Bhagwat chapter 10.72 |
श्रीशुक
उवाच
एकदा तु सभामध्य
आस्थितो मुनिभिर्वृतः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः भ्रातृभिश्च युधिष्ठिरः ॥ १ ॥
आचार्यैः कुलवृद्धैश्च
ज्ञातिसंबन्धिबान्धवैः ।
श्रृण्वतामेव चैतेषां आभाष्येदमुवाच ह
॥ २ ॥
युधिष्ठिर उवाच
क्रतुराजेन गोविन्द
राजसूयेन पावनीः ।
यक्ष्ये विभूतीर्भवतः तत्संपादय नः
प्रभो ॥ ३ ॥
त्वत्पादुके अविरतं परि ये चरन्ति
ध्यायन्त्यभद्रनशने शुचयो गृणन्ति
।
विन्दन्ति ते कमलनाभ भवापवर्गम्
आशासते यदि त आशिष ईश नान्ये ॥ ४
॥
तद्देवदेव भवतश्चरणारविन्द
सेवानुभावमिह पश्यतु लोक एषः ।
ये त्वां भजन्ति न भजन्त्युत वोभयेषां
निष्ठां प्रदर्शय विभो
कुरुसृञ्जयानाम् ॥ ५ ॥
न ब्रह्मणः स्वपरभेदमतिस्तव स्यात्
सर्वात्मनः समदृशः स्वसुखानुभूतेः
।
संसेवतां सुरतरोरिव ते प्रसादः
सेवानुरूपमुदयो न विपर्ययोऽत्र ॥
६ ॥
श्रीभगवानुवाच
सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन ।
कल्याणी येन ते कीर्तिः लोकान्
अनुभविष्यति ॥ ७ ॥
ऋषीणां पितृदेवानां सुहृदामपि नः
प्रभो ।
सर्वेषामपि भूतानां ईप्सितः
क्रतुराडयम् ॥ ८ ॥
विजित्य नृपतीन् सर्वान् कृत्वा च
जगतीं वशे ।
सम्भृत्य सर्वसम्भारान् आहरस्व
महाक्रतुम् ॥ ९ ॥
एते ते भ्रातरो राजन् लोकपालांशसंभवाः
।
जितोऽस्म्यात्मवता तेऽहं दुर्जयो
योऽकृतात्मभिः ॥ १० ॥
न कश्चिन्मत्परं लोके तेजसा यशसा
श्रिया ।
विभूतिभिर्वाभिभवेद् देवोऽपि किमु
पार्थिवः ॥ ११ ॥
श्रीशुक उवाच
निशम्य भगवद्गीतं
प्रीतः फुल्लमुखाम्बुजः ।
भ्रातॄन् दिग्विजयेऽयुङ्क्त
विष्णुतेजोपबृंहितान् ॥ १२ ॥
सहदेवं दक्षिणस्यां आदिशत् सह
सृञ्जयैः ।
दिशि प्रतीच्यां नकुलं उदीच्यां
सव्यसाचिनम् ।
प्राच्यां वृकोदरं मत्स्यैः केकयैः सह
मद्रकैः ॥ १३ ॥
ते विजित्य नृपान् वीरा
आजह्रुर्दिग्भ्य ओजसा ।
अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते
॥ १४ ॥
श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो
हरिः ।
आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥
१५ ॥
भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः
।
जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः
॥ १६ ॥
ते गत्वाऽऽतिथ्यवेलायां गृहेषु
गृहमेधिनम् ।
ब्रह्मण्यं समयाचेरन् राजन्या
ब्रह्मलिङ्गिनः ॥ १७ ॥
राजन् विद्ध्यतिथीन् प्राप्तान्
अर्थिनो दूरमागतान् ।
तन्नः प्रयच्छ भद्रं ते यद् वयं
कामयामहे ॥ १८ ॥
किं दुर्मर्षं तितिक्षूणां किं
अकार्यं असाधुभिः ।
किं न देयं वदान्यानां कः परः
समदर्शिनाम् ॥ १९ ॥
योऽनित्येन शरीरेण सतां गेयं यशो
ध्रुवम् ।
नाचिनोति स्वयं कल्पः स वाच्यः शोच्य
एव सः ॥ २० ॥
हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः
शिबिर्बलिः ।
व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं
गताः ॥ २१ ॥
श्रीशुक उवाच
स्वरैराकृतिभिस्तांस्तु
प्रकोष्ठैर्ज्याहतैरपि ।
राजन्यबन्धून् विज्ञाय
दृष्टपूर्वानचिन्तयत् ॥ २२ ॥
राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि
बिभ्रति ।
ददानि भिक्षितं तेभ्य आत्मानमपि
दुस्त्यजम् ॥ २३ ॥
बलेर्नु श्रूयते कीर्तिः वितता
दिक्ष्वकल्मषा ।
