Bhagwat chapter 10.84 |
श्रीशुक
उवाच
श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी
माधव्यथ क्षितिपपत्न्य उत
स्वगोप्यः ।
कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं
सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ १ ॥
इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु
।
आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥
२ ॥
द्वैपायनो नारदश्च च्यवनो देवलोऽसितः
।
विश्वामित्रः शतानन्दो भरद्वाजोऽथ
गौतमः ॥ ३ ॥
रामः सशिष्यो भगवान् वसिष्ठो गालवो
भृगुः ।
पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो
बृहस्पतिः ॥ ४ ॥
द्वितस्त्रितश्चैकतश्च
ब्रह्मपुत्रास्तथाङ्गिराः ।
अगस्त्यो याज्ञवल्क्यश्च
वामदेवादयोऽपरे ॥ ५ ॥
तान्दृष्ट्वा सहसोत्थाय प्रागासीना
नृपादयः ।
पाण्डवाः कृष्णरामौ च
प्रणेमुर्विश्ववन्दितान् ॥ ६ ॥
तान् आनर्चुर्यथा सर्वे
सहरामोऽच्युतोऽर्चयत् ।
स्वागतासनपाद्यार्घ्य
माल्यधूपानुलेपनैः ॥ ७ ॥
उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः
।
सदसस्तस्य महतो यतवाचोऽनुश्रृण्वतः ॥
८ ॥
श्रीभगवानुवाच
अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।
देवानामपि दुष्प्रापं यद्
योगेश्वरदर्शनम् ॥ ९ ॥
किं स्वल्पतपसां नॄणां अर्चायां
देवचक्षुषाम् ।
दर्शनस्पर्शनप्रश्न
प्रह्वपादार्चनादिकम् ॥ १० ॥
न ह्यम्मयानि तीर्थानि न देवा
मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन दर्शनादेव साधवः
॥ ११ ॥
नाग्निर्न सूर्यो न च चन्द्रतारका
न भूर्जलं खं श्वसनोऽथ वाङ्मनः ।
उपासिता भेदकृतो हरन्त्यघं
विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥
यस्यात्मबुद्धिः कुणपे त्रिधातुके
स्वधीः कलत्रादिषु भौम इज्यधीः
।
यत्तीर्थबुद्धिः सलिले न कर्हिचित्
जनेष्वभिज्ञेषु स एव गोखरः ॥ १३ ॥
श्रीशुक उवाच
निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः ।
वचो दुरन्वयं विप्राः तूष्णीमासन्
भ्रमद्धियः ॥ १४ ॥
चिरं विमृश्य मुनय
ईश्वरस्येशितव्यताम् ।
जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम्
॥ १५ ॥
मुनय ऊचुः
यन्मायया तत्त्वविदुत्तमा वयं
विमोहिता विश्वसृजामधीश्वराः ।
यदीशितव्यायति गूढ ईहया
अहो विचित्रं भगवद् विचेष्टितम्
॥ १६ ॥
अनीह एतद् बहुधैक आत्मना
सृजत्यवत्यत्ति न बध्यते यथा ।
भौमैर्हि भूमिर्बहुनामरूपिणी
अहो विभूम्नश्चरितं विडम्बनम् ॥
१७ ॥
अथापि काले स्वजनाभिगुप्तये
बिभर्षि सत्त्वं खलनिग्रहाय च ।
स्वलीलया वेदपथं सनातनं
वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८ ॥
ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः ।
यत्रोपलब्धं सद्व्यक्तं अव्यक्तं च
ततः परम् ॥ १९ ॥
तस्माद् ब्रह्मकुलं ब्रह्मन्
शास्त्रयोनेस्त्वमात्मनः ।
सभाजयसि सद्धाम तद्
ब्रह्मण्याग्रणीर्भवान् ॥ २० ॥
अद्य नो जन्मसाफल्यं विद्यायास्तपसो
दृशः ।
त्वया सङ्गम्य सद्गत्या यदन्तः
श्रेयसां परः ॥ २१ ॥
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
स्वयोगमाययाच्छन्न महिम्ने परमात्मने
