Bhagwat chapter 11.29 |
उद्धव
उवाच
सुदुश्चरां इमां मन्ये योगचर्यामनात्मनः ।
यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥ १ ॥
प्रायशः पुण्डरीकाक्ष युञ्जन्तो
योगिनो मनः ।
विषीदन्त्यसमाधानान्
मनोनिग्रहकर्शिताः ॥ २ ॥
अथात आनन्ददुघं
पदाम्बुजं
हंसाः श्रयेरन्नरविन्दलोचन ।
सुखं नु विश्वेश्वर योगकर्मभि
स्त्वन्माययामी विहता न मानिनः ॥
३ ॥
किं चित्रमच्युत तवैतदशेषबन्धो
दासेष्वनन्यशरणेषु
यदात्मसात्त्वम् ।
योऽरोचयत् सह मृगैः स्वयमीश्वराणां
श्रीमत्किरीटतटपीडितपादपीठः ॥ ४ ॥
तं त्वाखिलात्मदयितेश्वरमाश्रितानां
सर्वार्थदं स्वकृतविद् विसृजेत को नु ।
को वा भजेत् किमपि विस्मृतयेऽनु
भूत्यै
किं वा भवेन्न तव पादरजोजुषां नः
॥ ५ ॥
नैवोपयन्त्यपचितिं कवयस्तवेश
ब्रह्मायुषापि कृतमृद्धमुदः
स्मरन्तः ।
योऽन्तर्बहिस्तनुभृतां अशुभं
विधुन्वन्
आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६ ॥
श्रीशुक उवाच
इत्युद्धवेनात्यनुरक्तचेतसा
पृष्टो जगत्क्रीडनकः स्वशक्तिभिः ।
गृहीतमूर्तित्रय ईश्वरेश्वरो
जगाद सप्रेममनोहरस्मितः ॥ ७ ॥
श्रीभगवानुवाच
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।
याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं
जयति दुर्जयम् ॥ ८ ॥
कुर्यात् सर्वाणि कर्माणि मदर्थं
शनकैः स्मरन् ।
मय्यर्पितमनश्चित्तो
मद्धर्मात्ममनोरतिः ॥ ९ ॥
देशान् पुण्यान् आश्रयेत मद्भक्तैः
साधुभिः श्रितान् ।
देवासुरमनुष्येषु मद्भक्ताचरितानि च
॥ १० ॥
पृथक् सत्रेण वा मह्यं
पर्वयात्रामहोत्सवान् ।
कारयेद् गीत नृत्याद्यैः
महाराजविभूतिभिः ॥ ११ ॥
मामेव सर्वभूतेषु बहिरन्तरपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥
१२ ॥
इति सर्वाणि भूतानि मद्भावेन
महाद्युते ।
सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः
॥ १३ ॥
ब्राह्मणे पुल्कसे स्तेने
ब्रह्मण्येऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव समदृक् पण्डितो
मतः ॥ १४ ॥
नरेष्वभीक्ष्णं मद्भावं पुंसो
भावयतोऽचिरात् ।
स्पर्धासूयातिरस्काराः साहङ्कारा
वियन्ति हि ॥ १५ ॥
विसृज्य स्मयमानान् स्वान् दृशं
व्रीडां च दैहिकीम् ।
प्रणमेद् दण्डवद् भूमौ
अश्वचाण्डालगोखरम् ॥ १६ ॥
यावर् सर्वेषु भूतेषु मद्भावो
नोपजायते ।
तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः ॥
१७ ॥
सर्वं ब्रह्मात्मकं तस्य
विद्ययाऽऽत्ममनीषया ।
परिपश्यन् उपरमेत् सर्वतो मुक्तसंशयः
॥ १८ ॥
अयं हि सर्वकल्पानां सध्रीचीनो मतो मम
।
मद्भावः सर्वभूतेषु
मनोवाक्कायवृत्तिभिः ॥ १९ ॥
न ह्यङ्गोपक्रमे ध्वंसो
मद्धर्मस्योद्धवाण्वपि ।
मया व्यवसितः सम्यङ्
निर्गुणत्वादनाशिषः ॥ २० ॥
यो यो मयि परे धर्मः कल्प्यते
निष्फलाय चेत् ।
तदायासो निरर्थः स्याद् भयादेरिव
सत्तम ॥ २१ ॥
एषा बुद्धिमतां बुद्धिः मनीषा च
मनीषिणाम् ।
यत्सत्यमनृतेनेह मर्त्येनाप्नोति
मामृतम् ॥ २२ ॥
एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य
सङ्ग्रहः ।
समासव्यासविधिना देवानामपि दुर्गमः ॥
२३ ॥
अभीक्ष्णशस्ते गदितं ज्ञानं
विस्पष्टयुक्तिमत् ।
एतद् विज्ञाय मुच्येत पुरुषो
नष्टसंशयः ॥ २४ ॥
सुविविक्तं तव प्रश्नं मयैतदपि
धारयेत् ।
सनातनं ब्रह्मगुह्यं परं
ब्रह्माधिगच्छति ॥ २५ ॥
य एतन्मम भक्तेषु सम्प्रदद्यात्
सुपुष्कलम् ।
तस्याहं ब्रह्मदायस्य
ददाम्यात्मानमात्मना ॥ २६ ॥
य एतत् समधीयीत पवित्रं परमं शुचि ।
