Bhagwat chapter 10.90 |
श्रीशुक
उवाच
सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः
।
सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १ ॥
स्त्रीभिश्चोत्तमवेषाभिः
नवयौवनकान्तिभिः ।
कन्दुकादिभिर्हर्म्येषु
क्रीडन्तीभिस्तडिद्द्युभिः ॥ २ ॥
नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः
।
स्वलङ्कृतैर्भटैरश्वै रथैश्च
कनकोज्ज्वलैः ॥ ३ ॥
उद्यानोपवनाढ्यायां
पुष्पितद्रुमराजिषु ।
निर्विशद्भृङ्गविहगैः नादितायां
समन्ततः ॥ ४ ॥
रेमे षोडशसाहस्र पत्नीनां एकवल्लभः ।
तावद्विचित्ररूपोऽसौ तद्गेहेषु
महर्द्धिषु ॥ ५ ॥
प्रोत्फुल्लोत्पलकह्लार
कुमुदाम्भोजरेणुभिः ।
वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥
६ ॥
विजहार विगाह्याम्भो ह्रदिनीषु महोदयः
।
कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च
योषिताम् ॥ ७ ॥
उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान्
।
वादयद्भिर्मुदा वीणां
सूतमागधवन्दिभिः ॥ ८ ॥
सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म
रेचकैः ।
प्रतिषिञ्चन् विचिक्रीडे
यक्षीभिर्यक्षराडिव ॥ ९ ॥
ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः
सिञ्चन्त्य
उद्धृतबृहत्कवरप्रसूनाः ।
कान्तं स्म रेचकजिहीर्षययोपगुह्य
जातस्मरोत्स्मयलसद् वदना विरेजुः
॥ १० ॥
कृष्णस्तु तत्स्तनविषत्
जितकुङ्कुमस्रक्
क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः
।
सिञ्चन् मुन्मुहुर्युवतिभिः
प्रतिषिच्यमानो
रेमे करेणुभिरिवेभपतिः परीतः ॥ ११
॥
नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।
क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य
च स्त्रियः ॥ १२ ॥
कृष्णस्यैवं विहरतो
गत्यालापेक्षितस्मितैः ।
नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां
किल हृता धियः ॥ १३ ॥
ऊचुर्मुकुन्दैकधियो गिर
उन्मत्तवज्जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे
गदतः श्रृणु ॥ १४ ॥
महिष्य ऊचुः
कुररि विलपसि त्वं वीतनिद्रा न शेषे
स्वपिति जगति रात्र्यामीश्वरो
गुप्तबोधः ।
वयमिव सखि कच्चिद्गाढनिर्विद्धचेता
नलिननयनहासोदारलीलेक्षितेन ॥ १५ ॥
नेत्रे निमीलयसि नक्तमदृष्टबन्धुः
त्वं रोरवीषि करुणं बत चक्रवाकि ।
दास्यं गत वयमिवाच्युतपादजुष्टां
किं वा स्रजं स्पृहयसे कबरेण
वोढुम् ॥ १६ ॥
भो भोः सदा निष्टनसे उदन्वन्
अलब्धनिद्रोऽधिगतप्रजागरः ।
किं वा मुकुन्दापहृतात्मलाञ्छनः
प्राप्तां दशां त्वं च गतो
दुरत्ययाम् ॥ १७ ॥
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो
क्षीणस्तमो न निजदीधितिभिः
क्षिणोषि ।
कच्चिन् गकुन्दगदितानि यथा वयं त्वं
विस्मृत्य भोः
स्थगितगीरुपलक्ष्यसे नः ॥ १८ ॥
किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् ।
गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः
स्मरम् ॥ १९ ॥
मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं
श्रीवत्साङ्कं वयमिव भवान्
ध्यायति प्रेमबद्धः ।
अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो
बाष्पधाराः
स्मृत्वा स्मृत्वा विसृजसि
मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २० ॥
प्रियरावपदानि भाषसे मृत
सञ्जीविकयानया गिरा।
करवाणि किमद्य ते प्रियं
वद मे वल्गितकण्ठ कोकिल ॥ २१ ॥
न चलसि न वदस्युदारबुद्धे
क्षितिधर चिन्तयसे महान्तमर्थम् ।
अपि बत वसुदेवनन्दनाङ्घ्रिं
वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२ ॥
शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः
सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।
यद्वद् वयं मधुपतेः प्रणयावलोकम्
अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ २३ ॥
हंस स्वागतमास्यतां पिब पयो
ब्रूह्यङ्ग शौरेः कथां
