साहित्यदर्पण, तृतीय परिच्छेद

SOORAJ KRISHNA SHASTRI
By -

 

sahitya darpan chapter 3
sahitya darpan chapter 3

अथ कोऽयं रस इत्युच्यते--

विभावेनानुभावेन व्यक्तः संचारिणा तथा ।

रसतामेति रत्यादिः स्थायीभावः सचेतसां ।। सूत्र ३.१ ।।

 

विभावादयो वक्ष्यन्ते । सात्त्विकाश्चानुभावरूपत्वात्न पृथगुक्ताः। व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते ।

     तदुक्तं लोचनकारैः-- 'रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद्व्यवहारः' इति । अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थं । ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव ।

     तदुक्तम्--

          'रसावस्थः परम्भावः स्थायितां प्रतिपद्यते' इति ।

     अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते--

सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।

वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ।। सूत्र ३.२ ।।

लोकोत्तरचकत्कारप्राणः कैश्चित्प्रमातृभिः ।

 

स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ।। सूत्र ३.३ ।।

 

     'रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते' इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनं । अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः ।

तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तं । तदाह धर्मदत्तः स्वग्रन्थे--

'रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।

तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।

तस्मादद्भुतमेवाह कृती नारायणो रसम् ।।' इति ।

 

     कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्--

          'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम् ।' इति ।

     यद्यपि 'स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः' इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, तथापि 'रसः स्वाद्यते' इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः । तदुक्तम्-'रस्यमानतामात्रसारत्वात्प्रकाशशरीरादनन्य एव हि रसः' इति । कमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः ।

     नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद्द्वयोरैक्यमापतितं । ततश्च--

'स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः ।

यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात् ।।'

 

इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तं । अत एवाहुः-- 'विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः । अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः' इति ।

अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति ।

ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादत्युच्यते--

करुणादावपि रसे जायते यत्परं सुखं ।

सचेतसामनुभवः प्रमाणं तत्र केवलं ।। सूत्र ३.४ ।।

 

     आदिशब्दाद्बीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते--

किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः ।

 

     नहि कश्चत्सचेता आत्मनो दुःखाय प्रवर्त्तते । करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात्सुखमयत्वमेव ।

     अनुपपत्त्यन्तरमाह--

तथा रामायणादीनां भविता दुःखहेतुता ।। सूत्र ३.५ ।।

 

     करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् ।

     ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह--

हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् ।

शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ।। सूत्र ३.६ ।।

अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।

 

सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ।। सूत्र ३.७ ।।

 

     'ये खलु रामवनवासादयो लोके 'दुःखारणानि' इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते ।

तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते । अतश्च 'लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते' इति लोक एव प्रतिनियमः । काव्ये पुन) 'सर्वेभ्योऽपि विभावादिभ्यः सुखमेव जायते' इति नियमान्न कश्चिद्दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते--

अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः ।

 

     तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह--

न जायते तदास्वादो विना रत्यादिवासनां ।। सूत्र ३.८ ।।

 

     वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् । यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् ।

     उक्तञ्च धर्म्मदत्तेन--

'सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।

निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः ।।' इति ।

 

     ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते--

व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः ।

तत्प्रभावेण यस्यासन्पाथोधिप्लवनादयः ।। सूत्र ३.९ ।।

प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते ।

 

     ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते--

उत्साहादिसमुद्वोधः साधारण्याभिमानतः ।। सूत्र ३.१० ।।

नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।

 

     रत्यादयोऽपि साधारण्येनैव प्रतीयान्त इत्याह--

साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ।। सूत्र ३.११ ।।

 

     रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् । परगतत्वेन त्वरस्यतापातः ।

     विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह--

परस्य न परस्येति ममेति न ममेति च ।

तदास्वादे विभावादेः परिच्छेदो न विद्यते ।। सूत्र ३.१२ ।।

 

     ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते--

विभावनादिव्यापारमलौकिकमुपेयुषां ।

अलौकिकत्वमेतेषां भूषणं न तु दूषणं ।। सूत्र ३.१३ ।।

 

     आदिशब्दादनुभावसञ्चारणो । तत्र विभावनं रत्यादेविशेषणास्वादाङ्कुरणयौग्यतानयनं । अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनं । सञ्चारणं तथाभूतस्यैव तस्य सम्यक्चारणं ।

     विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते --

कारण-कार्य-सञ्चारिरूपा अपि हि लोकतः ।

रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ।। सूत्र ३.१४ ।।

 

     ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते--

प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते ।

ततः सम्बलितः सर्वो विभावादिः सचेतसां ।। सूत्र ३.१५ ।।

प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ।

 

     यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः ।

     ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत्कथं तेषामेकस्य द्वयोर्वा सद्भावेऽपि स स्यादित्युच्यते--

सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ।। सूत्र ३.१६ ।।

भ्क्तटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ।

 

     अन्यसमाक्षेपश्च प्रकरणादिवशात् ।

     यथा--

'दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः

सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।

मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली

धन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः ।।'

 

     अत्र मालविकामभिलषतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णनेऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः । एकमन्याक्षेपेऽप्यूह्यं ।

'अनुकार्य्यगतो रसः' इति वदतः प्रत्याह--

पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ।। सूत्र ३.१७ ।।

अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् ।।

 

     सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात्कथं रसरूपतामियात् ।

(क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् ।

अनुकर्त्तृगतत्वञ्चास्य निरस्यति--

शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपतां ।। सूत्र ३.१८ ।।

दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् ।

 

किञ्च--

काव्यार्थभावनेनायमपि सभ्यपदास्पदं ।। सूत्र ३.१९ ।।

 

     यदि पुनर्नटोऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत्तदा सोऽपि सभ्यमध्य एव गण्यते ।

नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः ।

 

     यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा; प्रतीतिमन्तरेणाभावात् ।

यस्मादेष विभावादिसमूहालम्बनात्मकः ।। सूत्र ३.२० ।।

तस्मान्न कार्यः--

 

     यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् । ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् । नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति । रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः ।

नो नित्यः पूर्वसंवेदनोज्झितः ।

असंवेदनकाले हि न भावोऽष्यस्य विद्यते (क) ।। सूत्र ३.२१ ।।

 

न खलु नित्यस्य वस्तुनोऽसंवेदनकालेऽसम्भवः ।

नापि भविप्यन्साक्षादानन्दमयस्वप्रकाशरूपत्वात् ।

कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानोऽपि ।। सूत्र ३.२२ ।।

विभावादिपरामर्शविषयत्वात्सचेतसां ।

परानन्दमयत्वेन संवेद्यत्वादपि स्फुटं ।। सूत्र ३.२३ ।।

न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते ।

तथाभिलापसंसर्गयोग्यत्वविरहान्न च ।। सूत्र ३.२४ ।।

सविकल्पकंसंवेद्यः--

 

सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।

--साक्षात्कारतया न च ।

परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ।। सूत्र ३.२५ ।।

 

तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह--

तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयं ।

 

तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह--

प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतं ।। सूत्र ३.२६ ।।

 

     चर्वणा आस्वादनं । तच्च 'स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः' इत्युक्तप्रकारं ।

     ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति लक्षणं कृतमित्युच्यते--

निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः ।

 

     यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते ।

अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ।। सूत्र ३.२७ ।।

 

     तस्य रसस्य । आदिशब्दादलक्ष्यत्वादि । ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह--

रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् ।

अतोऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ।। सूत्र ३.२८ ।।

 

     यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् ।यदुक्तम्-- 'यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावेऽपि व्यवहार इति भावः' इति । 'सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः' इति च । 'अभिन्नोऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः' इति च । ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः ।

तादात्म्यादेवास्याखण्डत्वं ।

     रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वेऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते । तदुक्तं --

'विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।

प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम् ।।' इति ।

 

     'परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः' इति च ।

     अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह--

रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः ।

 

     ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः 'विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः' इति विभावा उच्यन्ते ।

तदुक्तं भर्त्तृहरिणा--

'शब्दोपहितरूपांस्तान्बुद्धेर्विषयतां गतान् ।

प्रत्यक्षानिव कंसादीन्साधनत्वेन मन्यते ।।' इति ।

 

     तद्भेदावाह--

आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।

 

     स्पष्टं ।

     तत्र--

आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ।। सूत्र ३.२९ ।।

 

     आदिशब्दान्नायिकाप्रतिनायिकादयः ।अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते । तत्र नायकः--

त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही ।

दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ।। सूत्र ३.३० ।।

 