॥ २२ ॥
न यं विदन्त्यमी भूपा एकारामाश्च
वृष्णयः ।
मायाजवनिकाच्छन्नं आत्मानं
कालमीश्वरम् ॥ २३ ॥
यथा शयानः पुरुष आत्मानं
गुणतत्त्वदृक् ।
नाममात्रेन्द्रियाभातं न वेद रहितं
परम् ॥ २४ ॥
एवं त्वा नाममात्रेषु
विषयेष्विन्द्रियेहया ।
मायया विभ्रमच्चित्तो न वेद
स्मृत्युपप्लवात् ॥ २५ ॥
तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष
तीर्थास्पदं हृदि कृतं
सुविपक्वयोगैः ।
उत्सिक्तभक्त्युपहताशय जीवकोशा
आपुर्भवद्गतिमथानुगृहान भक्तान्
॥ २६ ॥
श्रीशुक उवाच
इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम्
।
राजर्षे स्वाश्रमान् गन्तुं मुनयो
दधिरे मनः ॥ २७ ॥
तद् वीक्ष्य तानुपव्रज्य वसुदेवो
महायशाः ।
प्रणम्य चोपसङ्गृह्य बभाषेदं
सुयन्त्रितः ॥ २८ ॥
वसुदेव उवाच
नमो वः सर्वदेवेभ्य
ऋषयः श्रोतुमर्हथ ।
कर्मणा कर्मनिर्हारो यथा
स्यान्नस्तदुच्यताम् ॥ २९ ॥
श्रीनारद उवाच
नातिचित्रमिदं विप्रा
वसुदेवो बुभुत्सया ।
कृष्णं मत्वार्भकं यन्नः पृच्छति
श्रेय आत्मनः ॥ ३० ॥
सन्निकर्षोऽत्र मर्त्यानां
अनादरणकारणम् ।
गाङ्गं हित्वा यथान्याम्भः तत्रत्यो
याति शुद्धये ॥ ३१ ॥
यस्यानुभूतिः कालेन
लयोत्पत्त्यादिनास्य वै ।
स्वतोऽन्यस्माच्च गुणतो न कुतश्चन
रिष्यति ॥ ३२ ॥
तं क्लेशकर्मपरिपाकगुणप्रवाहैः
अव्याहतानुभवमीश्वरमद्वितीयम् ।
प्राणादिभिः स्वविभवैरुपगूढमन्यो
मन्येत सूर्यमिव मेघहिमोपरागैः ॥
३३ ॥
अथोचुर्मुनयो राजन् आभाष्यानकदुंदुभिम् ।
सर्वेषां श्रृणतां राज्ञां
तथैवाच्युतरामयोः ॥ ३४ ॥
कर्मणा कर्मनिर्हार एष साधुनिरूपितः ।
यच्छ्रद्धया यजेद् विष्णुं
सर्वयज्ञेश्वरं मखैः ॥ ३५ ॥
चित्तस्योपशमोऽयं वै कविभिः
शास्त्रचक्षुषा ।
दर्शितः सुगमो योगो
धर्मश्चात्ममुदावहः ॥ ३६ ॥
अयं स्वस्त्ययनः पन्था
द्विजातेर्गृहमेधिनः ।
यच्छ्रद्धयाऽऽप्तवित्तेन
शुक्लेनेज्येत पूरुषः ॥ ३७ ॥
वित्तैषणां यज्ञदानैः
गृहैर्दारसुतैषणाम् ।
आत्मलोकैषणां देव कालेन विसृजेद्बुधः
।
ग्रामे त्यक्तैषणाः सर्वे
ययुर्धीरास्तपोवनम् ॥ ३८ ॥
ऋणैस्त्रिभिर्द्विजो जातो
देवर्षिपितॄणां प्रभो ।
यज्ञाध्ययनपुत्रैस्तानि अनिस्तीर्य
त्यजन्पतेत् ॥ ३९ ॥
त्वं त्वद्य मुक्तो द्वाभ्यां वै
ऋषिपित्रोर्महामते ।
यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो
भव ॥ ४० ॥
वसुदेव भवान्नूनं भक्त्या परमया हरिम्
।
जगतामीश्वरं प्रार्चः स यद्वां
पुत्रतां गतः ॥ ४१ ॥
श्रीशुक उवाच
इति तद्वचनं श्रुत्वा
वसुदेवो महामनाः ।
तान्
ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥ ४२ ॥
त एनमृषयो राजन् वृता धर्मेण
धार्मिकम् ।
तस्मिन् अयाजयन् क्षेत्रे
मखैरुत्तमकल्पकैः ॥ ४३ ॥
तद्दीक्षायां प्रवृत्तायां वृष्णयः
पुष्करस्रजः ।
स्नाताः सुवाससो राजन् राजानः
सुष्ठ्वलङ्कृताः ॥ ४४ ॥
तन्महिष्यश्च मुदिता निष्ककण्ठ्यः
सुवाससः ।
दीक्षाशालामुपाजग्मुः आलिप्ता
वस्तुपाणयः ॥ ४५ ॥
नेदुर्मृदङ्गपटह शङ्खभेर्यानकादयः ।
ननृतुर्नटनर्तक्यः तुष्टुवुः सूतमागधाः ।
जगुः सुकण्ठ्यो गन्धर्व्यः संगीतं
सहभर्तृकाः ॥ ४६ ॥
तमभ्यषिञ्चन् विधिवद् अक्तं
अभ्यक्तमृत्विजः ।
पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥
४७ ॥
ताभिर्दुकूलवलयैः हारनूपुरकुण्डलैः ।
स्वलङ्कृताभिर्विबभौ
दीक्षितोऽजिनसंवृतः ॥ ४८ ॥
तस्यर्त्विजो महाराज रत्नकौशेयवाससः
।
ससदस्या विरेजुस्ते यथा
वृत्रहणोऽध्वरे ॥ ४९ ॥
तदा रामश्च कृष्णश्च स्वैः स्वैः
बन्धुभिरन्वितौ ।
रेजतुः स्वसुतैर्दारैः जीवेशौ
स्वविभूतिभिः ॥ ५० ॥
ईजेऽनुयज्ञं विधिना
अग्निहोत्रादिलक्षणैः ।
प्राकृतैर्वैकृतैर्यज्ञैः
द्रव्यज्ञानक्रियेश्वरम् ॥ ५१ ॥
अथर्त्विग्भ्योऽददात्काले यथाम्नातं स
दक्षिणाः ।
स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या
महाधनाः ॥ ५२ ॥
पत्नीसंयाजावभृथ्यैः चरित्वा ते
महर्षयः ।
सस्नू रामह्रदे विप्रा यजमानपुरःसराः
॥ ५३ ॥
स्नातोऽलङ्कारवासांसि
वन्दिभ्योऽदात्तथा स्त्रियः ।
ततः स्वलङ्कृतो वर्णान्
आश्वभ्योऽन्नेन पूजयत् ॥ ५४ ॥
बन्धून् सदारान् ससुतान् पारिबर्हेण
भूयसा ।
विदर्भकोशलकुरून् काशिकेकय सृञ्जयान्
॥ ५५ ॥
सदस्यर्त्विक्सुरगणान्
नृभूतपितृचारणान् ।
श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः
क्रतुम् ॥ ५६ ॥
धृतराष्ट्रोऽनुजः पार्था भीष्मो
द्रोणः पृथा यमौ ।
नारदो भगवान् व्यासः
सुहृत्संबंधिबांधवाः ॥ ५७ ॥
बन्धून्परिष्वज्य यदून्
सौहृदाक्लिन्नचेतसः ।
ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे
जनाः ॥ ५८ ॥
नन्दस्तु सह गोपालैः बृहत्या
पूजयार्चितः ।
कृष्णरामोग्रसेनाद्यैः न्यवात्सीद्बन्धुवत्सलः
॥ ५९ ॥
वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम्
।
सुहृद्वृतः प्रीतमना नन्दमाह करे
स्पृशन् ॥ ६० ॥
वसुदेव उवाच
भ्रातरीशकृतः पाशो
नृनां यः स्नेहसंज्ञितः ।
तं दुस्त्यजमहं मन्ये शूराणामपि
योगिनाम् ॥ ६१ ॥
अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु
सत्तमैः ।
मैत्र्यर्पिताफला चापि न निवर्तेत
कर्हिचित् ॥ ६२ ॥
प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम
हि ।
अधुना श्रीमदान्धाक्षा न पश्यामः पुरः
सतः ॥ ६३ ॥
मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य
मानद ।
स्वजनानुत बन्धून् वा न पश्यति
ययान्धदृक् ॥ ६४ ॥
श्रीशुक उवाच
एवं सौहृदशैथिल्य चित्त
आनकदुन्दुभिः ।
रुरोद तत्कृतां मैत्रीं स्मरन्
अश्रुविलोचनः ॥ ६५ ॥
नन्दस्तु सख्युः प्रियकृत् प्रेम्णा
गोविन्दरामयोः ।
अद्य श्व इति मासांस्त्रीन्
यदुभिर्मानितोऽवसत् ॥ ६६ ॥
ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः
।
परार्ध्याभरणक्षौम
नानानर्घ्यपरिच्छदैः ॥ ६७ ॥
वसुदेवोग्रसेनाभ्यां
कृष्णोद्धवबलादिभिः ।
दत्तमादाय पारिबर्हं यापितो
यदुभिर्ययौ ॥ ६८ ॥
नन्दो गोपाश्च गोप्यश्च
गोविन्दचरणाम्बुजे ।
मनः क्षिप्तं पुनर्हर्तुं अनीशा
मथुरां ययुः ॥ ६९ ॥
बन्धुषु प्रतियातेषु वृष्णयः
कृष्णदेवताः ।
वीक्ष्य प्रावृषमासन्नाद्
ययुर्द्वारवतीं पुनः ॥ ७० ॥
जनेभ्यः कथयां चक्रुः यदुदेवमहोत्सवम्
।
यदासीत् तीर्थयात्रायां सुहृत्
संदर्शनादिकम् ॥ ७१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम
चतुरशीतितमोऽध्यायः ॥ ८४ ॥
thanks for a lovly feedback