Bhagwat chapter 10.73 |
श्रीशुक
उवाच
अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिताः
।
ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥ १ ॥
क्षुत्क्षामाः शुष्कवदनाः
संरोधपरिकर्शिताः ।
ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥
२ ॥
श्रीवत्साङ्कं चतुर्बाहुं
पद्मगर्भारुणेक्षणम् ।
चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥
३ ॥
पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम्
।
किरीटहारकटक कटिसूत्राङ्गदाञ्चितम् ॥
४ ॥
भ्राजद्वरमणिग्रीवं निवीतं वनमालया ।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव
जिह्वया ॥ ५ ॥
जिघ्रन्त इव नासाभ्यां रम्भन्त इव
बाहुभिः ।
प्रणेमुर्हतपाप्मानो मूर्धभिः
पादयोर्हरेः ॥ ६ ॥
कृष्णसन्दर्शनाह्लाद
ध्वस्तसंरोधनक्लमाः ।
प्रशशंसुर्हृषीकेशं गीर्भिः
प्राञ्जलयो नृपाः ॥ ७ ॥
राजान ऊचुः
नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय ।
प्रपन्ना
पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ ८ ॥
नैनं नाथानुसूयामो मागधं मधुसूदन ।
अनुग्रहो यद् भवतो राज्ञां
राज्यच्युतिर्विभो ॥ ९ ॥
राज्यैश्वर्यमदोन्नद्धो न श्रेयो
विन्दते नृपः ।
त्वन्मायामोहितोऽनित्या मन्यते
सम्पदोऽचलाः ॥ १० ॥
मृगतृष्णां यथा बाला मन्यन्त उदकाशयम्
।
एवं वैकारिकीं मायां अयुक्ता वस्तु
चक्षते ॥ ११ ॥
वयं पुरा श्रीमदनष्टदृष्टयो
जिगीषयास्या इतरेतरस्पृधः ।
घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः
प्रभो
मृत्युं पुरस्त्वाविगणय्य
दुर्मदाः ॥ १२ ॥
त एव कृष्णाद्य गभीररंहसा
दुरन्तवीर्येण विचालिताः श्रियः ।
कालेन तन्वा भवतोऽनुकम्पया
विनष्टदर्पाश्चरणौ स्मराम ते ॥ १३ ॥
अथो न राज्यम्मृगतृष्णिरूपितं
देहेन शश्वत् पतता रुजां भुवा ।
उपासितव्यं स्पृहयामहे विभो
क्रियाफलं प्रेत्य च कर्णरोचनम् ॥
१४ ॥
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर्यथा न विरमेद् अपि संसरतामिह
॥ १५ ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥
१६ ॥
श्रीशुक उवाच
संस्तूयमानो भगवान्
राजभिर्मुक्तबन्धनैः ।
तानाह करुणस्तात शरण्यः श्लक्ष्णया
गिरा ॥ १७ ॥
श्रीभगवानुवाच
अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।
सुदृढा जायते भक्तिः बाढमाशंसितं तथा
॥ १८ ॥
दिष्ट्या व्यवसितं भूपा भवन्त
ऋतभाषिणः ।
श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं
नृणाम् ॥ १९ ॥
हैहयो नहुषो वेनो रावणो नरकोऽपरे ।
श्रीमदाद् भ्रंशिताः स्थानाद्
देवदैत्यनरेश्वराः ॥ २० ॥
भवन्त एतद् विज्ञाय
देहाद्युत्पाद्यमन्तवत् ।
मां यजन्तोऽध्वरैर्युक्ताः प्रजा
धर्मेण रक्षथ ॥ २१ ॥
संतन्वन्तः प्रजातन्तून् सुखं दुःखं
भवाभवौ ।
प्राप्तं प्राप्तं च सेवन्तो
मच्चित्ता विचरिष्यथ ॥ २२ ॥
उदासीनाश्च देहादौ आत्मारामा
धृतव्रताः ।
मय्यावेश्य मनः सम्यङ् मां अन्ते
ब्रह्म यास्यथ ॥ २३ ॥
श्रीशुक उवाच
इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।
तेषां न्ययुङ्क्त पुरुषान् स्त्रियो
मज्जनकर्मणि ॥ २४ ॥
सपर्यां कारयामास सहदेवेन भारत ।
नरदेवोचितैर्वस्त्रैः भूषणैः
स्रग्विलेपनैः ॥ २५ ॥
भोजयित्वा वरान्नेन सुस्नातान्
समलङ्कृतान् ।
भोगैश्च विविधैर्युक्तान्
तांबूलाद्यैर्नृपोचितैः ॥ २६ ॥
ते पूजिता मुकुन्देन राजानो
मृष्टकुण्डलाः ।
विरेजुर्मोचिताः क्लेशात् प्रावृडन्ते
यथा ग्रहाः ॥ २७ ॥
रथान् सदश्वान् आरोप्य
मणिकाञ्चनभूषितान् ।
प्रीणय्य सुनृतैर्वाक्यैः स्वदेशान्
प्रत्ययापयत् ॥ २८ ॥
त एवं मोचिताः कृच्छ्रात् कृष्णेन
सुमहात्मना ।
ययुस्तमेव ध्यायन्तः कृतानि च
जगत्पतेः ॥ २९ ॥
जगदुः प्रकृतिभ्यस्ते
महापुरुषचेष्टितम् ।
यथान्वशासद् भगवान् तथा
चक्रुरतन्द्रिताः ॥ ३० ॥
जरासन्धं घातयित्वा भीमसेनेन केशवः ।
पार्थाभ्यां संयुतः प्रायात् सहदेवेन
पूजितः ॥ ३१ ॥
गत्वा ते खाण्डवप्रस्थं शङ्खान्
दध्मुर्जितारयः ।
हर्षयन्तः स्वसुहृदो दुर्हृदां
चासुखावहाः ॥ ३२ ॥
तच्छ्रुत्वा प्रीतमनस
इन्द्रप्रस्थनिवासिनः ।
मेनिरे मागधं शान्तं राजा चाप्तमनोरथः
॥ ३३ ॥
अभिवन्द्याथ राजानं
भीमार्जुनजनार्दनाः ।
सर्वमाश्रावयां चक्रुः आत्मना
यदनुष्ठितम् ॥ ३४ ॥
निशम्य धर्मराजस्तत्
केशवेनानुकम्पितम् ।
आनन्दाश्रुकलां मुञ्चन् प्रेम्णा
नोवाच किञ्चन ॥ ३५ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने
नाम
त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥
thanks for a lovly feedback