दक्षः क्षिप्रकारी । शीलं सद्वृतं । एवमादिगुणसम्पन्नो नेता नायको भवति ।

     तद्भेदानाह--

धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।

धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ।। सूत्र ३.३१ ।।

 

     स्पष्टं ।

     तत्र धीरोदात्तः--

अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः ।

स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ।। सूत्र ३.३२ ।।

 

     अविकत्थनोऽनात्मश्लाघाकरः । महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः । निगूढमानो विनयच्छन्नगर्वः । दृढव्रतोऽङ्गीकृतनिर्वाहकः ।

     यथा--रामयुधिष्टिरादिः ।

     अथ धीरोद्धतः--

मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः ।

आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ।। सूत्र ३.३३ ।।

 

     यथा--भीमसेनादिः।

     अथ धीरललितः--

निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।

 

कला नृत्यादिका । यथा--सत्नवाल्यादौ वत्सराजादिः ।

अथ धीरप्रशान्तः--

सामान्यगुणैर्भूयान्द्विजादिको धीरप्रशान्तः स्यात् ।। सूत्र ३.३४ ।।

 

     यथा--मालतीमाधवादौ माधवादिः ।

     एषां च शृङ्गारादिरूपत्वे भेदानाह--

एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।

 

     तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः ।

एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ।। सूत्र ३.३५ ।।

 

     द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।

     यथा--

स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु-

र्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च ।

इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते

देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ।।

 

कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः ।

दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ।। सूत्र ३.३६ ।।

 

यथा मम--

शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः

पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।

किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे

ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ।।

अनुकूल एकनिरतः--

एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः ।

यथा--

अस्माकं सखि वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं,

नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः ।

किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो

दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितं ।।

शठोऽयमेकत्र बद्धभावो यः ।

दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ।। सूत्र ३.३७ ।।

 

     यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः ।

     यथा--

'शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा

यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।

तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो-

विषेणाघूर्णन्ती किमपि न सखी मे गणयति ।।'

 

एषां च त्रैविध्यादुत्तममध्याधमत्वेन ।

उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ।। सूत्र ३.३८ ।।

 

     एषामुक्तषोडशभेदानां ।

     अथ प्रसङ्गादेतेषां सहायानाह--

दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु ।

किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ।। सूत्र ३.३९ ।।

 

     तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्तेऽनन्तरोक्तैर्नायकसामान्यगुणैः किञ्चिदूनः पीठमर्द्दनामासहायो भवति । यथा -रामचन्द्रादीनां सुग्रीवादयः ।

     अथ शृङ्गारसहायाः--

शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः ।

भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ।। सूत्र ३.४० ।।

 

     आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः ।

     तत्र विटः--

संभोगहीनसंपद्विटस्तु धूर्त्तः कलैकदेशज्ञः ।

वेशोपचारकुशलो वाग्ग्मी मधुरोऽथ बहुमतो गोष्ठ्यां ।। सूत्र ३.४१ ।।

 

     चेटः प्रसिद्ध एव ।

कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।

हास्यकरः कलहरतिर्विदूषकः स्यात्स्वकर्मज्ञः ।। सूत्र ३.४२ ।।

 

     स्वकर्म हास्यादि ।

     अर्थचिन्तने सहायमाह--

मन्त्रीस्यादर्थानां चिन्तायां--

 

     अर्थास्तन्त्रावापादयः । यत्त्वत्र सहायकथनप्रस्तावे-- 'मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने' इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो । 'नायकस्यार्थचिन्तने मन्त्री सहायः' इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् । यदप्युक्तम्-- 'मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः' इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थं । न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः; तस्यार्थचिन्तनाद्यभावात् ।

अथान्तः पुरसहायाः--

                                                                                                      तद्वदवरोधे ।

 

वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ।। सूत्र ३.४३ ।।

मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।

 

सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ।। सूत्र ३.४४ ।।

 

     आद्यशब्दान्मूकादयः । तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्--

नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-

मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।

पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं

कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ।।

 

     शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं ज्ञातव्याः ।

     अथ दण्डसहायाः--

     दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।

     दुष्टनिग्रहो दण्डः । स्पष्टं ।

     ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ।। सूत्र ३.४५ ।।

     ब्रह्मविदो वेदविदः, आत्मविदो वा ।

     अत्र च--

     उत्तमाः पीठमर्दाद्याः--

     आद्यशब्दान्मन्त्रिपुरोहितादयः ।

                                                                                             --मध्यौ विटविदूषकौ ।

     तथा शकारचेटाद्या अधमाः परिकीर्तिताः ।। सूत्र ३.४६ ।।

     आद्यशब्दात्ताम्बूलिकगान्धिकादयः ।

     अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह--

     निसृष्टार्थो मितार्थश्च तथा संदेशहारकः ।

     कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ।। सूत्र ३.४७ ।।

तत्र कार्यप्रेष्यो दूत इति लक्षणं ।

     तत्र--

     उभयोर्भावमुन्नीय स्वयं वदति चोत्तरं ।

     सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ।। सूत्र ३.४८ ।।

उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च ।

     मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः ।

     यावद्भाषितसंदेशहारः संदेशहारकः ।। सूत्र ३.४९ ।।

     अथ सात्त्विकनायकगुणाः--

     शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ।

     ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ।। सूत्र ३.५० ।।

     तत्र--

     शूरता तक्षता सत्यं महोत्साहोऽनुरागिता ।

     नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ।। सूत्र ३.५१ ।।

     तत्रानुरागिता यथा--

     अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।

     उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ।।

एवमन्यदपि ।

     अथ विलासः--

     धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।

     यथा--

दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा

धीरोद्धता नमयतीव गतिर्धरित्रीं ।

कौमारकेऽपि गिरिवद्गुरुतां दधानो

वीरो रसः किमयमेत्युत दर्प एव ।।

 

     संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितं ।। सूत्र ३.५२ ।।

     ऊह्यमुदाहरणं ।

     भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।

     यथा--

    

आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।

     न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ।।

 

     व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ।। सूत्र ३.५३ ।।

     यथा-

     श्रुताप्सरोगीतिरप क्षणोऽस्मिन्हरः प्रसंख्यानपरो बभूव ।

     आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ।।

अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।

प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतं ।। सूत्र ३.५४ ।।

वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितं ।

 

दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ।। सूत्र ३.५५ ।।

 

     एषामुदाहरणान्यूह्यानि ।

अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति ।

नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ।। सूत्र ३.५६ ।।

 

     नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति ।

सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा ।

     तत्र स्वस्त्री--

विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।

 

     यथा--

'लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंइं ।

अविणादुम्मेधाइं धण्णाण घरे कलत्ताइं ।।

 

     सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ।। सूत्र ३.५७ ।।

     तत्र--

     प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा ।

     कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ।। सूत्र ३.५८ ।।

     तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्--

मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता

दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति ।

कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा-

दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ।।

 

     प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये--

दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्,

नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि,

किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते,

सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीं ।।

 

      रतौ वामा यथा--

'दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता,

शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते ।

निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते,

जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया ।।'

 

     माने मृदुर्यथा--

'सा पत्युः प्रथमापराधसमये सख्योपदेशं विना

नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनं ।

स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला

बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।।

 

समधिकलज्जावती यथा--

'दत्ते सालसमन्थरम्--ऽइत्यत्र (११३ पृ-) श्लोके ।

 

     अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनं ।

     अथ मध्या--

मध्या विचित्रसुरता प्ररूढस्मरयौवना ।

ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ।। सूत्र ३.५९ ।।

 

     विचित्रसुरता यथा--

'कान्ते तथा कथमपि प्रथितं मृगाक्ष्या

चातुर्यमुद्धतमनोभवया रतेषु ।

तत्कूजितान्यनुवदद्भिरनेकवारं

शिष्यायितं गृहकपोतशतैर्यथास्याः ।।'

 

     प्ररूढस्मरा यथात्रैवोदाहरणो ।

     प्ररूढयोवना यथा मम--

'नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं,

वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः ।

कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी,

स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ।।'

 

एवमन्यत्रापि ।

     अथ प्रगल्भा--

स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।

भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ।। सूत्र ३.६० ।।

 

     स्मरान्धा यथा--

'धन्यासि या कथयसि प्रियसंगमेऽपि

विश्रब्धचाटुकशतानि रतान्तरेषु ।

नीवीं प्रति प्रणिहिते तु करे प्रियेण

सख्यः शपामि यदि किंचदपि स्मरामि(क) ।।'

 

