Bhagwat chapter 12.4 |
श्रीशुक उवाच
कालस्ते परमाण्वादिः द्विपरार्धावधिर्नृप ।
कथितो युगमानं च श्रृणु कल्पलयावपि ॥ १ ॥
चतुर्युगसहस्रं तु ब्रह्मणो
दिनमुच्यते ।
स कल्पो यत्र मनवः चतुर्दश विशांपते ॥
२ ॥
तदन्ते प्रलयस्तावान् ब्राह्मी
रात्रिरुदाहृता ।
त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय
हि ॥ ३॥
एष नैमित्तिकः प्रोक्तः प्रलयो यत्र
विश्वसृक् ।
शेतेऽनन्तासनो विश्वं आत्मसात् कृत्य
चात्मभूः ॥ ४ ॥
द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः
परमेष्ठिनः ।
तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय
वै ॥ ५ ॥
एष प्राकृतिको राजन् प्रलयो यत्र
लीयते ।
अण्डकोषस्तु सङ्घातो विघाट उपसादिते
॥ ६ ॥
पर्जन्यः शतवर्षाणि भूमौ राजन्न
वर्षति ।
तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः
क्षुधार्दिताः ॥ ७ ॥
क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः
प्रजाः ।
सामुद्रं दैहिकं भौमं रसं सांवर्तको
रविः ॥ ८ ॥
रश्मिभिः पिबते घोरैः सर्वं नैव
विमुञ्चति
ततः संवर्तको वह्निः सङ्कर्षणमुखोत्थितः
॥ ९ ॥
दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ
।
उपर्यधः समन्ताच्च
शिखाभिर्वह्निसूर्ययोः ॥ १० ॥
दह्यमानं विभात्यण्डं
दग्धगोमयपिण्डवत् ।
ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ॥
११ ॥
परः सांवर्तको वाति धूम्रं खं
रजसाऽऽवृतम् ।
ततो मेघकुलान्यङ्ग चित्र
वर्णान्यनेकशः ॥ १२ ॥
शतं वर्षाणि वर्षन्ति नदन्ति
रभसस्वनैः ।
तत एकोदकं विश्वं
ब्रह्माण्डविवरान्तरम् ॥ १३ ॥
तदा भूमेर्गन्धगुणं ग्रसन्त्याप
उदप्लवे ।
ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय
कल्पते ॥ १४ ॥
अपां रसमथो तेजः ता लीयन्तेऽथ नीरसाः
।
ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा
॥ १५ ॥
लीयते चानिले तेजो वायोः खं ग्रसते
गुणम् ।
स वै विशति खं राजन् ततश्च नभसो गुणम्
॥ १६ ॥
शब्दं ग्रसति भूतादिः नभस्तमनु लीयते
।
तैजसश्चेन्द्रियाण्यङ्ग
देवान्वैकारिको गुणैः ॥ १७ ॥
महान् ग्रसत्यहङ्कारं गुणाः
सत्त्वादयश्च तम् ।
ग्रसतेऽव्याकृतं राजन् गुणान् कालेन
चोदितम् ॥ १८ ॥
न तस्य कालावयवैः परिणामादयो गुणाः ।
अनाद्यनन्तमव्यक्तं नित्यं
कारणमव्ययम् ॥ १९ ॥
न यत्र वाचो न मनो न सत्त्वं
तमो रजो वा महदादयोऽमी ।
न प्राणबुद्धीन्द्रियदेवता वा
न
सन्निवेशः खलु लोककल्पः ॥ २० ॥
न स्वप्नजाग्रन्न च तत्सुषुप्तं
न खं जलं भूरनिलोऽग्निरर्कः ।
संसुप्तवत् शून्यवदप्रतर्क्यं
तन्मूलभूतं पदमामनन्ति ॥ २१ ॥
लयः प्राकृतिको ह्येष
पुरुषाव्यक्तयोर्यदा ।
शक्तयः सम्प्रलीयन्ते विवशाः
कालविद्रुताः ॥ २२ ॥
बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति
तदाश्रयम् ।
दृश्यत्वाव्यतिरेकाभ्यां
आद्यन्तवदवस्तु यत् ॥ २३ ॥