ऐश्वर्याद् भ्रंशितस्यापि
विप्रव्याजेन विष्णुना ॥ २४ ॥
श्रियं जिहीर्षतेन्द्रस्य विष्णवे
द्विजरूपिणे ।
जानन्नपि महीं प्रादाद् वार्यमाणोऽपि
दैत्यराट् ॥ २५ ॥
जीवता ब्राह्मणार्थाय को न्वर्थः
क्षत्रबन्धुना ।
देहेन पतमानेन नेहता विपुलं यशः ॥ २६
॥
इत्युदारमतिः प्राह
कृष्णार्जुनवृकोदरान् ।
हे विप्रा व्रियतां कामो
ददाम्यात्मशिरोऽपि वः ॥ २७ ॥
श्रीभगवानुवाच
युद्धं नो देहि
राजेन्द्र द्वन्द्वशो यदि मन्यसे ।
युद्धार्थिनो वयं प्राप्ता राजन्या
नान्यकाङ्क्षिणः ॥ २८ ॥
असौ वृकोदरः पार्थः तस्य भ्रातार्जुनो
ह्ययम् ।
अनयोर्मातुलेयं मां कृष्णं जानीहि ते
रिपुम् ॥ २९ ॥
एवमावेदितो राजा जहासोच्चैः स्म मागधः
।
आह चामर्षितो मन्दा युद्धं तर्हि
ददामि वः ॥ ३० ॥
न त्वया भीरुणा योत्स्ये युधि
विक्लवतेजसा ।
मथुरां स्वपुरीं त्यक्त्वा समुद्रं
शरणं गतः ॥ ३१ ॥
अयं तु वयसा तुल्यो नातिसत्त्वो न मे
समः ।
अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो
मम ॥ ३२ ॥
इत्युक्त्वा भीमसेनाय प्रादाय महतीं
गदाम् ।
द्वितीयां स्वयमादाय निर्जगाम पुराद्
बहिः ॥ ३३ ॥
ततः समे खले वीरौ संयुक्तावितरेतरौ ।
जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां
रणदुर्मदौ ॥ ३४ ॥
मण्डलानि विचित्राणि सव्यं दक्षिणमेव
च ।
चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः
॥ ३५ ॥
ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः ।
गदयोः क्षिप्तयो राजन् दन्तयोरिव
दन्तिनोः ॥ ३६ ॥
ते वै गदे भुजजवेन निपात्यमाने
अन्योन्यतोंऽसकटिपादकरोरुजत्रून्
।
चूर्णीबभूवतुरुपेत्य यथार्कशाखे
संयुध्यतोर्द्विरदयोरिव
दीप्तमन्व्योः ॥ ३७ ॥
इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ
क्रुद्धौ
स्वमुष्टिभिरयःस्परशैरपिष्टाम् ।
शब्दस्तयोः प्रहरतोरिभयोरिवासीन्
निर्घातवज्रपरुषस्तलताडनोत्थः ॥
३८ ॥
तयोरेवं प्रहरतोः समशिक्षाबलौजसोः ।
निर्विशेषमभूद् युद्धं
अक्षीणजवयोर्नृप ॥ ३९ ॥
एवं तयोर्महाराज युध्यतोः सप्तविंशतिः
।
दिनानि निरगंस्तत्र सुहृद्वन् निशि
तिष्ठतोः ॥ ४० ॥
एकदा मातुलेयं वै प्राह राजन् वृकोदरः
।
न शक्तोऽहं जरासन्धं निर्जेतुं युधि
माधव ॥ ४१ ॥
शत्रोर्जन्ममृती विद्वान् जीवितं च
जराकृतम् ।
पार्थमाप्याययन् स्वेन
तेजसाचिन्तयद्धरिः ॥ ४२ ॥
सञ्चिन्त्यारिवधोपायं
भीमस्यामोघदर्शनः ।
दर्शयामास विटपं पाटयन्निव संज्ञया ॥
४३ ॥
तद्विज्ञाय महासत्त्वो भीमः प्रहरतां
वरः ।
गृहीत्वा पादयोः शत्रुं पातयामास
भूतले ॥ ४४ ॥
एकं पादं पदाक्रम्य दोर्भ्यामन्यं
प्रगृह्य सः ।
गुदतः पाटयामास शाखमिव महागजः ॥ ४५ ॥
एकपादोरुवृषण कटिपृष्ठस्तनांसके ।
एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः
प्रजाः ॥ ४६ ॥
हाहाकारो महानासीत् निहते मगधेश्वरे ।
पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ ॥
४७ ॥
सहदेवं तत्तनयं भगवान्भूतभावनः ।
अभ्यषिञ्चदमेयात्मा मगधानां पतिं
प्रभुः ।
मोचयामास राजन्यान् संरुद्धा मागधेन
ये ॥ ४८ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे उत्तरार्धे जरासन्ध वधो नाम
द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
thanks for a lovly feedback