Mahakavi kalidas praneetam raghuvansh -mahakavyam - chapter 2 |
अथ प्रजानामधिपः प्रभाते
जायाप्रतिग्राहितगन्धमाल्यां
।
वनाय पीतप्रतिबद्धवत्सां
यशोधनो धेनुमृषेर्मुमोच ॥१॥
तस्याः खुरन्यासपवित्रपांसु-
मपांसुलानां धुरि
कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी
श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥२॥
निवर्त्य राजा दयितां दयालु-
स्तां सौरभेयीं
सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां
जुगोप
गोरूपधरामिवोर्वीम् ॥३॥
व्रताय तेनानुचरेण धेनो-
र्न्यषेधि
शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा
स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥४॥
आस्वादवद्भिः कवलैस्तृणानां
कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैस्स्वैरगतैस्स तस्याः
सम्राट् समाराधनतत्परोऽभूत् ॥५॥
स्थितः स्थितामुच्चलितः
प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमादधानां
छायेव तां भूपतिरन्वगच्छत् ॥६॥
स न्यस्तचिह्नामपि राजलक्ष्मीं
तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजि-
रन्तर्मदावस्थ
इव द्विपेन्द्रः ॥७॥
लताप्रतानोद्ग्रथितैः स केशै-
राधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनो-
र्वन्यान्विनेष्यन्निव
दुष्टसत्त्वान् ॥८॥
विसृष्टपार्श्वानुचरस्य तस्य
पार्श्वद्रुमाः पाशभृता
समस्य ।
उदीरयामासुरिवोन्मदानां
आलोकशब्दं
वयसां विरावैः॥९॥
मरुत्प्रयुक्ताश्च मरुत्सखाभं
तमर्च्यमारादभिवर्तमानं ।
अवाकिरन्बाललताः प्रसूनै-
राचारलाजैरिव पौरकन्याः ॥१०॥
धनुर्भृतोऽप्यस्य दयार्द्रभाव-
माख्यातमन्तःकरणैर्विशङ्कैः
।
विलोकयन्त्यो वपुरापुरक्ष्णां
प्रकामविस्तारफलं हरिण्यः ॥११॥
स कीचकैर्मारुतपूर्णरन्ध्रैः
कूजद्भिरापादितवंशकृत्यम्
।
शुश्राव कुञ्जेषु यशस्स्वमुच्चै-
रुद्गीयमानं वनदेवताभिः ॥१२॥
पृक्तस्तुषारैर्गिरिनिर्झराणा-
मनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्र-
माचारपूतं पवनस्सिषेवे ॥१३॥
शशाम वृष्ट्यापि विना दवाग्नि-
रासीद्विशेषा
फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे
तस्मिन्वनं
गोप्तरि गाहमाने ॥१४॥
सञ्चारपूतानि दिगन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुं
।
प्रचक्रमे पल्लवरागताम्रा
प्रभा
पतङ्गस्य मुनेश्च धेनुः ॥१५॥
तां देवतापित्रतिथिक्रियार्थां
अन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा तेन सतां मतेन
श्रद्धेव
साक्षाद्विधिनोपपन्ना ॥१६॥
स पल्वलोत्तीर्णवराहयूथा-
न्यावासवृक्षोन्मुखबर्हिणानि
।
ययौ मृगाध्यासितशाद्वलानि
श्यामायमानानि वनानि पश्यन् ॥१७॥
आपीनभारोद्वहनप्रयत्ना-
द्गृष्टिर्गुरुत्वाद्वपुषो
नरेन्द्रः ।
उभावलंचक्रतुरञ्चिताभ्यां
तपोवनावृत्तिपथं गताभ्याम् ॥१८॥
वसिष्ठधेनोरनुयायिनं त-
मावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्ति-