दीपश्चक्षुश्च रूपं च ज्योतिषो न
पृथग्भवेत् ।
एवं धीः खानि मात्राश्च न
स्युरन्यतमादृतात् ॥ २४ ॥
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति
चोच्यते ।
मायामात्रमिदं राजन् नानात्वं
प्रत्यगात्मनि ॥ २५ ॥
यथा जलधरा व्योम्नि भवन्ति न भवन्ति च
।
ब्रह्मणीदं तथा
विश्वमवयव्युदयाप्ययात् ॥ २६ ॥
सत्यं ह्यवयवः प्रोक्तः
सर्वावयविनामिह ।
विनार्थेन प्रतीयेरन् पटस्येवाङ्ग
तन्तवः ॥ २७ ॥
यत्सामान्यविशेषाभ्यां उपलभ्येत स
भ्रमः ।
अन्योन्यापाश्रयात्
सर्वमाद्यन्तवदवस्तु यत् ॥ २८ ॥
विकारः ख्यायमानोऽपि
प्रत्यगात्मानमन्तरा ।
न निरूप्योऽस्त्यणुरपि
स्याच्चेच्चित्सम आत्मवत् ॥ २९ ॥
न हि सत्यस्य नानात्वमविद्वान्यदि
मन्यते ।
नानात्वं छिद्रयोर्यद्वत्
ज्योतिषोर्वातयोरिव ॥ ३० ॥
यथा हिरण्यं बहुधा समीयते
नृभिः क्रियाभिर्व्यवहारवर्त्मसु ।
एवं वचोभिर्भगवानधोक्षजो
व्याख्यायते लौकिकवैदिकैर्जनैः ॥ ३१ ॥
यथा घनोऽर्कप्रभवोऽर्कदर्शितो
ह्यर्कांशभूतस्य च चक्षुषस्तमः ।
एवं त्वहं ब्रह्मगुणस्तदीक्षितो
ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ ३२ ॥
घनो यदार्कप्रभवो विदीर्यते
चक्षुः स्वरूपं रविमीक्षते तदा ।
यदा ह्यहङ्कार उपाधिरात्मनो
जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥
यदैवमेतेन विवेकहेतिना
मायामयाहङ्करणात्मबन्धनम् ।
छित्त्वाच्युतात्मानुभवोऽवतिष्ठते
तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ ३४ ॥
नित्यदा सर्वभूतानां ब्रह्मादीनां
परन्तप ।
उत्पत्तिप्रलयौ एके सूक्ष्मज्ञाः
सम्प्रचक्षते ॥ ३५ ॥
कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा
।
परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥
३६ ॥
अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।
अवस्था नैव दृश्यन्ते वियति
ज्योतिषामिव ॥ ३७ ॥
नित्यो नैमित्तिकश्चैव तथा प्राकृतिको
लयः ।
आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी
॥ ३८ ॥
एताः कुरुश्रेष्ठ जगद्विधातुः
नारायणस्याखिलसत्त्वधाम्नः ।
लीलाकथास्ते कथिताः समासतः
कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥ ३९ ॥
संसारसिन्धुमतिदुस्तरमुत्तितीर्षोः
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीलाकथारसनिषेवणमन्तरेण
पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ ४० ॥
पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः
।
नारदाय पुरा प्राह कृष्णद्वैपायनाय सः
॥ ४१ ॥
स वै मह्यं महाराज भगवान् बादरायणः ।
इमां भागवतीं प्रीतः संहितां
वेदसम्मिताम् ॥ ४२ ॥
इमां वक्ष्यत्यसौ सूत ऋषिभ्यो
नैमिषालये ।
दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः
शौनकादिभिः ॥ ४३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
thanks for a lovly feedback