Bhagwat chapter 12.9 |
सूत उवाच
संस्तुतो भगवानित्थं
मार्कण्डेयेन धीमता ।
नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १ ॥
श्रीभगवानुवाच
भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।
मयि भक्त्यानपायिन्या
तपःस्वाध्यायसंयमैः ॥ २ ॥
वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया
।
वरं प्रतीच्छ भद्रं ते
वरदेशादभीप्सितम् ॥ ३ ॥
श्रीऋषिरुवाच
जितं ते देवदेवेश
प्रपन्नार्तिहराच्युत ।
वरेणैतावतालं नो यद् भवान् समदृश्यत
॥ ४ ॥
गृहीत्वाजादयो यस्य श्रीमत्
पादाब्जदर्शनम् ।
मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥
५ ॥
अथाप्यम्बुजपत्राक्ष
पुण्यश्लोकशिखामणे ।
द्रक्ष्ये मायां यया लोकः सपालो वेद
सद्भिदाम् ॥ ६ ॥
सूत उवाच
इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने ।
तथेति स स्मयन् प्रागाद्
बदर्याश्रममीश्वरः ॥ ७ ॥
तमेव चिन्तयन्नर्थम् ऋषिः स्वाश्रम एव
सः ।
वसन् अग्न्यर्कसोमाम्बु
भूवायुवियदात्मसु ॥ ८ ॥
ध्यायन् सर्वत्र च हरिं
भावद्रव्यैरपूजयत् ।
क्वचित् पूजां विसस्मार
प्रेमप्रसरसम्प्लुतः ॥ ९ ॥
तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे
मुनेः ।
उपासीनस्य सन्ध्यायां ब्रह्मन्
वायुरभून्महान् ॥ १० ॥
तं चण्डशब्दं समुदीरयन्तं
बलाहका अन्वभवन् करालाः ।
अक्षस्थविष्ठा मुमुचुस्तडिद्भिः
स्वनन्त
उच्चैरभिवर्षधाराः ॥ ११ ॥
ततो व्यदृश्यन्त चतुःसमुद्राः
समन्ततः क्ष्मातलमाग्रसन्तः ।
समीरवेगोर्मिभिरुग्रनक्र-
महाभयावर्तगभीरघोषाः ॥ १२
अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः
शतह्रदाभिरुपतापितं जगत् ।
चतुर्विधं वीक्ष्य सहात्मना मुनिः
जलाप्लुतां क्ष्मां विमनाः
समत्रसत् ॥ १३ ॥
तस्यैवमुद्वीक्षत ऊर्मिभीषणः
प्रभञ्जनाघूर्णितवार्महार्णवः ।
आपूर्यमाणो वरषद्भिरम्बुदैः
क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ १४ ॥
सक्ष्मान्तरिक्षं सदिवं सभागणं
त्रैलोक्यमासीत् सह
दिग्भिराप्लुतम् ।
स एक एवोर्वरितो महामुनिः
बभ्राम विक्षिप्य जटा जडान्धवत् ॥
१५ ॥
क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैः
उपद्रुतो वीचिनभस्वताहतः ।
तमस्यपारे पतितो भ्रमन् दिशो
न वेद खं गां च परिश्रमेषितः ॥ १६
॥
क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् ।
यादोभिर्भक्ष्यते क्वापि स्वयं
अन्योन्यघातिभिः ॥ १७ ॥
क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुःखं
सुखं भयम् ।
क्वचित् मृत्युमवाप्नोति
व्याध्यादिभिरुतार्दितः ॥ १८ ॥
अयुतायतवर्षाणां सहस्राणि शतानि च ।
व्यतीयुर्भ्रमतः तस्मिन्
विष्णुमायावृतात्मनः ॥ १९ ॥
स कदाचिद् भ्रमन् तस्मिन् पृथिव्याः
ककुदि द्विजः ।
न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥
२० ॥
प्रागुत्तरस्यां शाखायां तस्यापि
ददृशे शिशुम् ।
शयानं पर्णपुटके ग्रसन्तं प्रभया तमः
॥ २१ ॥
महामरकतश्यामं श्रीमद्वदनपङ्कजम् ।
कम्बुग्रीवं महोरस्कं सुनासं
सुन्दरभ्रुवम् ॥ २२ ॥
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम्
।
विद्रुमाधरभासेषत् शोणायित
सुधास्मितम् ॥ २३ ॥
पद्मगर्भारुणापाङ्गं
हृद्यहासावलोकनम् ।
श्वासैजद्बलिसंविग्ननिम्ननाभिदलोदरम्
॥ २४ ॥
चार्वङ्गुलिभ्यां पाणिभ्याम् उन्नीय
चरणाम्बुजम् ।
मुखे निधाय विप्रेन्द्रो धयन्तं
वीक्ष्य विस्मितः ॥ २५ ॥
तद्दर्शनाद् वीतपरिश्रमो मुदा
प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।
प्रहृष्टरोमाद्भुतभावशङ्कितः
प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥
तावच्छिशोर्वै श्वसितेन भार्गवः
सोऽन्तः शरीरं मशको यथाविशत् ।
तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो
यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥
खं रोदसी भागणानद्रिसागरान्
द्वीपान् सवर्षान् ककुभः सुरासुरान् ।
वनानि देशान् सरितः पुराकरान्
खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥
महान्ति भूतान्यथ भौतिकान्यसौ
कालं
च नानायुग कल्पकल्पनम् ।
यत्किञ्चिदन्यद् व्यवहारकारणं
ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥
हिमालयं पुष्पवहां च तां नदीं
निजाश्रमं तत्र ऋषीन् अपश्यत ।
विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै
बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥
तस्मिन् पृथिव्याः ककुदि प्ररूढं
वटं च तत्पर्णपुटे शयानम् ।
तोकं च तत्प्रेमसुधास्मितेन
निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥
अथ तं बालकं वीक्ष्य नेत्राभ्यां
धिष्ठितं हृदि ।
अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुं
अधोक्षजम् ॥ ३२ ॥
तावत्स भगवान् साक्षात् योगाधीशो
गुहाशयः ।
अन्तर्दधे ऋषेः सद्यो
यथेहानीशनिर्मिता ॥ ३३ ॥
तमन्वथ वटो ब्रह्मन् सलिलं
लोकसम्प्लवः ।
तिरोधायि क्षणादस्य स्वाश्रमे
पूर्ववन् स्थितः ॥ ३४ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥
thanks for a lovly feedback