     गाढतारुण्या यथा--

'अत्युन्नतस्तनमुरो नयने सुदीर्घे,

वक्रे भ्रुवावतितरां, वचनं ततोऽपि ।

मध्योऽधिकं तनुरनूनगुरुर्नितम्बो,

मन्दा गतिः किमपि चाद्भुतयौवनायाः ।।'

 

     समस्तरतकोविदा यथा--

'क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः

क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः ।

वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः

स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ।।'

 

     भावोन्नता यथा--

'मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै

रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।

असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै-

स्भिभुवनजये सा पञ्चेषोः करोति सहायताम् ।।'

 

     स्वल्पब्रीडा यथा--

'धन्यासि या कथयसि'--

 

     इत्यत्रेव (११६ पृ दृ) आक्रान्तनायका यथा--

स्वामिन्भङ्गुरयालकं, सतिलकं भालं विलासिन्कुरु,

प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय ।

इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना

स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम् ।।'

 

     मध्याप्रगल्भयोर्भेदान्तराण्याह--

ते धीरा चाप्यधीरा च धीराधीरेति षङ्विधे ।

 

     ते मध्याप्रगल्भे ।

     तत्र--

प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेदुषा ।। सूत्र ३.६१ ।।

धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ।

 

     तत्र मध्या धीरा यथा--

'तदवितथमवादीर्यन्मम त्वं प्रियेति

प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।

मदधिवसतिमागाः कामिनां मण्डनश्रीर्-

व्रजति हि सफलत्वं वल्लभालोकनेन ।।'

 

     मध्यैव धीराधीरा यथा--

'बाले नाथ विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं,

खेदोऽस्मासु, न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।

तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते,

नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ।।'

 

     इयमेवाधीरा यथा--

'सार्धं मनोरथशतैस्तव धूर्त कान्ता

सैव स्थिता मनसि कृत्रिमहावरम्या ।

अस्माकमस्ति नहिं कश्चिदिहावकाश-

रस्तस्मात्कृतं चरणणतविडम्बनाभिः ।।'

 

प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ।। सूत्र ३.६२ ।।

उदास्ते सुरते तत्र दर्शयन्त्यादरान्बहिः ।

 

     तत्र प्रिये ।

     यथा--

'एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत-

स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।

आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके

कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः ।।'

 

धीराधीरा तु सोल्लुण्ठभाषैतैः खेदयत्यमुं ।। सूत्र ३.६३ ।।

 

     अमुं नायकं ।

     यथा मम--

'अनलङ्कृतोऽपि सुन्दर ? हरसि मनो मे यतः प्रसभं ।

किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः ।।'

 

          तर्जयेत्ताडयेदन्या--

     अन्या अधीरा । यथा-'शोणं वीक्ष्य मुखं-' इत्यत्र । अत्र च सर्वत्र 'रुषा' इत्यनुवर्तते ।

प्रत्येकं ता अपि द्विधा ।

कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ।। सूत्र ३.६४ ।।

 

     ता अनन्तरोक्ताः षड्भेदा नायिकाः ।

     यथा--

'दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-

देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।

ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-

मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ।।'

मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीतिंताः ।

मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ।। सूत्र ३.६५ ।।

परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।

 

     तत्र--

यात्रादिनिरतान्योढा कुलटा गलितत्रपा ।। सूत्र ३.६६ ।।

 

     यथा--

'स्वामी निः श्वसितेऽप्यसूयति, मनोजिघ्रः सपत्नीजनः,

श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः ।

तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते,

वैदग्धीमधुरप्रबन्धरसिक व्यर्थोऽयमत्र श्रमः ।।'

 

      अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः । त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभोऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते ।

कन्या त्वजातोपयमा सलज्जानवयौवना ।

     अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वं । यथा मालतीमाधवादौ मालत्यादिः ।

धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ।। सूत्र ३.६७ ।।

निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।

वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः ।। सूत्र ३.६८ ।।

काममङ्गीकृतमपि परिक्षीणधनं नरं ।

मात्रा निः सारयेदेषा पुनः संधानकाङ्क्षया ।। सूत्र ३.६९ ।।

तस्कराः पण्डका मूर्खाः सुखप्राप्तधनस्तथा ।

लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः ।। सूत्र ३.७० ।।

एषापि मदनायत्ता क्वापि सत्यानुरागिणि ।

 

रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभं ।। सूत्र ३.७१ ।।

 

     पण्डको वातपाण्ड्वादिः । छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः । तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः । रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः ।