रुपोषिताभ्यामिव
लोचनाभ्याम् ॥१९॥
पुरस्कृता वर्त्मनि पार्थिवेन
प्रत्युद्गता
पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनु-
र्दिनक्षपामध्यगतेव
सन्ध्या ॥२०॥
प्रदक्षिणीकृत्य पयस्विनीं तां
सुदक्षिणा साक्षतपात्रहस्ता
।
प्रणम्य चानर्च विशालमस्याः
शृङ्गान्तरं
द्वारमिवार्थसिद्धेः ॥२१॥
वत्सोत्सुकापिस्तिमिता सपर्यां
प्रत्यग्रहीत्सेति ननन्दतुस्तौ।
भक्त्योपपन्नेषु हि तद्विधानां
प्रसादचिह्नानि पुरःफलानि ॥२२॥
गुरोः सदारस्य निपीड्य पादौ
समाप्य सान्ध्यञ्च विधिं दिलीपः
।
दोहावसाने पुनरेव दोग्ध्रीं
भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥२३॥
तामन्तिकन्यस्तबलिप्रदीपा-
मन्वास्य गोप्ता गृहिणीसहायः
।
क्रमेण सुप्तामनुसंविवेश
सुप्तोत्थितां
प्रातरनूदतिष्ठत् ॥२४॥
इत्थं व्रतं धारयतः प्रजार्थं
समं महिष्या महनीयकीर्तेः
।
सप्त व्यतीयुस्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य ॥२५॥
अन्येद्युरात्मानुचरस्य भावं
जिज्ञासमाना मुनिहोमधेनुः
।
गङ्गाप्रपातान्तविरूढशष्पं
गौरीगुरोर्गह्वरं
आविवेश ॥२६॥
सा दुष्प्रधर्षा मनसापि हिंस्रै-
रित्यद्रिशोभाप्रहितेक्षणेन
।
अलक्षिताभ्युत्पतनो नृपेण
प्रसह्य
सिंहः किल तां चकर्ष ॥२७॥
तदीयमाक्रन्दितमार्तसाधो-
र्गुहानिबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्विवादाय नगेन्द्रसक्तां
निवर्तयामास
नृपस्य दृष्टिम् ॥२८॥
स पाटलायां गवि तस्थिवांसं
धनुर्धरः केसरिणं
ददर्श ।
अधित्यकायां इव धातुमय्यां
लोध्रद्रुमं सानुमतः
प्रफुल्लम् ॥२९॥
ततो मृगेन्द्रस्य मृगेन्द्रगामी
वधाय वध्यस्य शरं शरण्यः
।
जाताभिषङ्गो नृपतिर्निषङ्गा-
दुद्धर्तुं
ऐच्छत्प्रसभोद्धृतारिः॥३०॥
वामेतरस्तस्य करः प्रहर्तु-
र्नखप्रभाभूषितकङ्कपत्त्रे
।
सक्ताङ्गुलिः सायकपुङ्ख एव
चित्रार्पितारम्भ
इवावतस्थे ॥३१॥
बाहुप्रतिष्टम्भविवृद्धमन्यु-
रभ्यर्णमागस्कृतमस्पृशद्भिः
।
राजा स्वतेजोभिरदह्यतान्त-
र्भोगीव
मन्त्रौषधिरुद्धवीर्यः ॥३२॥
तमार्यगृह्यं निगृहीतधेनु-
र्मनुष्यवाचा
मनुवंशकेतुं ।
विस्माययन्विस्मितमात्मवृत्तौ
सिंहोरुसत्त्वं
निजगाद सिंहः ॥३३॥
अलं महीपाल तव श्रमेण प्रयुक्तम्
अप्यस्त्रम् इतो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रंहः
शिलोच्चये
मूर्च्छति मारुतस्य ॥३४॥
कैलासगौरं वृषं आरुरुक्षोः
पादार्पणानुग्रहपूतपृष्टं
।
अवेहि मां किंकरं अष्टमूर्तेः
कुम्भोदरं नाम
निकुम्भमित्रम् ॥३५॥
अमुं पुरः पश्यसि देवदारुं
पुत्रीकृतोऽसौ
वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां
स्कन्दस्य मातुः पयसां
रसज्ञः ॥३६॥
कण्डूयमानेन कटं कदाचि-
द्वन्यद्विपेनोन्मथिता
त्वगस्य ।
अथैनं अद्रेस्तनया शुशोच
सेनान्यं आलीढं
इवासुरास्त्रैः ॥३७॥
तदा प्रभृत्येव वनद्विपानां
त्रासार्थमस्मिन्नहमाद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय
सिंहत्वं
