Shishupal Vadh Mahakavyam Krishna kills Shishupal |
CLICK HERE LINK FOR👉शिशुपाल वध महाकाव्य, प्रथम सर्ग सम्पूर्ण, हिन्दी अनुवाद सहित
श्रियः पतिः श्रीमति शासितुं जग-
ज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद्
हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥
गतं तिरश्चीनमनूरुसारथेः
प्रसिद्धमूर्ध्वं ज्वलनं हविर्भुजः।
पतत्यधो धाम विसारि सर्वतः
किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥
चयस्त्विषामित्यवधारितं पुर-
स्ततः शरीरिति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति
क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥
नवानधोऽधो बृहतः पयोधरान्
समूढकर्पूरपरागपाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना
स्फुटोपमं भूतिसितेन शंभुना ॥ ४ ॥
दधानमम्भोरुहकेसरद्युती-
र्जटाः शरच्चन्द्रमरीचिरोचिषम् ।
विपाकपिङ्गास्तुहिनस्थलीरुहो
धराधरेन्द्रं व्रततीततीरिव ॥ ५ ॥
पिशङ्गमौञ्जीयुजमर्जुनच्छविं
वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां
विडम्बयन्तं शितिवाससस्तनुम् ॥ ६ ॥
विहङ्गराजाङ्गरुहैरिवाततै-
र्हिरण्यमयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै-
र्घनं धनान्ते तडितां गुणैरिव ॥ ७ ॥
निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्म्णा
लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारूचमूरुचर्मणा
कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८ ॥
अजस्रमास्फालितवल्लकीगुण
क्षतोज्ज्वलांगुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्द्धया
विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥
रण्द्भिराघट्टनया नभस्वतः
पृथग्विभिनाश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छना-
मवेक्षमाणं महतीं मूहुर्मूहुः ॥ १० ॥
निवर्त्य सोऽनुव्रजतः कृतानती-
नतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत् सादितदैत्यसम्पदः
पदं महेन्द्रालयचारु चक्रिणः ॥ ११ ॥
पतन् पतङ्गप्रतिमस्तपोनिधिः
पुरो स्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकै-
र्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥
अथ प्रयत्नोन्नमितानमत्फणै-
र्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं
सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥
तमर्घ्यमर्घ्यादिकयादिपूरुषः
सपर्यया साधु स पर्य्यपूपुजत् ।
गृहानुपैतुं प्रणयादभीप्सवो
भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥
न यावदेतावुदपश्यदुत्थितौ
जनस्तुषारासाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमासने मुनि-
श्चिरंतनस्तावदभिन्यवीविशत् ॥ १५ ॥
महामहानीलशिलारुचः पुरो
निषेदिवान् कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायकमुच्च्कै-
रचूचुरच्च्न्द्रमसो भिरामताम् ॥ १६ ॥
विधाय तस्यापचितिं प्रसेदुषः
प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान् परिचर्यया मूहु-
र्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥
अशेषतीर्थीपहृताः कमण्डलो-
र्निधाय पाणावृषिणाभ्युदीरिताः ।
अधौधविध्वंसविधौ पटीयसी-
र्नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १८ ॥
स काञ्चने यत्र मुनेरनुज्ञया
नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिघाय जम्बूजनितश्रियः श्रियं
सुमेरुश्रुङ्गस्य तदा तदासनम् ॥ १९ ॥
स तप्तकार्तस्वरभास्वराम्बरः
कठोरताराधिपलाञ्छनच्छविः ।
वोदोद्युते वाडवजातवेदसः
शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥
रथाङ्गपाणेः पटलेन रोचिषा-
मृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरो-
स्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥
प्रफुल्ततापिच्छनिभैरभीशुभिः
शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी
तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥
युगान्तकालप्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विष-
स्तपोधनाभ्याजामसंभवा मुदः ॥ २३ ॥
निधाघधामानमिवाधिदीधितिं
मुदा विकासं यतिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी
