Bhagwat chapter 12.3 |
श्रीशुक उवाच
दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति
भूरियम् ।
अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १ ॥
काम एष नरेन्द्राणां
मोघः स्याद् विदुषामपि ।
येन फेनोपमे पिण्डे येऽतिविश्रम्भिता
नृपाः ॥ २ ॥
पूर्वं निर्जित्य षड्वर्गं जेष्यामो
राजमन्त्रिणः ।
ततः सचिवपौराप्तकरीन्द्रानस्य
कण्टकान् ॥ ३ ॥
एवं क्रमेण जेष्यामः पृथ्वीं
सागरमेखलाम् ।
इत्याशाबद्धहृदया न
पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥
समुद्रावरणां जित्वा मां
विशन्त्यब्धिमोजसा ।
कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम्
॥ ५ ॥
यां विसृज्यैव मनवः तत्सुताश्च
कुरूद्वह ।
गता यथागतं युद्धे तां मां
जेष्यन्त्यबुद्धयः ॥ ६ ॥
मत्कृते पितृपुत्राणां भ्रातृणां चापि
विग्रहः ।
जायते ह्यसतां राज्ये
ममता-बद्धचेतसाम् ॥ ७ ॥
ममैवेयं मही कृत्स्ना न ते मूढेति
वादिनः ।
स्पर्धमाना मिथो घ्नन्ति म्रियन्ते
मत्कृते नृपाः ॥ ८ ॥
पृथुः पुरूरवा गाधिः नहुषो
भरतोऽर्जुनः ।
मान्धाता सगरो रामः खट्वाङ्गो
धुन्धुहा रघुः ॥ ९ ॥
तृणबिन्दुर्ययातिश्च शर्यातिः
शन्तनुर्गयः ।
भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो
नृगः ॥ १० ॥
हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः ।
नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ
तारकः ॥ ११ ॥
अन्ये च बहवो दैत्या राजानो ये
महेश्वराः ।
सर्वे सर्वविदः शूराः सर्वे
सर्वजितोऽजिताः ॥ १२ ॥
ममतां मय्यवर्तन्त
कृत्वोच्चैर्मर्त्यधर्मिणः ।
कथावशेषाः कालेन ह्यकृतार्थाः कृता
विभो ॥ १३ ॥
कथा इमास्ते कथिता महीयसां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञानवैराग्यविवक्षया विभो
वचोविभूतीर्न तु
पारमार्थ्यम् ॥ १४ ॥
यस्तु उत्तमश्लोकगुणानुवादः
संगीयतेऽभीक्ष्णममङ्गलघ्नः ।
तमेव नित्यं श्रृणुयादभीक्ष्णं
कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५ ॥
राजोवाच
केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः ।
विधमिष्यन्त्युपचितान् तन्मे ब्रूहि
यथा मुने ॥ १६ ॥
युगानि युगधर्मांश्च मानं
प्रलयकल्पयोः ।
कालस्येश्वररूपस्य गतिं
विष्णोर्महात्मनः ॥ १७ ॥
श्रीशुक उवाच
कृते प्रवर्तते धर्मः
चतुष्पात् तज्जनैर्धृतः ।
सत्यं दया तपो दानं इति पादा
विभोर्नृप ॥ १८ ॥
सन्तुष्टाः करुणा मैत्राः शान्ता
दान्ताः तितिक्षवः ।
आत्मारामाः समदृशः प्रायशः श्रमणा
जनाः ॥ १९ ॥
त्रेतायां धर्मपादानां तुर्यांशो
हीयते शनैः ।
अधर्मपादैः अनृत हिंसासंतोषविग्रहैः ॥
२० ॥
तदा क्रियातपोनिष्ठा नातिहिंस्रा न
लम्पटाः ।
त्रैवर्गिकास्त्रयीवृद्धा वर्णा
ब्रह्मोत्तरा नृप ॥ २१ ॥
तपःसत्यदयादानेषु अर्धं ह्रस्वति
द्वापरे ।
हिंसातुष्ट्यनृतद्वेषैः
धर्मस्याधर्मलक्षणैः ॥ २२ ॥
यशस्विनो महाशीलाः स्वाध्यायाध्ययने
रताः ।
आढ्याः कुटुम्बिनो हृष्टा वर्णाः
क्षत्रद्विजोत्तराः ॥ २३ ॥
कलौ तु धर्महेतूनां
तुर्यांशोऽधर्महेतुभिः ।
एधमानैः क्षीयमाणो ह्यन्ते सोऽपि
विनङ्क्ष्यति ॥ २४ ॥
तस्मिन् लुब्धा दुराचारा निर्दयाः
शुष्कवैरिणः ।
दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः
प्रजाः ॥ २५ ॥
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे
गुणाः ।
कालसञ्चोदितास्ते वै परिवर्तन्त
