Sahitya darpan astam parichchhed (chapter 8) |
गुणानाह---
रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा ।
गुणाः---
यथा खल्वङ्गित्वमाप्तस्यात्मन
उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा
काव्येऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयोऽपि
स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः ।
यथा चैषां
रसमात्रस्य धर्मत्वं तथा दर्शितमेव ।
माधुर्यमोजोऽथ
प्रसाद इति ते त्रिधा ।। सूत्र ८.१ ।।
ते गुणाः ।
तत्र---
चित्तद्रवीभावमयो
ङ्लादो माधुर्यमुच्यते ।
यत्तु--केनचिदुक्तम्--'माधुर्यं द्रुतिकारणम्'
इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन
कार्यत्वाभावात् ।
द्रवीभावश्च
स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन
रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वं ।
तच्च---
संभोगे करुणो
विप्रलम्भे शान्तेऽधिकं क्रमात् ।। सूत्र ८.२ ।।
सम्भोगादिशब्दा उपलक्षणानि । तेन
सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया ।
मूर्ध्नि
वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना ।
रणौ लधू च
तद्व्यक्तौ वर्णाः कारणतां गताः ।। सूत्र ८.३ ।।
अवृत्तिरल्पवृत्तिर्वा
मधुरा रचना तथा ।
यथा---
'अनङ्गमङ्गलभुवस्तदपाङ्गस्य
भङ्गयः ।
जनयन्ति
मुहुर्यूनामन्तः सन्तापसन्ततिम् ।।'
यथा वा मम---
'लताकुञ्जं
गुञ्जन्मदवदलिपुञ्जं चपलय-
न्समालिङ्गन्नङ्गं
द्रुततरमनङ्गं प्रबलयन् ।
मरुन्मन्दं मन्दं
दलितमरविन्दं तरलय-
न्रजोवृन्दं
विन्दन्किरति मकरन्दं दिशि दिशि ।।'
ओजश्चित्तस्य
विस्ताररूपं दीप्तत्वमुच्यते ।। सूत्र ८.४ ।।
वीरबीभत्सरौद्रेषु
क्रमेणाधिक्यमस्य तु ।
अस्यौजसः । अत्रापि वीरादिशब्दा उपलक्षणानि
। तेन वीराभासादावप्यस्यावस्थितिः ।
वर्गस्याद्यतृतीयाभायां
युक्तौ वर्णौ तदन्तिमौ ।। सूत्र ८.५ ।।
उपर्यधो
द्वयोर्वा सरेफौ टठडढैः सह ।
शकारश्च षकारश्र
तस्य व्यञ्जकतां गताः ।। सूत्र ८.६ ।।
तथा समासो बहुलो
घटनौद्धत्यशालिनी ।
यथा---'चञ्चद्भुज--' इत्यादि ।
चित्तं
व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ।। सूत्र ८.७ ।।
स प्रसादः
समस्तेषु रसेषु रचनासु च ।
व्याप्नोति आविष्करोति ।
शब्दास्तद्व्यञ्जका
अर्थबोधकाः श्रुतिमात्रतः ।। सूत्र ८.८ ।।
यथा---
'सूचीमुखेन सकृदेव
कृतव्रणस्त्वं
मुक्ताकलाप लुठसि
स्तनयोः प्रियायाः ।
बाणैः स्मरस्य
शतशो विनिकृत्तमर्मा
स्वप्नेऽपि तां
कथमहं न विलोकयामि ।।'
एषां शब्दगुणत्वं
च गुणवृत्त्योच्यते बुधैः ।
'शरीरस्य शौर्यादिगुणयोग इव इति शेषः ।'
श्लेषः
समाधिरौदार्यः पसाद इति ये पुनः ।। सूत्र ८.९ ।।
गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते ।
ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ)
धर्मविशेषे । तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा । यथा---
'उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः
सर्वाः
पर्वतकन्दरोदरभुवः कुर्वन्प्रतिध्वानिनीः ।
उच्चैरुच्चरति
ध्वनिः श्रुतिपथोन्माथी यथायं तथा
प्रायप्रेंखदसंख्यशङ्खधवला
वेलेयमुद्रच्छति ।।'
अथं बन्धवैकट्यात्मकत्वादोज एव ।
समाधिरारोहावरोहक्रमः । आरोह उत्कर्षः, अवरोहोऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः । यथा---'चञ्चद्भुज--'
इत्यादि । अत्र पदात्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे
त्वपकर्षः । तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता । उदारता विकटत्वलक्षणा ।
विकटत्वं पदानां नृत्यत्प्रायत्वं । यथा---
'सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां
भ्क्तणिति
रणितमासीत्तत्र चित्रं कलं च ।
अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव
शब्दप्रौढोक्तिमात्रेणौजः । प्रसाद ओजोमिश्रितशौथिल्यात्मा । यथा---
'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात्पाण्डवीनां चमूनाम्' इति ।