स पुण्डरीकाक्ष इति स्फुटो भवत् ॥ २४ ॥
सितं सितिम्ना सुतरां मुनेर्वपु-
र्विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः
शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥
हरत्ययं सम्प्रति हेतुरेष्यतः
शुभस्य पूर्वाचरितः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति
कालतत्रितयेऽपि योग्यताम् ॥ २६ ॥
जगत्यपर्याप्तसहस्रभानुना
न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतै-
रदस्त्वया नुत्तमनुत्तमं तमः ॥ २७ ॥
कृतः प्रजाक्षेमकृता प्रजासृजा
सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगे पि गुरुस्त्वमक्षति-
र्निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥
विलोकनेनैव तवामुना मुने
कृतः कृताथो स्मि निबृंहितांहसा ।
तथापि शुश्रूषुरहं गरीयसी-
र्गिरोऽथवा श्रेयसि केन तृप्यते ॥ २९ ॥
गतस्पृहो प्यागमनप्रयोजनं
वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो
गुरुस्तवैवागम एष धृष्टताम् ॥ ३० ॥
इति ब्रुवन्तं तमुवाच स व्रती
न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः
किमस्ति कार्य्यं गुरु योगिनामपि ॥ ३१ ॥
उदीर्णरागप्रतिरोधकं जनै-
रभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषो मोक्षपथं मनस्विन-
स्त्वमग्रभूमिर्निपायसंश्रया ॥ ३२ ॥
उदासितारं निगृहीतमानसै-
र्गृहीतमध्यात्मदृशा कथंचन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः
पुरातनं त्वां पुरूषं पुराविदः ॥ ३३ ॥
निवेशयामासिथ हेलयोद्धतं
फणाभृतां छाद्नमेकमोकसः ।
जगत्त्रयैकस्थपतिस्त्वमुच्चकै-
रहीश्वरस्तम्भशिरःसु भूतलम् ॥ ३४ ॥
अनन्यगुर्व्यास्तव केन केवलः
पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान् गुणै-
र्भवान् भवेच्छेदकरैः करोत्यधः ॥ ३५ ॥
लघूकरिष्यन्नतिभारभङ्गुरा-
ममूं किल त्वं त्रिदिवादवातरः ।
उदूडलोकत्रितयेन सांप्रतं
गुरूर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥
निजौजसोज्जासयितुं जगद्द्रुहा-
मुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः
पदं दृशः स्याः कथमीश मादृशाम् ॥ ३७ ॥
उपप्लुतं पातुमदो मदोद्धतै-
स्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः
क्षपातमस्काण्डमलीमसं नभः ॥ ३८ ॥
करोति कंसादिमहीभृतां वधा-
ज्जनो मृगाणामिव यत्त्व स्तवम् ।
हरेर्हिरण्याक्षपुरःसरासुर-
द्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥
प्रवृत्त एव स्वयमुञ्झितश्रमः
क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां
मिथस्त्वदाभाषणलोलुभं मनः ॥ ४० ॥
तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः
क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यताम-
हिद्विषस्तद्भवता निशम्यताम् ॥ ४१ ॥
अभूदभूमिः प्रतिपक्षजन्मनां
भियां तनूजस्तपनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिसूदनं हरे-
र्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥
समत्सरेणासुर इत्युपेयुषा
चिराय नाम्नः प्रथमाभिधेयताम् ।
भवस्य पूर्वावतारस्तरस्विना
मनःसु येन द्युसदां व्यधीयत ॥ ४३ ॥
दिशामधीशांश्चतुरो यतः सुरा-
नपास्य तं रागहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति
प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥
पुराणि दुर्गाणि निशातमायुधं
बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकगुणानि नाकिनां
गणैस्तमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥
स सम्चरिष्णुर्भुवनान्तराणि यां
यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खल-
त्करैस्त्रिसं।ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥
सटच्छटाभिन्नधनेन बिभ्रता
नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरै-
रुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥
विनोदनिच्छन्नथ दर्पजन्मनो
रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं
बभूव रक्षः क्षतरक्षणं दिवः ॥ ४८ ॥
प्रभुर्बुभूषुर्भुवनत्रयस्य यः
शिरो तिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः
प्रसादमिच्छासदृशं पिनाकिनः ॥ ४९ ॥
समुत्क्षिपन् यः पृथिवीभृतां वरं
वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रम-
स्वयंग्रहाश्लेषमुखेन निष्क्रयाम् ॥ ५० ॥
पुरीमवस्कन्द लुनीहि नन्दनं
मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा वशी
य इत्थनस्वास्थ्यमहर्दिवं दिवः ॥ ५१ ॥
सलीलयातानि न भर्तुरभ्रमो-
र्न चित्रमुच्चैःश्रवसः पदक्रमम् ।
अनुद्रुतः संयति येन केवलं
बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ ५२ ॥
अशक्नुवन् सोढुमधीरलोचनः
सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं
निनाय बिभ्यद् दिवसानि कौशिकः ॥ ५३ ॥
बृहच्छिलानिष्ठुरकण्ठघट्टना-
विकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं
न चक्रमस्याक्रमताधिकन्धरम् ॥ ५४ ॥
विभिन्नशङ्खः कलुषीभवन्मुहु
र्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकः
प्रकम्पयामास न मानसं न सः ॥ ५५ ॥
रणेषु तस्य प्रहिताः प्रचेतसा
सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो
जवेन कण्ठं सभयं प्रप्रेदिर ॥ ५६ ॥
परेतभर्तुर्महिषो मुना धनु-
र्विधातुमुत्खातविषाणमण्डलः ।
हृते पि भारे महतस्त्रपाभरा
दुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥
स्पृशन् सशङ्कः समये शुचावह
स्थितः कराग्रैरसमग्रपातिभिः ।
अधर्मधर्मोदकबिन्दुमौक्तिकै-
रलंचकारास्य वधूरहस्करः ॥ ५८ ॥
कलासमग्रेणा गृहानमुञ्चता
मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं
न नर्म्साचिव्यमकारि नेन्दुना ॥ ५९ ॥
विदग्धलीलोचितदन्तपत्रिका-
चिकीर्षय नूनमेन मानिना ।
न जातु वैनायकमेकमुद्धृतं
विषाणमद्यापि पुनः प्ररोहति ॥ ६० ॥
निशान्तनारीपरिधानधूनन-
स्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः
प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६१ ॥
तिरस्कृतस्तस्य जनाभिभाविना
मुहुर्महिम्ना महसां महीयसाम् ।
बभार वाष्पैर्द्विगूणीकृतं तनु-
स्तनूनपाद्धूमवितानमाधिजैः ॥ ६२ ॥
तदीयमातङ्गघटाविघट्टितैः
कटास्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभि-
श्चिरस्य याथार्थ्यमलम्भि दिग्गजैः ॥ ६३ ॥
परस्य मर्माविधमुञ्झतां निजं
द्विजिहृतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः
कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६४ ॥
तपेन वर्षाः शरदा हिमागमो
वसन्तलक्ष्म्या शिशिर समेत्य च ।
प्रसूनक्लृप्तं ददतः सदर्त्तवः
पुरेऽस्य वास्तव्यदुटुम्बितां दधुः ॥ ६५ ॥
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः
सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा
वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ ६६ ॥
अमानवं जातमजं कुले मनोः
प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः
सदाभ्मानैकघना हि मानिनः ॥ ६७ ॥
स्मरस्यदो दाशरथिर्भवन् भवा-
नमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाविद्धचलज्जलाविलं
विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ ६८ ॥
अथोपपत्तिं छलनापरो परा-
मवाप्य शैलूष इवैष भूमिकाम् ।
तिरोहितात्मा शिशुपालसंज्ञया
प्रतीयते संप्रति सो प्यसः परैः ॥ ६९ ॥
स बालः आसीद्वपुष चतुर्भुजो
मुखेन पूर्णेन्दुरुचिस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृच्चकै-
रसंशयं संप्रति तेजसा रविः ॥ ७० ॥
स्वयं विधाता सुरदैत्यरक्षसा-
मनुग्रहापग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवता-
वितीर्णवीर्यातिशयान् हसत्यसौ ॥ ७१ ॥
बलावलेपादधुनापि पूर्ववत्
प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित् प्रकृतिः सुनिश्चिता
पुमांसमन्वेति भवान्तरेष्वपि ॥ ७२ ॥
तदेनमुल्लङ्घितशासनं विधे-
र्विधेहि कीनाशनिवेशनातिथिम् ।
शुभेतराचारविपक्रिमापदो
विपादनीया हि सतामसाधवः ॥ ७३ ॥
हृदयमरिवधोदयादुपोढ-
द्रढिम दधातु पुनः पुरन्दरस्य ।
धनपुलकपुलोमजाकुचाग्र-
द्रुतपरिरम्भनिपीडनक्षमत्वम् ॥ ७४ ॥
ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतितं पुरः सुरमुनाविन्दोः श्रियं बिभ्रति।
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नीव भृकुटिच्छलेन वदने केतुश्चकारास्पदम्॥७५॥
इति माघभट्टविरचिते शिशुपालवधमहाकाव्ये
कृष्णनारदसंभाषणं नाम प्रथमः सर्गः॥१॥
thanks for a lovly feedback