दूतं त्वां नु विदाम कच्चिदजितः
स्वस्त्यास्त उक्तं पुरा ।
किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो
वयं
क्षौद्रालापय कामदं श्रियमृते
सैवैकनिष्ठा स्त्रियाम् ॥ २४ ॥
श्रीशुक उवाच
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे
।
क्रियमाणेन माधव्यो लेभिरे परमां
गतिम् ॥ २५ ॥
श्रुतमात्रोऽपि यः स्त्रीणां
प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां कुतः
पुनः ॥ २६ ॥
याः सम्पर्यचरन् प्रेम्णा
पादसंवाहनादिभिः ।
जगद्गुरुं भर्तृबुद्ध्या तासां किं
वर्ण्यते तपः ॥ २७ ॥
एवं वेदोदितं धर्मं अनुतिष्ठन् सतां
गतिः ।
गृहं धर्मार्थकामानां मुहुश्चादर्शयत्
पदम् ॥ २८ ॥
आस्थितस्य परं धर्मं कृष्णस्य
गृहमेधिनाम् ।
आसन् षोडशसाहस्रं महिष्यश्च शताधिकम्
॥ २९ ॥
तासां स्त्रीरत्नभूतानां अष्टौ याः
प्रागुदाहृताः ।
रुक्मिणीप्रमुखा राजन्
तत्पुत्राश्चानुपूर्वशः ॥ ३० ॥
एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान्
।
यावत्य आत्मनो भार्या अमोघगतिरीश्वरः
॥ ३१ ॥
तेषां उद्दामवीर्याणां अष्टादश
महारथाः ।
आसन्नुदारयशसः तेषां नामानि मे शृणु ॥
३२ ॥
प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान्
भानुरेव च ।
साम्बो मधुर्बृहद्भानुः
चित्रभानुर्वृकोऽरुणः ॥ ३३ ॥
पुष्करो वेदबाहुश्च श्रुतदेवः
सुनन्दनः ।
चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव
च ॥ ३४ ॥
एतेषां अपि राजेन्द्र तनुजानां
मधुद्विषः ।
प्रद्युम्न आसीत् प्रथमः पितृवद्
रुक्मिणीसुतः ॥ ३५ ॥
स रुक्मिणो दुहितरं उपयेमे महारथः ।
तस्यां ततोऽनिरुद्धोऽभूत्
नागायतबलान्वितः ॥ ३६ ॥
स चापि रुक्मिणः पौत्रीं दौहित्रो
जगृहे ततः ।
वज्रस्तस्याभवद् यस्तु मौषलादवशेषितः
॥ ३७ ॥
प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य
चात्मजः ।
सुबाहोः शान्तसेनोऽभूत् शतसेनस्तु
तत्सुतः ॥ ३८ ॥
न ह्येतस्मिन्कुले जाता अधना
अबहुप्रजाः ।
अल्पायुषोऽल्पवीर्याश्च
अब्रह्मण्याश्च जज्ञिरे ॥ ३९ ॥
यदुवंशप्रसूतानां पुंसां
विख्यातकर्मणाम् ।
सङ्ख्या न शक्यते कर्तुं अपि
वर्षायुतैर्नृप ॥ ४० ॥
तिस्रः कोट्यः सहस्राणां
अष्टाशीतिशतानि च ।
आसन्यदुकुलाचार्याः कुमाराणां इति
श्रुतम् ॥ ४१ ॥
सङ्ख्यानं यादवानां कः करिष्यति
महात्मनाम् ।
यत्रायुतानां अयुत लक्षेणास्ते स
आहुकः ॥ ४२ ॥
देवासुराहवहता दैतेया ये सुदारुणाः ।
ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता
बबाधिरे ॥ ४३ ॥
तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः
कुले ।
अवतीर्णाः कुलशतं तेषां एकाधिकं नृप ॥
४४ ॥
तेषां प्रमाणं भगवान्
प्रभुत्वेनाभवद्धरिः ।
ये चानुवर्तिनस्तस्य ववृधुः
सर्वयादवाः ॥ ४५ ॥
शय्यासनाटनालाप क्रीडास्नानादिकर्मसु
।
न विदुः सन्तमात्मानं वृष्णयः
कृष्णचेतसः ॥ ४६ ॥
तीर्थं चक्रे नृपोनं यदजनि यदुषु
स्वःसरित्पादशौचं
विद्विट्स्निग्धाः स्वरूपं
ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः ।
यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो
गोत्रधर्मः
कृष्णस्यैतन्न चित्रं क्षितिभरहरणं
कालचक्रायुधस्य ॥ ४७ ॥
जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम्
॥ ४८ ॥
इत्थं परस्य निजवर्त्मरिरक्षयात्त
लीलातनोस्तदनुरूपविडम्बनानि ।
कर्माणि कर्मकषणानि यदूत्तमस्य
श्रूयादमुष्य
पदयोरनुवृत्तिमिच्छन् ॥ ४९ ॥
मर्त्यस्तयानुसवमेधितया मुकुन्द
श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।
तद्धाम दुस्तरकृतान्तजवापवर्गं
ग्रामाद्वनं क्षितिभुजोऽपि
ययुर्यदर्थाः ॥ ५० ॥
इति श्रीमद्भागवते महापुराणे अष्टादशसाहस्र्यां पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
श्रीकृष्णचरितानुवर्णनं नाम
नवतितमोऽध्यायः ॥ ९० ॥
thanks for a lovly feedback