Bhagwat chapter 10.82 |
श्रीशुक उवाच
अथैकदा द्वारवत्यां वसतो रामकृष्णयोः ।
सूर्योपरागः सुमहानासीत्कल्पक्षये यथा ॥ १ ॥
तं ज्ञात्वा मनुजा राजन्पुरस्तादेव
सर्वतः ।
समन्तपञ्चकं क्षेत्रं ययुः
श्रेयोविधित्सया ॥ २ ॥
निःक्षत्रियां महीं कुर्वन्रामः
शस्त्रभृतां वरः ।
नृपाणां रुधिरौघेण यत्र चक्रे
महाह्रदान् ॥ ३ ॥
ईजे च भगवान्रामो यत्रास्पृष्टोऽपि
कर्मणा ।
लोकं सङ्ग्राहयन्नीशो
यथान्योऽघापनुत्तये ॥ ४ ॥
महत्यां तीर्थयात्रायां
तत्रागन्भारतीः प्रजाः ।
वृष्णयश्च तथाक्रूर वसुदेवाहुकादयः ॥
५ ॥
ययुर्भारत तत्क्षेत्रं स्वमघं
क्षपयिष्णवः ।
गदप्रद्युम्नसाम्बाद्याः
सुचन्द्रशुकसारणैः ॥ ६ ॥
आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च
यूथपः ।
ते रथैर्देवधिष्ण्याभैः हयैश्च
तरलप्लवैः ॥ ७ ॥
गजैर्नदद्भिरभ्राभैः
नृभिर्विद्याधरद्युभिः ।
व्यरोचन्त महातेजाः पथि काञ्चनमालिनः
॥ ८ ॥
दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः
खेचरा इव ।
तत्र स्नात्वा महाभागा उपोष्य
सुसमाहिताः ॥ ९ ॥
ब्राह्मणेभ्यो ददुर्धेनूः वासःस्रग्रुक्ममालिनीः
।
रामह्रदेषु विधिवत् पुनराप्लुत्य
वृष्णयः ॥ १० ॥
ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे
नो भक्तिरस्त्विति ।
स्वयं च तदनुज्ञाता वृष्णयः
कृष्णदेवताः ॥ ११ ॥
भुक्त्वोपविविशुः कामं
स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु ।
तत्रागतांस्ते ददृशुः सुहृत्संबन्धिनो
नृपान् ॥ १२ ॥
मत्स्योशीनरकौशल्य
विदर्भकुरुसृञ्जयान् ।
काम्बोजकैकयान् मद्रान्
कुन्तीनानर्तकेरलान् ॥ १३ ॥
अन्यांश्चैवात्मपक्षीयान् परांश्च
शतशो नृप ।
नन्दादीन् सुहृदो गोपान्
गोपीश्चोत्कण्ठिताश्चिरम् ॥ १४ ॥
अन्योन्यसन्दर्शनहर्षरंहसा
प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः
।
आश्लिष्य गाढं नयनैः स्रवज्जला
हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १५ ॥
स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद
स्मितामलापाङ्गदृशोऽभिरेभिरे ।
स्तनैः स्तनान् कुङ्कुमपङ्करूषितान्
निहत्य दोर्भिः प्रणयाश्रुलोचनाः ॥ १६ ॥
ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः ।
स्वागतं कुशलं पृष्ट्वा चक्रुः
कृष्णकथा मिथः ॥ १७ ॥
पृथा भ्रातॄन् स्वसॄर्वीक्ष्य
तत्पुत्रान् पितरावपि ।
भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया
शुचः ॥ १८ ॥
कुन्त्युवाच
आर्य भ्रातरहं मन्ये
आत्मानमकृताशिषम् ।
यद्वा आपत्सु मद्वार्तां नानुस्मरथ
सत्तमाः ॥ १९ ॥
सुहृदो ज्ञातयः पुत्रा भ्रातरः
पितरावपि ।
नानुस्मरन्ति स्वजनं यस्य
दैवमदक्षिणम् ॥ २० ॥
श्रीवसुदेव उवाच
अम्ब मास्मानसूयेथा
दैवक्रीडनकान् नरान् ।
ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ
वा ॥ २१ ॥
कंसप्रतापिताः सर्वे वयं याता दिशं
दिशम् ।
एतर्ह्येव पुनः स्थानं दैवेनासादिताः
स्वसः ॥ २२ ॥
श्रीशुक उवाच
वसुदेवोग्रसेनाद्यैः
यदुभिस्तेऽर्चिता नृपाः ।
आसन् अच्युतसन्दर्श परमानन्दनिर्वृताः
॥ २३ ॥
भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी
ससुता तथा ।
सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः
कृपः ॥ २४ ॥
कुन्तीभोजो विराटश्च भीष्मको
नग्नजिन्महान् ।
पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः
सकाशिराट् ॥ २५ ॥
दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।