     पुनश्च--

अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।

स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ।। सूत्र ३.७२ ।।

कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।

 

अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा ।। सूत्र ३.७३ ।।

 

     तत्र--

कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकं ।

विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ।। सूत्र ३.७४ ।।

 

     यथा-- 'अस्माकं सखि वाससी--ऽइत्यादि ।

पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः ।

सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ।। सूत्र ३.७५ ।।

 

     यथा-- 'तदवितथमवादीः--' इत्यादि ।

अभिसारयते कान्तं या मन्मथवशंवदा ।

स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ।। सूत्र ३.७६ ।।

 

     क्रमाद्यथा--

     न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।

     निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति संदिदिशे ।।

'उत्क्षिप्तं करकङ्कणद्वयमिदं, बद्धा दृढं मेखला,

यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता ।

आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे,

चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ।।'

संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।

अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ।। सूत्र ३.७७ ।।

विचित्रोज्ज्वलवेषा तु रणन्नूपुकङ्कणा ।

प्रमोदस्मेरवदना स्याद्वेश्यभिसरेद्यदि ।। सूत्र ३.७८ ।।

मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।

 

आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ।। सूत्र ३.७९ ।।

 

     तत्राद्ये 'उत्क्षिप्तम्' इत्यादि । अन्ययोः ऊह्यमुदाहरणं ।

     प्रसङ्गादभिसारस्थानानि कथ्यन्ते--

क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनं ।

मालापञ्चः श्मशानं च नद्यादीनां तटी तथा ।। सूत्र ३.८० ।।

एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।

स्थानान्यष्टौ तथा ध्वान्तच्छन्ने कुत्रचिदाश्रये ।। सूत्र ३.८१ ।।

चाटुकारमपि प्राणनाथं राषादपास्य या ।

 

पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ।। सूत्र ३.८२ ।।

 

     यथा मम तातपादानाम्--

'नो चाटुश्रवणं कृतं, न च दृशा हारोऽन्तिके वीक्षितः,

कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः ।

पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया

पाणिभ्यामवरुध्य इन्त सहसा कण्ठे कथं नार्पितः ।।'

प्रियः कृत्वापि संकेतं यस्या नायाति संनिधिं ।

 

विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ।। सूत्र ३.८३ ।।

 

    यथा--

'उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः ।

यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः ।।'

नानाकार्यवशाद्यस्या दूरदेशं गतः पतिः ।।

 

सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ।। सूत्र ३.८४ ।।

 

     यथा--

'तां जानीयाः परिमितकथां जीवितं मे द्वितीयं

दूरीभूते मयि सहचरे चक्रवाकीमिवैकां ।

गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां

जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ।।'

कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।

 

सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ।। सूत्र ३.८५ ।।

 

     यथा राघवानन्दानां नाटके--

'विदूरे केयूरे कुरु, करयुगे रत्नवलयै-

रलं, गुर्वो ग्रीवाभरणलतिकेयं किमनया ।

नवामेकामेकावलिमयि मयि त्वं विरचयेर्-

न नेपथ्यं बहुतरमनङ्गोत्सवविधौ ।।'

 

आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः ।

तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ।। सूत्र ३.८६ ।।

 

यथा--

'किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः,

किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः ।

इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं

दीर्घं निः श्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्त्रजः ।।'

इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण ।

 

चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ।। सूत्र ३.८७ ।।

 

 

     इह च 'परस्त्रियौ कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधींनप्रिययोरवस्थान्तरायोगात् ।' इति कश्चित् ।

क्वचिदन्योन्यसाङ्कर्यमासं लक्ष्येषु दृश्यते ।

 

     यथा--

     'न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।

     विट विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः ॥'

     तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः ।

     ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ।।'

     मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनां ।

     वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ।।'

     'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।

     श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ।।'

     इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः संकीर्णा । एकमन्यत्राप्यूह्यं ।

इतरा अप्यसंख्यास्ता नोक्ता विस्तरश्ङ्कया ।। सूत्र ३.८८ ।।

 

     ता नायिकाः ।

     अथासामलङ्काराः--

यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।

अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ।। सूत्र ३.८९ ।।

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।

औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ।। सूत्र ३.९० ।।

लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितं ।

मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ।। सूत्र ३.९१ ।।

विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलं ।

हसितं चकितं केलिरित्यष्टादशसंख्यकाः ।। सूत्र ३.९२ ।।

स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि ।

 