अङ्कागतसत्त्ववृत्ति ॥३८॥
तस्यालमेषा क्षुधितस्य तृप्त्यै
प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे
सुरद्विषश्चान्द्रमसी
सुधेव ॥३९॥
स त्वं निवर्तस्व विहाय लज्जां
गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं
न तद्यशः शस्त्रभृतां
क्षिणोति ॥४०॥
इति प्रगल्भं पुरुसाधिराजो
मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावा-
दात्मन्यवज्ञां शिथिलीचकार ॥४१॥
प्रत्यब्रवीच्चैनमिषुप्रयोगे
तत्पूर्वसङ्गे
वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकवीक्षणेन
वज्रं
मुमुक्षन्निव वज्रपाणिः ॥४२॥
प्रत्याह वैनं शरमोक्षवन्ध्यो
मा
पत्त्रपर्वात्स्वरभेदमाप्तः ।
प्रहीणपूर्वध्वनिनाधिरूढ-
स्तुलां असारेन
शरद्घनेन ॥४२॥
संरुद्धचेष्टस्य मृगेन्द्र कामं
हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृतां हि वेद
सर्वं भवान्भावं अतोऽभिधास्ये॥४३॥
मान्यः स मे स्थावरजङ्गमानां
सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्ने-
र्नश्यत्पुरस्तादनुपेक्षणीयम्
॥४४॥
स त्वं मदीयेन शरीरवृत्तिं
देहेन निर्वर्तयितुं प्रसीद
।
दिनावसानोत्सुकबालवत्सा
विसृज्यतां धेनुरियं महर्षेः ॥४५॥
अथान्धकारं गिरिगह्वराणां
दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती
किंचिद्विहस्यार्थपतिं बभाषे ॥४६॥
एकातपत्रं जगतः प्रभुत्वं
नवं वयः कान्तं इदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छ-
न्विचारमूढः प्रतिभासि मे त्वम् ॥४७॥
भूतानुकम्पा तव चेदियं गौ-
रेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः
प्रजाः प्रजानाथ पितेव पासि ॥४८॥
अथैकधेनोरपराधचण्डा-
द्गुरोः कृशानुप्रतिमाद्बिभेषि
।
शक्योऽस्य मन्युर्भवता विनेतुं
गाः कोटिशः स्पर्शयता घटोध्नीः ॥४९॥
तद्रक्ष कल्याणपरंपराणां
भोक्तारं ऊर्जस्वलं आत्मदेहं ।
महीतलस्पर्शनमात्रभिन्नं
ऋद्धं हि राज्यं पदं ऐन्द्रं आहुः ॥५०॥
एतावदुक्त्वा विरते मृगेन्द्रे
प्रतिस्वनेनास्य
गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालमुच्चैः
प्रीत्या
तं एवार्थं अभाषतेव ॥५१॥
निशम्य देवानुचरस्य वाचं
मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या
निरीक्ष्यमाणः सुतरां दयालुः ॥५२॥
क्षतात्किल त्रायत इत्युदग्रः
क्षत्रस्य शब्दो भुवनेषु रूढः
।
राज्येन किं तद्विपरीतवृत्तेः
प्राणैरुपक्रोशमलीमसैर्वा ॥५३॥
कथं नु शक्योऽनुनयो महर्षे-
र्विश्राणनाच्चान्यपयस्विनीनां
।
इमां अनूनां सुरभेरवेहि
रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥५४॥
सेयं स्वदेहार्पणनिष्क्रयेण
न्याय्या मया मोचयितुं भवत्तः ।
न पारणा स्याद्विहता तवैवं
भवेदलुप्तश्च मुनेः क्रियार्थः ॥५५॥
भवानपीदं परवानवैति
महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यमग्रे
विनाश्य रक्ष्यं स्वयं अक्षतेन ॥५६॥
किं अप्यहिंस्यस्तव चेन्मतोऽहं
यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानां
पिण्डेष्वनास्था खलु भौतिकेषु ॥५७॥
संबन्धं आभाषणपूर्वं आहु-
र्वृत्तः स नौ संगतयोर्वनान्ते
।
तद्भूतनाथानुग नार्हसि त्वं
संबन्धिनो मे प्रणयं विहन्तुम् ॥५८॥
तथेति गां उक्तवते दिलीपः
सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
स न्यस्त शस्त्रो हरये स्वदेहं
उपानयत्पिण्डं
इवामिषस्य ॥५९॥
तस्मिन्क्षणे पालयितुः प्रजानां
उत्पश्यतः सिंहनिपातं उग्रं ।
अवाङ्मुखस्य्ऽओपरि पुष्पवृष्टिः
पपात विद्याधरहस्तमुक्ता ॥६०॥
उत्तिष्ठ वत्सेत्यमृतायमानं
वचो निशम्योत्थितमुत्थितः सन् ।
ददर्श राजा जननीं इव स्वां
गां अग्रतः प्रस्रविणीं न सिंहम् ॥६१॥
तं विस्मितं धेनुरुवाच साधो
मायां मयोध्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि
प्रभुः प्रहर्तुं किं
उतान्यहिंस्राः ॥६२॥
भक्त्या गुरौ मय्यनुकम्पया च
प्रीतास्मि ते पुत्र वरं
वृणीष्व ।
न केवलानां पयसां प्रसूतिं
अवेहि मां कामदुघां प्रसन्नाम् ॥६३॥
ततः समानीय स मानितार्थी
हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारं अनन्तकीर्तिं
सुदक्षिणायां तनयं ययाचे ॥६४॥
संतानकामाय तथेति कामं
राज्ञे प्रतिश्रुत्य पयस्विनी
सा ।
दुग्ध्वा पयः पत्त्रपुटे मदीयं
पुत्रोऽपभुङ्क्ष्वेति तमादिदेश
॥६५॥
वत्सस्य होमार्थविधेश्च शेषं
ऋषेरनुज्ञां अधिगम्य मातः ।
ऊधस्यमिच्छामि तवोपभोक्तुं
षष्ठाम्शं उर्व्या इव रक्षितायाः ॥६६॥
इत्थं क्षितीशेन वसिष्ठधेनु-
र्विज्ञापिता प्रीततरा
बभूव ।
तदन्विता हैमवताच्च कुक्षेः
प्रत्याययावाश्रमं अश्रमेण ॥६७॥
तस्याः प्रसन्नेन्दुमुखः प्रसादं
गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै
शशंस वाचा पुनरुक्तयेव ॥६८॥
स नन्दिनीस्तन्यं अनिन्दितात्मा
सद्वत्सलो वत्सहुतावशेषं ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः
शुभ्रं यशो मूर्तं
इवातितृष्णः ॥६९॥
प्रातर्यथोक्तव्रतपारणान्ते
प्रास्थानिकं स्वस्त्ययनं
प्रयुज्य ।
तौ दंपती स्वां प्रति राजधानीं
प्रस्थापयामास वशी वसिष्ठः ॥७०॥
प्रदक्षिणीकृत्य हुतं हुताशं
अनन्तरं भर्तुररुन्धतीं
च ।
धेनुं सवत्सां च नृपः प्रतस्थे
सन्मङ्गलोदग्रतरप्रभावः
॥७१॥
श्रोताभिरामध्वनिना रथेन
स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं
स्वेनेव पूर्णेन मनोरथेन ॥७२॥
तं आहितौत्सुक्यमदर्शनेन
प्रजाः
प्रजार्थव्रतकर्शिताङ्गं ।
नेत्रैः पपुस्तृप्तिमनाप्नुवद्भि-
र्नवोदयं नाथं इवौषधीनाम् ॥७३॥
पुरंदरश्रीः पुरं उत्पताकं
प्रविश्य पौरैरभिनन्द्यमानः
।
भुजे भुजङ्गेन्द्रसमानसारे
भूयः
स भूमेर्धुरं आससञ्ज ॥७४॥
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ठ्यूतमेशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥७५॥
इति महाकवि श्रीकालिदासविरचितं रघुवंशमहाकाव्यस्य
द्वितीयः सर्गः॥२॥
Bahut sundar
जवाब देंहटाएं