Bhagwat chapter 11.31 |
श्रीशुक
उवाच
अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः ।
महेंद्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ १ ॥
पितरः सिद्धगंधर्वा विद्याधरमहोरगाः ।
चारणा यक्षरक्षांसि किन्नराप्सरसो
द्विजाः ॥ २ ॥
द्रष्टुकामा भगवतो निर्याणं
परमोत्सुकाः ।
गायंतश्च गृणंतश्च शौरेः कर्माणि जन्म
च ॥ ३ ॥
ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः
।
कुर्वंतः सङ्कुलं राजन् भक्त्या
परमया युताः ॥ ४ ॥
भगवान् पितामहं वीक्ष्य विभूतीरात्मनो
विभुः ।
संयोज्यात्मनि चात्मानं पद्मनेत्रे
न्यमीलयत् ॥ ५ ॥
लोकाभिरामां स्वतनुं धारणा ध्यान
मङ्गलम् ।
योगधारणयाऽऽग्नेय्या दग्ध्वा
धामाविशत्स्वकम् ॥ ६ ॥
दिवि दुंदुभयो नेदुः पेतुः सुमनसश्च
खात् ।
सत्यं धर्मो धृतिर्भूमेः कीर्तिः
श्रीश्चानु तं ययुः ॥ ७ ॥
देवादयो ब्रह्ममुख्या न विशंतं
स्वधामनि ।
अविज्ञातगतिं कृष्णं
ददृशुश्चातिविस्मिताः ॥ ८ ॥
सौदामन्या यथाऽऽकाशे यांत्या
हित्वाभ्रमण्डलम् ।
गतिर्न लक्ष्यते मर्त्यैः तथा
कृष्णस्य दैवतैः ॥ ९ ॥
ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः ।
विस्मितास्तां प्रशंसंतः स्वं स्वं
लोकं ययुस्तदा ॥ १० ॥
राजन् परस्य तनुभृज्जननाप्ययेहा
मायाविडम्बनमवेहि यथा नटस्य ।
सृष्ट्वात्मनेदमनुविश्य विहृत्य चांते
संहृत्य चात्ममहिनोपरतः स आस्ते ॥ ११ ॥
मर्त्येन यो गुरुसुतं यमलोकनीतं
त्वां चानयच्छरणदः
परमास्त्रदग्धम् ।
जिग्येंऽतकांतकमपीशमसावनीशः
किं स्वावने स्वरनयन् मृगयुं
सदेहम् ॥ १२ ॥
तथाप्यशेषस्थितिसम्भवाप्ययेषु
अनन्यहेतुर्यदशेषशक्तिधृक् ।
नैच्छत् प्रणेतुं वपुरत्र शेषितं
मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३ ॥
य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेद् भक्त्या
तामेवाप्नोत्यनुत्तमाम् ॥ १४ ॥
दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः
।
पतित्वा चरणावस्रैः न्यषिञ्चत्
कृष्णविच्युतः ॥ १५ ॥
कथयामास निधनं वृष्णीनां कृत्स्नशो
नृप ।
तच्छ्रुत्वोद्विग्नहृदया जनाः
शोकविर्मूर्च्छिताः ॥ १६ ॥
तत्र स्म त्वरिता जग्मुः
कृष्णविश्लेषविह्वलाः ।
व्यसवः शेरते यत्र ज्ञातयो घ्नंत
आननम् ॥ १७ ॥
देवकी रोहिणी चैव वसुदेवस्तथा सुतौ ।
कृष्णरामावपश्यंतः शोकार्ता विजहुः
स्मृतिम् ॥ १८ ॥
प्राणांश्च विजहुस्तत्र भगवद्
विरहातुराः ।
उपगुह्य पतींस्तात चितां आरुरुहुः
स्त्रियः ॥ १९ ॥
रामपत्न्यश्च तद्देहं
उपगुह्याग्निमाविशन् ।
वसुदेवपत्न्यस्तद्गात्रं
प्रद्युम्नादीन् हरेः स्नुषाः ।
कृष्णपत्न्योऽविशन्नग्निं
रुक्मिण्याद्याः तदात्मिकाः ॥ २० ॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य
विरहातुरः ।
आत्मानं सांत्वयामास कृष्णगीतैः
सदुक्तिभिः ॥ २१ ॥
बंधूनां नष्टगोत्राणां अर्जुनः
सांपरायिकम् ।
हतानां कारयामास यथावद् अनुपूर्वशः ॥
२२ ॥
द्वारकां हरिणा त्यक्तां
समुद्रोऽप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद् भगवदालयम्
॥ २३ ॥
नित्यं सन्निहितस्तत्र भगवान्
मधुसूदनः ।
स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम्
॥ २४ ॥
स्त्रीबालवृद्धानादाय हतशेषान्
धनञ्जयः ।
इंद्रप्रस्थं समावेश्य वज्रं
तत्राभ्यषेचयत् ॥ २५ ॥
श्रुत्वा सुहृद् वधं राजन्
अर्जुनात्ते पितामहाः ।
त्वां तु वंशधरं कृत्वा जग्मुः सर्वे
महापथम् ॥ २६ ॥
य एतद् देवदेवस्य विष्णोः कर्माणि
जन्म च ।
कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः
प्रमुच्यते ॥ २७ ॥
इत्थं हरेर्भगवतो रुचिरावतार
वीर्याणि बालचरितानि च शंतमानि ।
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
भक्तिं परां परमहंसगतौ लभेत ॥ २८
॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥ ३१ ॥
thanks for a lovly feedback