     पूर्वे भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति । किंतु सर्वेऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति ।

     तत्र भावः--

निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ।। सूत्र ३.९३ ।।

 

     जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः ।

     यथा--

'स एव सुरभिः कालः स एव मलयानिलः ।

सैवेयमबला किंतु मनोऽन्यदिव दृश्यते ।।'

 

     अथ हावः--

भ्रूनेत्रादिविकारैस्तु संभोगेञ्छाप्रकाशकः ।

भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ।। सूत्र ३.९४ ।।

 

     यथा--

     'विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।

     साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ।।'

     अथ हेला--

हलात्यन्तसमालक्ष्यविकारः स्यात्स एव तु ।

 

     स एव भाव एव ।

     यथा--

'तह ते भ्क्तत्ति पौत्ता वहुए सव्वङ्गविब्भमा साला ।

संसै अमुद्धभावा होइ चिरं जै सहीणं पि ।।'

 

     अथ शोभा--

         रूपयौवनलालित्यभोगाधैरङ्गभूषणं ।। सूत्र ३.९५ ।।

         शोभा प्रोक्ता--

     तत्र यौवनशोभा यथा--

     'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।

     कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।।'

एवमन्यत्रापि ।

     अथ कान्तिः--

सैव कान्तिर्मन्यथाष्यायितद्युतिः ।

 

     मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते ।

     यथा--'नेत्रे खञ्जनगञ्जने--' इत्यत्र ।

     अथ दीप्तिः--

कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ।। सूत्र ३.९६ ।।

 

     यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्--

'तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः ।

धरणितलस्याभरणं युवजनमनसो वशीकरणम् ।।'

 

     अथ माधुर्यम्--

सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ।

 

     यथा--

'सरसिजमनुविद्धं शैवलेनापि रम्यं

मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति ।

इयमधिकमनोज्ञा वल्कलेनापि तन्वी

किमि हि मधुरणां मण्डनं नाकृतीनाम् ।।'

 

     अथ प्रगल्भता--

निःसाध्वसत्वं प्रागलभ्यम्--

 

     यथा--

'समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि ।

दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः ।।'

 

     अथौदार्यम्--

--औदार्यं विनयः सदा ।। सूत्र ३.९७ ।।

 

     यथा--

'न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरं,

नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि ।

कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः

सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने ।।'

 

     अथ धैर्यम्--

मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला ।

 

     यथा--

'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी,

दहतु मदनः, किंवा मृत्योः परेण विधास्यति ।

मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया

कुलममलिनं न त्वेवायं जनो न च जीवितम् ।।'

 

     अथ लीला--

अङ्गैर्वेषैरलङ्कारैः प्रेमिभिर्वचनैरपि ।। सूत्र ३.९८ ।।

प्रीतिप्रयोजितैर्लोलां प्रियस्यानुकृतिं विदुः ।

 

     यथा--

मृणालव्यालवलया वेणीबन्धकपर्दिनी ।

हारनुकारिणी पातु लीलया पार्वती जगत् ।।

 

     अथ विलासः--

यानस्थानासनादीनां मुखनेत्रादिकर्मणां ।। सूत्र ३.९९ ।।

विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना ।

 

     यथा--

'अत्रान्तरे किमपि वाग्विभवातिवृत्त-

वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।

तद्भूरिसात्त्विकविकारमपास्तधैर्य-

माचार्यकं विजयि मान्मथमाविरासीत् ।।'

 

     अथ विच्छत्तिः--

स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।

 

     यथा--

'स्वच्छाम्भः स्नपनविधौतमङ्गमोष्ट-

स्ताम्बूलद्युतिविशदो विलासिनीनां ।

वासस्तु प्रतनु विविक्तमस्त्वितीया-

नाकल्पो यदि कुसुमेषुणा न शून्यः ।।'

 

     अथ विव्वोकः--

विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ।। सूत्र ३.१०० ।।

 

     यथा--

'यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा,

याः प्राणान्वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये ।

अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक-

स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते ।।'

 

     अथ किलकिञ्चितम्--

स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनां ।

साङ्कर्यं किलाकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ।। सूत्र ३.१०१ ।।

 

     यथा--

     'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।

     कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ।।'

