shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat ekadash skandh,srimad bhagwatam canto11, chapter 9,
श्रीब्राह्मण उवाच
परिग्रहो हि दुःखाय यद् यत् प्रियतमं
नृणाम् ।
अनन्तं सुखमाप्नोति तद् विद्वान्
यस्त्वकिञ्चनः ॥ १ ॥
सामिषं कुररं जघ्नुः बलिनो ये
निरामिषाः ।
तदामिषं परित्यज्य स सुखं समविन्दत ॥
२ ॥
न मे मानापमानौ स्तो न चिन्ता
गेहपुत्रिणाम् ।
आत्मक्रीड आत्मरतिः विचरामीह बालवत् ॥
३ ॥
द्वावेव चिन्तया मुक्तौ परमानन्द
आप्लुतौ ।
यो विमुग्धो जडो बालो यो गुणेभ्यः परं
गतः ॥ ४ ॥
क्वचित् कुमारी त्वात्मानं वृणानान्
गृहमागतान् ।
स्वयं तान् अर्हयामास क्वापि यातेषु
बन्धुषु ॥ ५ ॥
तेषम् अभ्यवहारार्थं शालीन् रहसि
पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः
शङ्खाः स्वनं महत् ॥ ६ ॥
सा तत् जुगुप्सितं मत्वा महती
व्रीडिता ततः ।
बभञ्जैकैकशः शङ्खान् द्वौ द्वौ
पाण्योरशेषयत् ॥ ७ ॥
उभयोरप्यभूद् घोषो ह्यवघ्नन्त्याः स्म
शंखयोः ।
तत्राप्येकं निरभिदद् एकस्मात् नाभवद्
ध्वनिः ॥ ८ ॥
अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।
लोकान् अनुचरन् एतान्
लोकतत्त्वविवित्सया ॥ ९ ॥
वासे बहूनां कलहो भवेत् वार्ता
द्वयोरपि ।
एक एव चरेत् तस्मात् कुमार्या इव
कङ्कणः ॥ १० ॥
मन एकत्र संयुञ्ज्यात् जितश्वासो
जितासनः ।
वैराग्याभ्यासयोगेन
ध्रियमाणमतन्द्रितः ॥ ११ ॥
यस्मिन्मनो लब्धपदं यदेतत्
शनैः शनैः मुञ्चति कर्मरेणून् ।
सत्त्वेन वृद्धेन रजस्तमश्च
विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
तदैवमात्मन्यवरुद्धचित्तो
न वेद किञ्चिद् बहिरन्तरं वा ।
यथेषुकारो नृपतिं व्रजन्तं
इषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
एकचार्यनिकेतः स्याद् , अप्रमत्तो
गुहाशयः ।
अलक्ष्यमाण आचारैः मुनिरेकोऽल्पभाषणः
॥ १४ ॥
गृहारम्भोऽतिदुःखाय
विफलश्चाध्रुवात्मनः ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते
॥ १५ ॥
एको नारायणो देवः पूर्वसृष्टं
स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥
१६ ॥
एक एवाद्वितीयोऽभूत्
आत्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु
शक्तिषु ।
सत्त्वादिष्वादिपुरुषः
प्रधानपुरुषेश्वरः ॥ १७ ॥
परावराणां परम, आस्ते
कैवल्यसंज्ञितः ।
केवलानुभवानन्द सन्दोहो निरुपाधिकः ॥
१८ ॥
केवलात्मानुभावेन स्वमायां
त्रिगुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्यादौ तया
सूत्रमरिन्दम ॥ १९ ॥
तामाहुः त्रिगुणव्यक्तिं सृजन्तीं
विश्वतोमुखम् ।
यस्मिन् प्रोतम् इदं विश्वं येन
संसरते पुमान् ॥ २० ॥
यथोर्णनाभिः हृदयाद् ऊर्णां सन्तत्य
वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसत्येवं
महेश्वरः ॥ २१ ॥
यत्र यत्र मनो देही धारयेत् सकलं धिया
।
स्नेहाद्
द्वेषाद् भयाद् वापि याति तत् तत्स्वरूपताम् ॥ २२ ॥
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन
प्रवेशितः ।
याति तत्सात्मतां राजन्
पूर्वरूपमसन्त्यजन् ॥ २३ ॥
एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता
मतिः ।
स्वात्मोपशिक्षितां बुद्धिं श्रृणु मे
वदतः प्रभो ॥ २४ ॥
देहो गुरुर्मम विरक्तिविवेकहेतुः
बिभ्रत् स्म सत्त्वनिधनं
सततार्त्युदर्कम् ।
तत्त्वान्यनेन विमृशामि यथा तथापि
पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्
पुष्णाति यत्प्रियचिकीर्षुतया
वितन्वन् ।
स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः
सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा ॥ २६ ॥
जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा
शिश्नोऽन्यतस्त्वगुदरं श्रवणं
कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक् क्व च
कर्मशक्तिः
बह्व्यः सपत्न्य इव गेहपतिं
लुनन्ति ॥ २७ ॥
सृष्ट्वा पुराणि
विविधान्यजयाऽऽत्मशक्त्या
वृक्षान् सरीसृप पशून्
खगदंशमत्स्यान् ।
तैस्तैरतुष्टहृदयः पुरुषं विधाय ।
ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८ ॥
लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत न पतेदनुमृत्यु यावन्
निःश्रेयसाय विषयः खलु सर्वतः
स्यात् ॥ २९ ॥
एवं सञ्जातवैराग्यो विज्ञानालोक
आत्मनि ।
विचरामि महीमेतां
मुक्तसङ्गोऽनहङ्कृतिः ॥ ३० ॥
न ह्येकस्मात् गुरोर्ज्ञानं सुस्थिरं
स्यात् सुपुष्कलम् ।
ब्रह्मैतदद्वितीयं वै गीयते
बहुधर्षिभिः ॥ ३१ ॥
श्रीभगवानुवाच
इत्युक्त्वा स यदुं विप्रः
तमामन्त्र्य गभीरधीः ।
वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो
यथागतम् ॥ ३२ ॥
अवधूतवचः श्रुत्वा पूर्वेषां नः स
पूर्वजः ।
सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह
॥ ३३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९ ॥
COMMENTS