स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन्
॥ २७ ॥
य एतत् श्ररद्धया नित्यं अव्यग्रः
श्रृणुयान्नरः ।
मयि भक्तिं परां कुर्वन् कर्मभिर्न स
बध्यते ॥ २८ ॥
अप्युद्धव त्वया ब्रह्म सखे
समवधारितम् ।
अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥
२९ ॥
नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय
च ।
अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम्
॥ ३० ॥
एतैर्दोषैर्विहीनाय ब्रह्मण्याय
प्रियाय च ।
साधवे शुचये ब्रूयाद्भक्तिः स्यात्
शूद्रयोषिताम् ॥ ३१ ॥
नैतद् विज्ञाय जिज्ञासोः ज्ञातव्यं
अवशिष्यते ।
पीत्वा पीयूषममृतं पातव्यं नावशिष्यते
॥ ३२ ॥
ज्ञाने कर्मणि योगे च वार्तायां
दण्डधारणे ।
यावानर्थो नृणां तात तावांस्तेऽहं
चतुर्विधः ॥ ३३ ॥
मर्त्यो यदा त्यक्तसमस्तकर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४
॥
श्रीशुक उवाच
स एवमादर्शितयोगमार्गः
तदोत्तमःश्लोकवचो निशम्य ।
बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो
न
किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५ ॥
विष्टभ्य चित्तं प्रणयावघूर्णं
धैर्येण राजन्बहुमन्यमानः ।
कृताञ्जलिः प्राह यदुप्रवीरं
शीर्ष्णा स्पृशंस्तच्चरणारविन्दम्
॥ ३६ ॥
उद्धव उवाच
विद्रावितो मोहमहान्धकारो
य आश्रितो मे तव सन्निधानात् ।
विभावसोः किं नु समीपगस्य
शीतं तमो भीः प्रभवन्त्यजाद्य ॥
३७ ॥
प्रत्यर्पितो मे भवतानुकम्पिना
भृत्याय विज्ञानमयः प्रदीपः ।
हित्वा कृतज्ञस्तव पादमूलं
कोऽन्यत् समीयाच्छरणं त्वदीयम् ॥
३८ ॥
वृक्णश्च मे सुदृढः स्नेहपाशो
दाशार्हवृष्ण्यन्धकसात्वतेषु ।
प्रसारितः सृष्टिविवृद्धये त्वया
स्वमायया ह्यात्मसुबोधहेतिना ॥
३९ ॥
नमोऽस्तु ते महायोगिन्
प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रतिः
स्यादनपायिनी ॥ ४० ॥
श्रीभगवानुवाच
गच्छोद्धव मयाऽऽदिष्टो
बदर्याख्यं ममाश्रमम् ।
तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः
शुचिः ॥ ४१ ॥
ईक्षयालकनन्दाया विधूताशेषकल्मषः ।
वसानो वल्कलान्यङ्ग
वन्यभुक्सुखनिःस्पृहः ॥ ४२ ॥
तितिक्षुः द्वन्द्वमात्राणां सुशीलः
संयतेन्द्रियः ।
शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः
॥ ४३ ॥
मत्तोऽनुशिक्षितं यत्ते
विविक्तमनुभावयन् ।
मय्यावेशितवाक्चित्तो मद्धर्मनिरतो
भव ।
अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः
परम् ॥ ४४ ॥
श्रीशुक उवाच
स एवमुक्तो हरिमेधसोद्धवः
प्रदक्षिणं तं परिसृत्य पादयोः ।
शिरो निधायाश्रुकलाभिरार्द्रधीः
न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५ ॥
सुदुस्त्यजस्नेहवियोगकातरो
न शक्नुवंस्तं परिहातुमातुरः ।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
बिभ्रन् नमस्कृत्य ययौ पुनः पुनः
॥ ४६ ॥
ततस्तमन्तर्हुदि सन्निवेश्य
गतो महाभागवतो विशालाम् ।
यथोपदिष्टां जगदेकबन्धुना
तपः समास्थाय हरेरगाद् गतिम् ॥
४७ ॥
य एतद् आनन्दसमुद्रसम्भृतं
ज्ञानामृतं भागवताय भाषितम् ।
कृष्णेन योगेश्वरसेविताङ्घ्रिणा
सच्छ्रद्धयाऽऽसेव्य
जगद्विमुच्यते ॥ ४८ ॥
भवभयमपहन्तुं ज्ञानविज्ञानसारं
निगमकृद् उपजह्रे भृङ्गवद्
वेदसारम् ।
अमृतमुदधितश्चा पाययद् भृत्यवर्गान्
पुरुषं ऋषभमाद्यं कृष्णसंज्ञं
नतोऽस्मि ॥ ४९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे एकोत्रिंशोऽध्यायः ॥ २९ ॥
thanks for a lovly feedback