माधुर्यव्यञ्जकत्वं
यदसमासस्य दर्शितं ।। सूत्र ८.१० ।।
पृथक्पदत्वं
माधुर्यं तेनैवाङ्गीकृतं पुनः ।
यथा---'श्वासान्मुञ्चति-' इत्यादि ।
अर्थव्यक्तेः
प्रसादाख्यगुणेनैव परिग्रहः ।। सूत्र ८.११ ।।
अर्थव्यक्तिः
पदानां हि झटित्यर्थसमर्पणं ।
स्पष्टमुदाहरणं ।
ग्राम्यदुः
श्रवतात्यागात्कान्तिश्च सुकुमारता ।। सूत्र ८.१२ ।।
अङ्गीकृतेति सम्बन्धः । तच्च
हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वं । सुकुमारता अपारुष्यं ।
अनयोरुदाहरणे स्पष्टे ।
क्वचिद्दोषस्तु
समता मार्गाभेदस्वरूपिणी ।
अन्यथोक्तगुणेष्वस्या
अन्तः पातो यथायथं ।। सूत्र ८.१३ ।।
मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य
सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः । स च क्वचिद्दोषः । तथाहि---
'अव्यूढाङ्गमरूढपाणिजठराभोगं
च बिभ्रद्वपुः
पारीन्द्रः
शिशुरेष पाणिपुटके सम्मातु किं तावता ।
उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव-
स्त्रोतः
शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते ।।'
अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो
गुण एव । अनेवंविधस्थाने माधुर्यादावेवान्तः पातः । यथा---'लताकुञ्जं गुञ्जन्-'
इत्यादि ।
ओजः प्रसादो
माधुर्यं सौकुमार्यमुदारता ।
तदभावस्य
दोषत्वात्स्वीकृता अर्थगा गुणाः ।। सूत्र ८.१४ ।।
ओजः साभिप्रायत्वरूपं । प्रसादोर्ऽथवैमल्यं
। माधुर्यमुक्तिवैचित्र्यं सौकुमार्यमपारुष्यं । उदारता अग्रम्यत्वं । एषां
पञ्जानामप्यर्थगुणानां
यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः ।
स्पष्टान्युदाहरणानि ।
अर्थव्यक्तिः
स्वभावोक्त्यालङ्कारेण तथा पुनः ।
रसध्वनिगुणीभूतव्यङ्ग्यानां
कान्तिनामकः ।। सूत्र ८.१५ ।।
अङ्गीकृत इति सम्बन्धः ।
अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वं । कान्तिर्देप्तरसत्वं । स्पष्टे उदाहरणे ।
श्लेषो
विचित्रतामात्रमदोषः समता परं ।
श्लेषः
क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा । तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या
घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रं । अनन्यसाधारणरसोपकरित्वातिशयविरहादिति
भावः । यथा---
'दृष्ट्वैकानसांस्थिते प्रियतमे-' इत्यादि ।
अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते,
'पश्चादुपेत्य' 'नयने पिधाय' 'ईषद्वक्त्रितकन्धरः'
इति चोपपादकानि, एषां योगः । अनेन
च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता । समता च
प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः । स च
प्रक्रमभङ्गरूपविरह एव । स्पष्टमुदाहरणं ।
न गुणत्वं
समाधेश्च---
समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः । तत्रायोनिरर्थो
यथा---
'सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि
नारङ्गकं ।'
अन्यच्छायायोनिर्यथा---
'निजनयनप्रतिविम्बैरम्बुनि
बहुशः प्रतारिता कापि ।
नीलोत्पलेऽपि
विमृशति करमर्पयितुं कुसुमलावी ।।'
अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं
विच्छित्तिविशेषेण निबद्धं । अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वं ।
क्वचित्'चन्द्रम्' इत्येकस्मिन्पदार्थे वक्तव्ये 'अत्रेर्नयनसमुत्थं
ज्योतिः'
इति वाक्यवचनं । क्वचित्'निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्' इति वाक्यार्थे वक्तव्ये 'वरवणिनी' इति पदाभिधानं । क्वचिदेकस्य वाक्यार्थस्य
किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः ।
क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, अपि तुवैचित्र्यमात्रावहत्वं ।
---तेन नार्थगुणाः
पृथक् ।। सूत्र ८.१६ ।।
तेनोक्तप्रकारेण । अर्थगुण ओजः प्रभृतयः
प्रोक्ताः ।
इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।
thanks for a lovly feedback