Bhagwat chapter 11.14 |
उद्धव उवाच
वदन्ति कृष्ण श्रेयांसि बहूनि
ब्रह्मवादिनः ।
तेषां विकल्पप्राधान्यं उताहो एकमुख्यता ॥ १ ॥
भवता उदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २ ॥
श्रीभगवानुवाच
कालेन नष्टा प्रलये वाणीयं
वेदसंज्ञिता ।
मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां
मदात्मकः ॥ ३ ॥
तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा ।
ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ ४ ॥
तेभ्यः पितृभ्यः तत्पुत्रा देवदानवगुह्यकाः ।
मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५ ॥
किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः ।
बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ ६ ॥
याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा ।
यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥
७ ॥
एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम्
।
पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे ॥ ८ ॥
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।
श्रेयो वदंति अनेकांतं यथाकर्म यथारुचि ॥ ९ ॥
धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।
अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ॥
१० ॥
केचिद् यज्ञतपो दानं व्रतानि नियमान् यमान् ।
आद्यंतवंत
एवैषां लोकाः कर्मविनिर्मिताः ।
दुःखोदर्काः तमोनिष्ठाः क्षुद्रानंदाः
शुचार्पिताः ॥ ११ ॥
मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।
मयाऽऽत्मना सुखं यत्तत् कुतः स्याद्
विषयात्मनाम्॥१२॥
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।
मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३ ॥
न पारमेष्ठ्यं न महेंद्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीः अपुनर्भवं वा
मय्यर्पितात्मेच्छति मद् विनान्यत् ॥ १४ ॥
न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।
न च सङ्कर्षणो न श्रीः नैवात्मा च यथा भवान्॥१५॥
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः
॥ १६ ॥
निष्किञ्चना मय्यनुरक्तचेतसः
शांता महांतोऽखिलजीववत्सलाः ।
कामैरनालब्धधियो जुषन्ति यत्
नैरपेक्ष्यं न विदुः सुखं मम ॥ १७ ॥
बाध्यमानोऽपि मद्भक्तो
विषयैरजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८
॥
यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात्
।
तथा मद्विषया भक्तिः उद्धवैनांसि कृत्स्नशः ॥ १९
॥
न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायः तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥
२० ॥
भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः
सताम् ।
भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात्
॥ २१ ॥
धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।
मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥
२२ ॥
कथं
विना रोमहर्षं द्रवता चेतसा विना ।
विनाऽऽनन्दाश्रुकलया शुध्येद् भक्त्या विनाऽऽशयः॥२३॥
वाग्-गद्-गदा द्रवते यस्य चित्तं
रुदत्यभीक्ष्णं हसति क्वचित्-च ।
विलज्ज उद्गायति नृत्यते च
मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
यथाग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भक्तियोगेन भजत्यथो माम् ॥ २५ ॥
यथा यथाऽऽत्मा परिमृज्यतेऽसौ
मत्पुण्यगाथा श्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर्यथैवाञ्जनसंप्रयुक्तम् ॥ २६ ॥
विषयान् ध्यायतश्चित्तं विषयेषु
विषज्जते ।
मां अनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥
तस्मात् असदभिध्यानं यथा स्वप्नमनोरथम् ।
हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ २८ ॥
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा
दूरत आत्मवान् ।
क्षेमे विविक्त आसीनः चिन्तयेत् मां अतन्द्रितः
॥ २९ ॥
न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः ।
योषित् सङ्गात् यथा पुंसो यथा तत् सङ्गिसङ्गतः
॥ ३० ॥
उद्धव उवाच
यथा त्वां अरविन्दाक्ष यादृशं वा
यदात्मकम् ।
ध्यायेत् मुमुक्षुः एतन्मे ध्यानं त्वं
वक्तुमर्हसि ॥ ३१ ॥
श्रीभगवानुवाच
सम आसन आसीनः समकायो यथासुखम् ।
हस्तौ उत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२ ॥
प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः ।
विपर्ययेणापि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥
३३ ॥
हृद्यविच्छिन्न-मोंकारं घण्टानादं विसोर्णवत् ।
प्राणेन-उदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥
३४ ॥
एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।
दशकृत्वस्त्रिषवणं मासाद्-अर्वाग् जितानिलः ॥ ३५
॥
हृत्पुण्डरीकमन्तस्थं ऊर्ध्वनालमधोमुखम् ।
ध्यात्वोर्ध्वमुखमुन्निद्रं अष्टपत्रं सकर्णिकम्
॥ ३६ ॥
कर्णिकायां न्यसेत् सूर्य सोमाग्नीन्
उत्तरोत्तरम् ।
वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम् ॥
३७ ॥
समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।
सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८ ॥
समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।
हेमाम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९
॥
शङ्खचक्रगदापद्म वनमालाविभूषितम् ।
नूपुरैः विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४० ॥
द्युमत् किरीटकटक कटिसूत्राङ्गदायुतम् ।
सर्वाङ्गसुन्दरं हृद्यं प्रसाद सुमुखेक्षणम् ।
सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥
इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः
।
बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ ४२
॥
तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् ।
नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेत् मुखम्
॥ ४३ ॥
तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् ।
तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥
४४ ॥
एवं समाहितमतिः मां एवात्मानमात्मनि ।
विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि
संयुतम् ॥ ४५ ॥
ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।
संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः
॥ ४६ ॥
इति
श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां
एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
thanks for a lovly feedback