Bhagwat chapter 12.5 |
श्रीशुक
उवाच
अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान्
हरिः ।
यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ १ ॥
त्वं तु राजन् मरिष्येति
पशुबुद्धिमिमां जहि ।
न जातः प्रागभूतोऽद्य देहवत्त्वं न
नङ्क्ष्यसि ॥ २ ॥
न भविष्यसि भूत्वा त्वं
पुत्रपौत्रादिरूपवान् ।
बीजाङ्कुरवद् देहादेः व्यतिरिक्तो
यथानलः ॥ ३ ॥
स्वप्ने यथा शिरश्छेदं
पञ्चत्वाद्यात्मनः स्वयम् ।
यस्मात्पश्यति देहस्य तत आत्मा
ह्यजोऽमरः ॥ ४ ॥
घटे भिन्ने घटाकाश आकाशः स्याद् यथा
पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते
पुनः ॥ ५ ॥
मनः सृजति वै देहान् गुणान् कर्माणि
चात्मनः ।
तन्मनः सृजते माया ततो जीवस्य संसृतिः
॥ ६ ॥
स्नेहाधिष्ठानवर्त्यग्नि संयोगो
यावदीयते ।
ततो दीपस्य दीपत्वं एवं देहकृतो भवः ।
रजःसत्त्वतमोवृत्त्या जायतेऽथ
विनश्यति ॥ ७ ॥
न तत्रात्मा स्वयंज्योतिः यो
व्यक्ताव्यक्तयोः परः ।
आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥
८ ॥
एवमात्मानमात्मस्थम् आत्मनैवामृश
प्रभो ।
बुद्ध्यानुमानगर्भिण्या
वासुदेवानुचिन्तया ॥ ९ ॥
चोदितो विप्रवाक्येन न त्वां धक्ष्यति
तक्षकः ।
मृत्यवो नोपधक्ष्यन्ति मृत्यूनां
मृत्युमीश्वरम् ॥ १० ॥
अहं ब्रह्म परं धाम ब्रह्माहं परमं
पदम् ।
एवं समीक्ष्य चात्मानम् आत्मन्याधाय
निष्कले॥११॥
दशन्तं तक्षकं पादे लेलिहानं विषाननैः
।
न द्रक्ष्यसि शरीरं च विश्वं च
पृथगात्मनः ॥ १२ ॥
एतत्ते कथितं तात यदात्मा पृष्टवान्
नृप ।
हरेर्विश्वात्मनश्चेष्टां किं भूयः
श्रोतुमिच्छसि ॥ १३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः॥५॥
thanks for a lovly feedback