युधामन्युः सुशर्मा च ससुता
बाह्लिकादयः ॥ २६ ॥
राजानो ये च राजेन्द्र
युधिष्ठिरमनुव्रताः ।
श्रीनिकेतं वपुः शौरेः सस्त्रीकं
वीक्ष्य विस्मिताः ॥ २७ ॥
अथ ते रामकृष्णाभ्यां सम्यक्
प्राप्तसमर्हणाः ।
प्रशशंसुर्मुदा युक्ता वृष्णीन्
कृष्णपरिग्रहान् ॥ २८ ॥
अहो भोजपते यूयं जन्मभाजो नृणामिह ।
यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि
योगिनाम् ॥ २९ ॥
यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति
पादावनेजनपयश्च वचश्च शास्त्रम्
।
भूः कालभर्जितभगापि यदङ्घ्रिपद्म
स्पर्शोत्थशक्तिरभिवर्षति
नोऽखिलार्थान् ॥ ३० ॥
तद्दर्शनस्पर्शनानुपथप्रजल्प
शय्यासनाशनसयौनसपिण्डबन्धः ।
येषां गृहे निरयवर्त्मनि वर्ततां वः
स्वर्गापवर्गविरमः स्वयमास
विष्णुः ॥ ३१ ॥
श्रीशुक उवाच
नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा
कृष्णपुरोगमान् ।
तत्रागमद्वृतो गोपैः अनः स्थार्थैः
दिदृक्षया ॥ ३२ ॥
तं दृष्ट्वा वृष्णयो हृष्टाः तन्वः
प्राणमिवोत्थिताः ।
परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ ३३
॥
वसुदेवः परिष्वज्य सम्प्रीतः
प्रेमविह्वलः ।
स्मरन् कंसकृतान् क्लेशान्
पुत्रन्यासं च गोकुले ॥ ३४ ॥
कृष्णरामौ परिष्वज्य पितरावभिवाद्य च
।
न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ
कुरूद्वह ॥ ३५ ॥
तावात्मासनमारोप्य बाहुभ्यां परिरभ्य
च ।
यशोदा च महाभागा सुतौ विजहतुः शुचः ॥
३६ ॥
रोहिणी देवकी चाथ परिष्वज्य
व्रजेश्वरीम् ।
स्मरन्त्यौ तत्कृतां मैत्रीं
बाष्पकण्ठ्यौ समूचतुः ॥ ३७ ॥
का विस्मरेत वां मैत्रीं अनिवृत्तां
व्रजेश्वरि ।
अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह
प्रतिक्रिया ॥ ३८ ॥
एतावदृष्टपितरौ युवयोः स्म पित्रोः
सम्प्रीणनाभ्युदयपोषणपालनानि ।
प्राप्योषतुर्भवति पक्ष्म ह
यद्वदक्ष्णोः
न्यस्तावकुत्र च भयौ न सतां परः
स्वः ॥ ३९ ॥
श्रीशुक उवाच
गोप्यश्च कृष्णमुपलभ्य
चिरादभीष्टं
यत्प्रेक्षणे दृशिषु पक्ष्मकृतं
शपन्ति ।
दृग्भिर्हृदीकृतमलं परिरभ्य सर्वाः
तद्भावमापुरपि नित्ययुजां
दुरापम् ॥ ४० ॥
भगवांस्तास्तथाभूता विविक्त उपसङ्गतः ।
आश्लिष्यानामयं पृष्ट्वा प्रहसन्
इदमब्रवीत् ॥ ४१ ॥
अपि स्मरथ नः सख्यः
स्वानामर्थचिकीर्षया ।
गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः
॥ ४२ ॥
अप्यवध्यायथास्मान्
स्विदकृतज्ञाविशङ्कया ।
नूनं भूतानि भगवान् युनक्ति वियुनक्ति
च ॥ ४३ ॥
वायुर्यथा घनानीकं तृणं तूलं रजांसि च
।
संयोज्याक्षिपते भूयः तथा भूतानि
भूतकृत् ॥ ४४ ॥
मयि भक्तिर्हि भूतानां अमृतत्वाय
कल्पते ।
दिष्ट्या यदासीत् मत्स्नेहो भवतीनां
मदापनः ॥ ४५ ॥
अहं हि सर्वभूतानां आदिरन्तोऽन्तरं
बहिः ।
भौतिकानां यथा खं
वार्भूर्वायुर्ज्योतिरङ्गनाः ॥ ४६ ॥
एवं ह्येतानि भूतानि
भूतेष्वात्माऽऽत्मना ततः ।
उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४७
॥
श्रीशुक उवाच
अध्यात्मशिक्षया गोप्य
एवं कृष्णेन शिक्षिताः ।
तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन् ॥
४८ ॥
आहुश्च ते नलिननाभ पदारविन्दं
योगेश्वरैर्हृदि
विचिन्त्यमगाधबोधैः ।
संसारकूपपतितोत्तरणावलम्बं
गेहं जुषामपि मनस्युदियात् सदा नः
॥ ४९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे उत्तरार्धे वृष्णिगोपसंगमो नाम
द्व्यशीतितमोऽध्यायः ॥ ८२ ॥
thanks for a lovly feedback