shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 55, uttarardh,
Bhagwat Chapter 10.55 |
श्रीशुक
उवाच
कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना
।
देहोपपत्तये भूयः तमेव प्रत्यपद्यत ॥ १ ॥
स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः
।
प्रद्युम्न इति विख्यातः सर्वतोऽनवमः
पितुः ॥ २ ॥
तं शम्बरः कामरूपी हृत्वा
तोकमनिर्दशम् ।
स विदित्वात्मनः शत्रुं
प्रास्योदन्वत्यगाद् गृहम् ॥ ३ ॥
तं निर्जगार बलवान् मीनः सोऽप्यपरैः
सह ।
वृतो जालेन महता गृहीतो मत्स्यजीविभिः
॥ ४ ॥
तं शम्बराय कैवर्ता उपाजह्रुरुपायनम्
।
सूदा महानसं नीत्वा वद्यन्
स्वधितिनाद्भुतम् ॥ ५ ॥
दृष्ट्वा तद् उदरे बालं मायावत्यै
न्यवेदयन् ।
नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः
।
बालस्य तत्त्वमुत्पत्तिं
मत्स्योदरनिवेशनम् ॥ ६ ॥
सा च कामस्य वै पत्नी रतिर्नाम
यशस्विनी ।
पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं
प्रतीक्षती ॥ ७ ॥
निरूपिता शम्बरेण सा सूदौदनसाधने ।
कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं
तदार्भके ॥ ८ ॥
नातिदीर्घेण कालेन स कार्ष्णि
रूढयौवनः ।
जनयामास नारीणां वीक्षन्तीनां च
विभ्रमम् ॥ ९ ॥
सा तं पतिं पद्मदलायतेक्षणं
प्रलम्बबाहुं नरलोकसुन्दरम् ।
सव्रीडहासोत्तभितभ्रुवेक्षती
प्रीत्योपतस्थे रतिरङ्ग सौरतैः ॥
१० ॥
तामह भगवान् कार्ष्णिः मातस्ते मतिरन्यथा ।
मातृभावं अतिक्रम्य वर्तसे कामिनी यथा
॥ ११ ॥
रतिरुवाच
भवान् नारायणसुतः
शम्बरेणाहृतो गृहात् ।
अहं तेऽधिकृता पत्नी रतिः कामो भवान्
प्रभो ॥ १२ ॥
एष त्वानिर्दशं सिन्धौ अक्षिपत्
शंबरोऽसुरः ।
मत्स्योऽग्रसीत् तत् उदराद् इतः
प्राप्तो भवान् प्रभो ॥१३॥
तमिमं जहि दुर्धर्षं दुर्जयं
शत्रुमात्मनः ।
मायाशतविदं तं च मायाभिर्मोहनादिभिः ॥
१४ ॥
परीशोचति ते माता कुररीव गतप्रजा ।
पुत्रस्नेहाकुला दीना विवत्सा
गौरिवातुरा ॥ १५ ॥
प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय
महात्मने ।
मायावती महामायां सर्वमायाविनाशिनीम्
॥ १६ ॥
स च शम्बरमभ्येत्य संयुगाय समाह्वयत्
।
अविषह्यैस्तमाक्षेपैः क्षिपन्
सञ्जनयन् कलिम् ॥ १७ ॥
सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत
इवोरगः ।
निश्चक्राम गदापाणिः अमर्षात्
ताम्रलोचनः ॥ १८ ॥
गदामाविध्य तरसा प्रद्युम्नाय
महात्मने ।
प्रक्षिप्य व्यनदद् नादं
वज्रनिष्पेषनिष्ठुरम् ॥ १९ ॥
तामापतन्तीं भगवानन् प्रद्युम्नो गदया
गदाम् ।
अपास्य शत्रवे क्रुद्धः प्राहिणोर्
स्वगदां नृप ॥ २० ॥
स च मायां समाश्रित्य दैतेयीं
मयदर्शितम् ।
मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ
वैहायसोऽसुरः ॥ २१ ॥
बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो
महारथः ।
सत्त्वात्मिकां महाविद्यां
सर्वमायोपमर्दिनीम् ॥ २२ ॥
ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः
।
प्रायुङ्क्त शतशो दैत्यः
कार्ष्णिर्व्यधमयत्स ताः ॥ २३ ॥
निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् ।
शम्बरस्य शिरः कायात्
ताम्रश्मश्र्वोजसाहरत् ॥ २४ ॥
आकीर्यमाणो दिविजैः स्तुवद्भिः
कुसुमोत्करैः ।
भार्ययाम्बरचारिण्या पुरं नीतो
विहायसा ॥ २५ ॥
अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् ।
विवेश पत्न्या गगनाद् विद्युतेव
बलाहकः ॥ २६ ॥
तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम्
।
प्रलम्बबाहुं ताम्राक्षं सुस्मितं
रुचिराननम् ॥ २७ ॥
स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः
।
कृष्णं मत्वा स्त्रियो ह्रीता
निलिल्युस्तत्र तत्र ह ॥ २८ ॥
अवधार्य शनैरीषद् वैलक्षण्येन योषितः
।
उपजग्मुः प्रमुदिताः सस्त्री रत्नं
सुविस्मिताः ॥ २९ ॥
अथ तत्रासितापाङ्गी वैदर्भी
वल्गुभाषिणी ।
अस्मरत् स्वसुतं नष्टं
स्नेहस्नुतपयोधरा ॥ ३० ॥
को न्वयं नरवैदूर्यः कस्य वा
कमलेक्षणः ।
धृतः कया वा जठरे केयं लब्धा त्वनेन
वा ॥ ३१ ॥
मम चाप्यात्मजो नष्टो नीतो यः
सूतिकागृहात् ।
एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित्
॥ ३२ ॥
कथं त्वनेन संप्राप्तं सारूप्यं
शार्ङ्गधन्वनः ।
आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥
३३ ॥
स एव वा भवेत् नूनं यो मे गर्भे
धृतोऽर्भकः ।
अमुष्मिन् प्रीतिरधिका वामः स्फुरति
मे भुजः ॥ ३४ ॥
एवं मीमांसमणायां वैदर्भ्यां
देवकीसुतः ।
देवक्यानकदुन्दुभ्यां उत्तमःश्लोक
आगमत् ॥ ३५ ॥
विज्ञातार्थोऽपि भगवान् तूष्णीमास
जनार्दनः ।
नारदोऽकथयत् सर्वं शम्बराहरणादिकम् ॥
३६ ॥
तच्छ्रुत्वा महदाश्चर्यं
कृष्णान्तःपुरयोषितः ।
अभ्यनन्दन् ब्बहूनब्दान् नष्टं
मृतमिवागतम् ॥ ३७ ॥
देवकी वसुदेवश्च कृष्णरामौ तथा
स्त्रियः ।
दम्पती तौ परिष्वज्य रुक्मिणी च
ययुर्मुदम् ॥ ३८ ॥
नष्टं प्रद्युम्नमायातं आकर्ण्य
द्वारकौकसः ।
अहो मृत इवायातो बालो दिष्ट्येति
हाब्रुवन् ॥ ३९ ॥
यं वै मुहुः पितृसरूपनिजेशभावाः
तन्मातरो यदभजन् रहरूढभावाः ।
चित्रं न तत्खलु रमास्पदबिम्बबिम्बे
कामे स्मरेऽक्षविषये
किमुतान्यनार्यः ॥ ४० ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे उत्तरार्धे
प्रद्युम्नोत्पत्तिनिरूपणं नाम
पञ्चपञ्चाशत्तमोऽध्यायः
॥ ५५ ॥
COMMENTS