shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat ekadash skandh,srimad bhagwatam canto11, chapter 8,
Bhagwat chapter 11.08 |
श्रीब्राह्मण
उवाच
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च ।
देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्बुधः॥१॥
ग्रासं सुमृष्टं विरसं महान्तं
स्तोकमेव वा ।
यदृच्छयैवापतितं ग्रसेत् आजगरोऽक्रियः
॥ २ ॥
शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।
यदि नोपनमेद् ग्रासो महाहिरिव
दिष्टभुक् ॥ ३ ॥
ओजःसहोबलयुतं बिभ्रद् देहमकर्मकम् ।
शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि
॥ ४ ॥
मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो
दुरत्ययः ।
अनन्तपारो ह्यक्षोभ्यः स्तिमितोद
इवार्णवः ॥ ५ ॥
समृद्धकामो हीनो वा नारायणपरो मुनिः ।
नोत्सर्पेत न शुष्येत सरिद्भिरिव
सागरः ॥ ६ ॥
दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः
।
प्रलोभितः पतत्यन्धे तमस्यग्नौ
पतङ्गवत् ॥ ७ ॥
योषिद्धिरण्याभरणाम्बरादि
द्रव्येषु मायारचितेषु
मूढः ।
प्रलोभितात्मा ह्युपभोगबुद्ध्या
पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८
॥
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता
।
गृहान् अहिंसन् आतिष्ठेद् वृत्तिं
माधुकरीं मुनिः ॥ ९ ॥
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः
कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव
षट्पदः ॥ १० ॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत
भिक्षितम् ।
पाणिपात्रोदरामत्रो मक्षिकेव न
सङ्ग्रही ॥ ११ ॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत
भिक्षुकः ।
मक्षिका इव सङ्गृह्णन् सह तेन
विनश्यति ॥ १२ ॥
पदापि युवतीं भिक्षुः न स्पृशेद्
दारवीमपि ।
स्पृशन् करीव बध्येत करिण्या
अङ्गसङ्गतः ॥ १३ ॥
नाधिगच्छेत् स्त्रियं प्राज्ञः
कर्हिचित् मृत्युमात्मनः ।
बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा
॥ १४ ॥
न देयं नोपभोग्यं च लुब्धैर्यद्
दुःखसञ्चितम् ।
भुङ्क्ते तदपि तच्चान्यो
मधुहेवार्थविन्मधु ॥ १५ ॥
सुदुःखोपार्जितैः वित्तैः आशासानां
गृहाशिषः ।
मधुहेवाग्रतो भुङ्क्ते यतिर्वै
गृहमेधिनाम् ॥ १६ ॥
ग्राम्यगीतं न श्रृणुयाद् यतिर्वनचरः
क्वचित् ।
शिक्षेत हरिणाद् बद्धान्
मृगयोर्गीतमोहितात् ॥ १७ ॥
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि
योषिताम् ।
आसां क्रीडनको वश्य ऋष्यश्रृङ्गो
मृगीसुतः ॥ १८ ॥
जिह्वयातिप्रमाथिन्या जनो रसविमोहितः
।
मृत्युम् ऋच्छत्यसद्बुधिः मीनस्तु
बडिशैर्यथा ॥ १९ ॥
इन्द्रियाणि जयन्त्याशु निराहारा
मनीषिणः ।
वर्जयित्वा तु रसनं तन्निरन्नस्य
वर्धते ॥ २० ॥
तावत् जितेन्द्रियो न स्याद्
विजितान्येन्द्रियः पुमान् ।
न जयेद् रसनं यावत् जितं सर्वं जिते
रसे ॥ २१ ॥
पिङ्गला नाम वेश्याऽऽसीद् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चित् निबोध
नृपनन्दन ॥ २२ ॥
सा स्वैरिण्येकदा कान्तं सङ्केत
उपनेष्यती ।
अभूत्काले बहिर्द्वारि बिभ्रती
रूपमुत्तमम् ॥ २३ ॥
मार्ग आगच्छतो वीक्ष्य पुरुषान्
पुरुषर्षभ ।
तान् शुल्कदान् वित्तवतः कान्तान्
मेनेऽर्थकामुका ॥ २४ ॥
आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।
अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति
भूरिदः ॥ २५ ॥
एवं दुराशया ध्वस्तनिद्रा
द्वार्यवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत
॥ २६ ॥
तस्या वित्ताशया शुष्यद्वक्त्राया
दीनचेतसः ।
निर्वेदः परमो जज्ञे चिन्ताहेतुः
सुखावहः ॥ २७ ॥
तस्या निर्विण्णचित्ताया गीतं श्रृणु
यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा
ह्यसिः ॥ २८ ॥
न ह्यङ्गाज्जातनिर्वेदो देहबन्धं
जिहासति ।
यथा विज्ञानरहितो मनुजो ममतां नृप ॥
२९ ॥
पिङ्गलोवाच
अहो मे मोहविततिं
पश्यताविजितात्मनः ।
या कान्ताद् असतः कामं कामये येन
बालिशा ॥ ३०॥
सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यमिमं विहाय ।
अकामदं दुःखभयाधिशोक-
मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥
अहो मयाऽऽत्मा परितापितो वृथा
साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया ।
स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात्
क्रीतेन वित्तं रतिमात्मनेच्छती
॥ ३२ ॥
यदस्थिभिर्निर्मित-वंशवंश्य-
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद् ।
विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥
विदेहानां पुरे ह्यस्मिन् अहमेकैव मूढधीः ।
यान्यमिच्छन्त्यसत्यस्माद्
आत्मदात् काममच्युतात् ॥ ३४ ॥
सुहृत्प्रेष्ठतमो नाथ आत्मा चायं
शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा
॥ ३५ ॥
कियत् प्रियं ते व्यभजन् कामा ये
कामदा नराः ।
आद्यन्तवन्तो भार्याया देवा वा
कालविद्रुताः ॥ ३६ ॥
नूनं मे भगवान् प्रीतो विष्णुः केनापि
कर्मणा ।
निर्वेदोऽयं दुराशाया यन्मे जातः
सुखावहः ॥ ३७ ॥
मैवं स्युः मन्दभाग्यायाः क्लेशा
निर्वेदहेतवः ।
येनानुबन्धं निर्हृत्य पुरुषः
शममृच्छति ॥ ३८ ॥
तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि
तमधीश्वरम् ॥ ३९ ॥
सन्तुष्टा श्रद्दधत्येतद् यथालाभेन
जीवती ।
विहरामिमुनैवाहमात्मना रमणेन वै ॥ ४०
॥
संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनात्मानं
कोऽन्यस्त्रातुमधीश्वरः ॥ ४१ ॥
आत्मैव ह्यात्मनो गोप्ता निर्विद्येत
यदाखिलात् ।
अप्रमत्त इदं पश्येद् ग्रस्तं
कालाहिना जगत् ॥ ४२ ॥
श्रीब्राह्मण उवाच
एवं व्यवसितमतिः
दुराशां कान्ततर्षजाम् ।
छित्त्वोपशममास्थाय शय्यामुपविवेश सा
॥ ४३ ॥
आशा हि परमं दुःखं नैराश्यं परमं
सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप
पिङ्गला ॥ ४४ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
COMMENTS