shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat ekadash skandh,srimad bhagwatam canto11, chapter 4,
Bhagwat chapter 11.04 |
राजोवाच
यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः ।
चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १ ॥
द्रुमिल उवाच
यो वा अनन्तस्य गुणान् अनन्तान्
अनुक्रमिष्यन् स तु बालबुद्धिः ।
रजांसि भूमेर्गणयेत् कथञ्चित्
कालेन नैवाखिलशक्तिधाम्नः ॥ २ ॥
भूतैर्यदा पञ्चभिरात्मसृष्टैः
पुरं विराजं विरचय्य
तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः ॥ ३ ॥
यत्काय एष भुवनत्रयसन्निवेशो
यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ।
ज्ञानं स्वतः श्वसनतो बलमोज ईहा
सत्त्वादिभिः स्थितिलयोद्भव
आदिकर्ता ॥ ४ ॥
आदौ अभूत् शतधृती रजसास्य सर्गे
विष्णुः स्थित्तौ क्रतुपतिः
द्विजधर्मसेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्युद्भवस्थितिलयाः सततं
प्रजासु ॥ ५ ॥
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां
नारायणो नर ऋषिप्रवरः प्रशान्तः ।
नैष्कर्म्यलक्षणमुवाच चचार कर्म
योऽद्यापि चास्त
ऋषिवर्यनिषेविताङ्घ्रिः॥ ६ ॥
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति
कामं न्ययुङ्क्त सगणं स
बदर्युपाख्यम् ।
गत्वाप्सरोगणवसन्त सुमन्दवातैः
स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
विज्ञाय शक्रकृतमक्रममादिदेवः
प्राह प्रहस्य गतविस्मय एजमानान्
।
मा भैर्विभो मदन मारुत देववध्वो
गृह्णीत नो बलिमशून्यमिमं
कुरुध्वम् ॥ ८ ॥
इत्थं ब्रुवत्यभयदे नरदेव देवाः
सव्रीडनम्रशिरसः सघृणं तमूचुः ।
नैतद्विभो त्वयि परेऽविकृते विचित्रं
स्वारामधीरनिकरा नतपादपद्मे ॥ ९
॥
त्वां सेवतां सुरकृता बहवोऽन्तरायाः
स्वौकः विलङ्घ्य परमं व्रजतां पदं
ते ।
नान्यस्य बर्हिषि बलीन् ददतः
स्वभागान्
धत्ते पदं त्वमविता यदि
विघ्नमूर्ध्नि ॥ १० ॥
क्षुत्तृट् त्रिकालगुणमारुत
जैह्वशैश्यान्
अस्मान् अपारजलधीन् अतितीर्य
केचित् ।
क्रोधस्य यान्ति विफलस्य वशं पदे गोः
मज्जन्ति दुश्चरतपश्च
वृथोत्सृजन्ति ॥ ११ ॥
इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः
।
दर्शयामास शुश्रूषां स्वर्चिताः
कुर्वतीर्विभुः ॥ १२ ॥
ते देवानुचरा दृष्ट्वा स्त्रियः
श्रीरिव रूपिणीः ।
गन्धेन मुमुहुस्तासां
रूपौदार्यहतश्रियः ॥ १३ ॥
तानाह देवदेवेशः प्रणतान् प्रहसन्निव
।
आसां एकतमां वृङ्ध्वं सवर्णां
स्वर्गभूषणाम् ॥ १४ ॥
ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः
।
उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य
दिवं ययुः ॥ १५ ॥
इन्द्रायानम्य सदसि शृण्वतां
त्रिदिवौकसाम् ।
ऊचुर्नारायणबलं शक्रः तत्रास विस्मितः
॥ १६ ॥
हंसस्वरूप्यवददच्युत आत्मयोगं
दत्तः कुमार ऋषभो भगवान् पिता नः
।
विष्णुः शिवाय जगतां कलयावतिर्णः
तेनाहृता मधुभिदा श्रुतयो हयास्ये
॥ १७ ॥
गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये
क्रौडे हतो दितिज उद्धरताम्भसः
क्ष्माम् ।
कौर्मे धृतोऽद्रिः अमृतोन्मथने
स्वपृष्ठे
ग्राहात्
प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥
संस्तुन्वतो निपतितान् श्रमणान्
ऋषींश्च
शक्रं च वृत्रवधतस्तमसि
प्रविष्टम् ।
देवस्त्रियोऽसुरगृहे पिहिता अनाथा
जघ्नेऽसुरेन्द्रमभयाय सतां
नृसिंहे ॥ १९ ॥
देवासुरे युधि च दैत्यपतीन् सुरार्थे
हत्वान्तरेषु भुवनानि अदधात्
कलाभिः ।
भूत्वाथ वामन इमामहरद् बलेः क्ष्मां
याच्ञाच्छलेन समदाद् अदितेः
सुतेभ्यः ॥ २० ॥
निःक्षत्रियामकृत गां च
त्रिसप्तकृत्वो
रामस्तु हैहयकुलापि
अयभार्गवाग्निः ।
सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं
सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥
२१ ॥
भूमेर्भरावतरणाय यदुष्वजन्मा
जातः करिष्यति सुरैरपि दुष्कराणि
।
वादैर्विमोहयति यज्ञकृतोऽतदर्हान्
शूद्रान् कलौ क्षितिभुजो
न्यहनिष्यदन्ते ॥ २२ ॥
एवंविधानि जन्मानि कर्माणि च जगत्पतेः ।
भूरीणि भूरियशसो वर्णितानि महाभुज ॥
२३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
COMMENTS