ
पशुपालसम्मतौ।
गाश्चारयन्तौ सखिभिः समं पदैर्
वृन्दावनं पुण्यमतीव चक्रतुः ॥१॥
तन्माधवो वेणुमुदीरयन्वृतो
गोपैर्गृणद्भिः स्वयशो
बलान्वितः।
पशून्पुरस्कृत्य पशव्यमाविश-
द्विहर्तुकामः कुसुमाकरं
वनम् ॥२॥
तन्मञ्जुघोषालिमृगद्विजाकुलं
महन्मनःप्रख्यपयःसरस्वता।
वातेन जुष्टं शतपत्रगन्धिना
निरीक्ष्य रन्तुं
भगवान्मनो दधे ॥३॥
स तत्र तत्रारुणपल्लवश्रिया
फलप्रसूनोरुभरेण
पादयोः।
स्पृशच्छिखान्वीक्ष्य वनस्पतीन्मुदा
स्मयन्निवाहाग्रजमादिपूरुषः ॥४॥
श्रीभगवानुवाच
अहो अमी देववरामरार्चितं
पादाम्बुजं ते
सुमनःफलार्हणम्।
नमन्त्युपादाय शिखाभिरात्मन-
स्तमोऽपहत्यै तरुजन्म
यत्कृतम् ॥५॥
एतेऽलिनस्तव यशोऽखिललोकतीर्थं
गायन्त आदिपुरुषानुपथं
भजन्ते।
प्रायो अमी मुनिगणा भवदीयमुख्या
गूढं वनेऽपि न जहत्यनघात्मदैवम् ॥६॥
नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः
कुर्वन्ति गोप्य इव ते
प्रियमीक्षणेन।
सूक्तैश्च कोकिलगणा गृहमागताय
धन्या वनौकस इयान्हि सतां
निसर्गः ॥७॥
धन्येयमद्य धरणी तृणवीरुधस्त्वत्
पादस्पृशो द्रुमलताः
करजाभिमृष्टाः।
नद्योऽद्रयः खगमृगाः सदयावलोकैर्
गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा
श्रीः ॥८॥
श्रीशुक उवाच
एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून्।
रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥९॥
क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः।
उपगीयमानचरितः पथि सङ्कर्षणान्वितः ॥१०॥
अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित्।
क्वचित्सवल्गुकूजन्तमनुकूजति कोकिलम्॥११॥
क्वचिच्च कलहंसानामनुकूजति कूजितम्।
अभिनृत्यति नृत्यन्तं बर्हिणं हासयन्क्वचित् ॥१२॥
मेघगम्भीरया वाचा नामभिर्दूरगान्पशून्।
क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥१३॥
चकोरक्रौञ्चचक्राह्व भारद्वाजांश्च बर्हिणः।
अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः ॥१३॥
क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम्।
स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥१४॥
नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः।
गृहीतहस्तौ गोपालान्हसन्तौ प्रशशंसतुः ॥१५॥
क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः।
वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥१६॥
पादसंवाहनं चक्रुः केचित्तस्य महात्मनः।
अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥१७॥
अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः।
गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः॥१८॥
एवं निगूढात्मगतिः स्वमायया
गोपात्मजत्वं
चरितैर्विडम्बयन्।
रेमे रमालालितपादपल्लवो
ग्राम्यैः समं
ग्राम्यवदीशचेष्टितः ॥१९॥
श्रीदामा नाम गोपालो रामकेशवयोः सखा।
सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् ॥२०॥
राम राम महाबाहो कृष्ण दुष्टनिबर्हण।
इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् ॥२१॥
फलानि तत्र भूरीणि पतन्ति पतितानि च।
सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना ॥२२॥
सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक्।
आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः ॥२३॥
तस्मात्कृतनराहाराद्भीतैर्नृभिरमित्रहन्।
न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम् ॥२४॥
विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च।
एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते ॥२५॥
प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम्।
वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥२६॥
एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया।
प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू ॥२७॥
बलः प्रविश्य बाहुभ्यां तालान्सम्परिकम्पयन्।
फलानि पातयामास मतङ्गज इवौजसा ॥२८॥
फलानां पततां शब्दं निशम्यासुररासभः।
अभ्यधावत्क्षितितलं सनगं परिकम्पयन् ॥२९॥
समेत्य तरसा प्रत्यग्द्वाभ्यां पद्भ्यां बलं बली।
निहत्योरसि काशब्दं मुञ्चन्पर्यसरत्खलः ॥३०॥
पुनरासाद्य संरब्ध उपक्रोष्टा पराक्स्थितः।
चरणावपरौ राजन्बलाय प्राक्षिपद्रुषा ॥३१॥
स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना।
चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥३२॥
तेनाहतो महातालो वेपमानो बृहच्छिराः।
पार्श्वस्थं कम्पयन्भग्नः स चान्यं सोऽपि चापरम् ॥३३॥
बलस्य लीलयोत्सृष्ट खरदेहहताहताः।
तालाश्चकम्पिरे सर्वे महावातेरिता इव ॥३४॥
नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे।
ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः ॥३५॥
ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये।
क्रोष्टारोऽभ्यद्रवन्सर्वे संरब्धा हतबान्धवाः ॥३६॥
तांस्तानापततः कृष्णो रामश्च नृपलीलया।
गृहीतपश्चाच्चरणान्प्राहिणोत्तृणराजसु ॥३७॥
फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः।
रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् ॥३८॥
तयोस्तत्सुमहत्कर्म निशम्य विबुधादयः।
मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः ॥३९॥
अथ तालफलान्यादन्मनुष्या गतसाध्वसाः।
तृणं च पशवश्चेरुर्हतधेनुककानने ॥४०॥
कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः।
स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् ॥४१॥
तं गोरजश्छुरितकुन्तलबद्धबर्ह
वन्यप्रसूनरुचिरेक्षणचारुहासम्।
वेणुम्क्वणन्तमनुगैरुपगीतकीर्तिं
गोप्यो दिदृक्षितदृशोऽभ्यगमन्समेताः
॥४२॥
पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस्
तापं जहुर्विरहजं व्रजयोषितोऽह्नि।
तत्सत्कृतिं समधिगम्य विवेश गोष्ठं
सव्रीडहासविनयं यदपाङ्गमोक्षम्
॥४३॥
तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले।
यथाकामं यथाकालं व्यधत्तां परमाशिषः ॥४४॥
गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः।
नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥४५॥
जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ।
संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ॥४६॥
एवं स भगवान्कृष्णो वृन्दावनचरः क्वचित्।
ययौ राममृते राजन्कालिन्दीं सखिभिर्वृतः ॥४७॥
अथ गावश्च गोपाश्च निदाघातपपीडिताः।
दुष्टं जलं पपुस्तस्यास्तृष्णार्ता विषदूषितम् ॥४८॥
विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः।
निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥४९॥
वीक्ष्य तान्वै तथाभूतान्कृष्णो योगेश्वरेश्वरः।
ईक्षयामृतवर्षिण्या स्वनाथान्समजीवयत् ॥५०॥
ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात्।
आसन्सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥५१॥
अन्वमंसत तद्राजन्गोविन्दानुग्रहेक्षितम्।
पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ॥५२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः॥१५॥
COMMENTS