आत्मनि ॥ २६ ॥
प्रभवन्ति यदा सत्त्वे
मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्यात् ज्ञाने तपसि
यद्रुचिः ॥ २७ ॥
यदा धर्मार्थ कामेषु भक्तिर्यशसि
देहिनाम् ।
तदा त्रेता रजोवृत्तिः इति जानीहि
बुद्धिमन् ॥ २८ ॥
यदा लोभस्तु असन्तोषो मानो दम्भोऽथ
मत्सरः ।
कर्मणां चापि काम्यानां द्वापरं तद्
रजस्तमः ॥ २९ ॥
यदा मायानृतं तन्द्रा निद्रा हिंसा
विषादनम् ।
शोकमोहौ भयं दैन्यं स कलिस्तामसः
स्मृतः ॥ ३० ॥
यस्मात् क्षुद्रदृशो मर्त्याः
क्षुद्रभाग्या महाशनाः ।
कामिनो वित्तहीनाश्च स्वैरिण्यश्च
स्त्रियोऽसतीः ॥ ३१ ॥
दस्यूत्कृष्टा जनपदा वेदाः
पाषण्डदूषिताः ।
राजानश्च प्रजाभक्षाः शिश्नोदरपरा
द्विजाः ॥ ३२ ॥
अव्रता वटवोऽशौचा भिक्षवश्च
कुटुम्बिनः ।
तपस्विनो ग्रामवासा
न्यासिनोऽत्यर्थलोलुपाः ॥ ३३ ॥
ह्रस्वकाया महाहारा भूर्यपत्या
गतह्रियः ।
शश्वत्कटुकभाषिण्यः चौर्यमायोरुसाहसाः
॥ ३४ ॥
पणयिष्यन्ति वै क्षुद्राः किराटाः
कूटकारिणः ।
अनापद्यपि मंस्यन्ते वार्तां साधु
जुगुप्सिताम् ॥ ३५ ॥
पतिं त्यक्ष्यन्ति निर्द्रव्यं
भृत्याप्यखिलोत्तमम् ।
भृत्यं विपन्नं पतयः कौलं
गाश्चापयस्विनीः ॥ ३६ ॥
पितृभ्रातृसुहृत्ज्ञातीन् हित्वा
सौरतसौहृदाः ।
ननान्दृश्यालसंवादा दीनाः स्त्रैणाः
कलौ नराः ॥ ३७ ॥
शूद्राः प्रतिग्रहीष्यन्ति
तपोवेषोपजीविनः ।
धर्मं वक्ष्यन्त्यधर्मज्ञा
अधिरुह्योत्तमासनम् ॥ ३८ ॥
नित्यमुद्विग्नमनसो
दुर्भिक्षकरकर्शिताः ।
निरन्ने भूतले राजन्
अनावृष्टिभयातुराः ॥ ३९ ॥
वासोऽन्नपानशयनव्यवायस्नानभूषणैः ।
हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ
प्रजाः ॥ ४० ॥
कलौ काकिणिकेऽप्यर्थे विगृह्य
त्यक्तसौहृदाः ।
त्यक्ष्यन्ति च प्रियान्प्राणान्
हनिष्यन्ति स्वकानपि ॥ ४१ ॥
न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ
अपि ।
पुत्रान् सर्वार्थकुशलान् क्षुद्राः
शिश्नोदरम्भराः ॥ ४२ ॥
कलौ न राजन् जगतां परं गुरुं
त्रिलोकनाथानतपादपङ्कजम् ।
प्रायेण मर्त्या भगवन्तमच्युतं
यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ ४३ ॥
यन्नामधेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन्
पुमान् ।
विमुक्तकर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ
जनाः ॥ ४४ ॥
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसंभवान् ।
सर्वान् हरति चित्तस्थो भगवान्
पुरुषोत्तमः ॥ ४५ ॥
श्रुतः सङ्कीर्तितो ध्यातः
पूजितश्चादृतोऽपि वा ।
नृणां धुनोति भगवान् हृत्स्थो
जन्मायुताशुभम् ॥ ४६ ॥
यथा हेम्नि स्थितो वह्निः दुर्वर्णं
हन्ति धातुजम् ।
एवं आत्मगतो विष्णुः योगिनां
अशुभाशयम् ॥ ४७ ॥
विद्यातपःप्राणनिरोधमैत्री
तीर्थाभिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा
यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम्
।
म्रियमाणो ह्यवहितः ततो यासि परां
गतिम् ॥ ४९ ॥
म्रियमाणैरभिध्येयो भगवान् परमेश्वरः
।
आत्मभावं नयत्यङ्ग सर्वात्मा
सर्वसंश्रयः ॥ ५० ॥
कलेर्दोषनिधे राजन् अस्ति ह्येको
महान् गुणः ।
कीर्तनात् एव कृष्णस्य मुक्तसङ्गः
परं व्रजेत् ॥ ५१ ॥
कृते यद् ध्यायतो विष्णुं त्रेतायां
यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद्
हरिकीर्तनात् ॥ ५२ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ २ ॥
thanks for a lovly feedback