     अथ मोट्टायितम्--

तद्भावभाविते चित्ते वल्लभस्य कथादिषु ।

मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकं ।। सूत्र ३.१०२ ।।

 

      यथा--

'सुभग त्वत्कथारम्भे कर्णकण्डूतिलालसा ।

उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना ।।'

 

     अथ कुट्टमितम्--

केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।

आहुः कुट्टमितं नाम शिरः करविधूननं ।। सूत्र ३.१०३ ।।

 

     यथा--

'पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।

पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ।।'

 

     अथ विभ्रमः--

त्वरया हर्षरागादेर्दयितागमनादिषु ।

अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ।। सूत्र ३.१०४ ।।

 

     यथा--

'श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया ।

भलेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ।।'

 

     अथ ललितम्--

सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।

 

     यथा--

'गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा ।

इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ।।'

 

    अथ मदः--

मदो विकारः सौभग्ययौवनाद्यवलेपजः ।। सूत्र ३.१०५ ।।

 

    यथा--

'मा गर्वमुद्वह कपोलतले चकास्ति

कान्तस्वहस्तलिखिता मम मञ्जरीति ।

अन्यापि किं न खलु भाजनमीदृशीनां

वैरी न चेद्भवति वेपथुरन्तरायः ।।'

 

    अथ विहृतम्--

वक्तव्यकालेऽप्यवचो व्रीडया विहृतं मतं ।

 

    यथा--

'दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् ।

पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम् ।।'

 

    अथ तपनम्--

तपनं प्रियविच्छेदे स्मरवेगोत्थचेष्टितं ।। सूत्र ३.१०६ ।।

 

    यथा मम--

'श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते,

दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीं ।

किञ्च, प्राणसमान ,काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं

निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि ।।'

 

     अथ मौग्ध्यम्--

अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ।

वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ।। सूत्र ३.१०७ ।।

 

     यथा--

'के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः ।

नाय मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम् ।।'

 

     अथ विक्षेपः--

भूषाणामर्धरचना मिथ्या विष्वगवेक्षणं ।

रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ।। सूत्र ३.१०८ ।।

 

     यथा--

'धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलं ।

किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ।।

 

     अथ कुतूहलम्--

रम्यवस्तुसमालोके लोलता स्यात्कुतूहलं ।

 

     यथा--

'प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।

उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान ।।'

 

     अथ हसितम्--

हसितं तु वृथाहासो यौवनोद्भेदसम्भवः ।। सूत्र ३.१०९ ।।

 

     यथा--

'अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।

नूनं प्रसूनवाणोऽस्यां स्वराज्यमधितिष्ठति ।।

 

    अथ चकितम्--

कुतोऽपि दयितस्याग्रे चकतं भयसम्भ्रमः ।

 

     यथा--

'त्रस्यन्ती चलशफरीविघट्टितोरू-

र्वामोरूरतिशयमाप विभ्रमस्य ।

क्षुभ्यन्ति प्रसभमहो विनापि हेतो-

र्लोलाभिः किमु सति कारणो तरुण्यः ।।

 

     अथ केलिः--

विहारे सह कान्तेन क्रीडितं कोलिरुच्यते ।। सूत्र ३.११० ।।

 

     यथा--

'व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।

पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ।।'

 

     अथ मुग्धाकन्ययोरनुरागेङ्गितानि--

दृष्टवा दर्शयति व्रीङां सम्मुखं नैव पश्यति ।

प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियं ।। सूत्र ३.१११ ।।

बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी ।

सगद्रदस्वरं किञ्चित्प्रियं प्रायेण भाषते ।। सूत्र ३.११२ ।।

अन्यैः प्रवर्तितां शश्वत्सावधाना च तत्कथां ।

 

शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ।। सूत्र ३.११३ ।।

 

     अथ सकलानामपि नायिकानामनुरागेङ्गितानि--

चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।

विलोचनपथं चास्य न गच्छत्यनलङ्कृता ।। सूत्र ३.११४ ।।

क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः ।

बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत्स्फुटं ।। सूत्र ३.११५ ।।

आच्छादयति वागाद्यैः प्रियस्य परिचारकान् ।

विश्वसित्यस्य मित्रेषु बहुमानं करोति च ।। सूत्र ३.११६ ।।

सखीमघ्ये गुणान्ब्रूते स्वधनं प्रददाति च ।

सुप्ते स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे सुखं ।। सूत्र ३.११७ ।।

स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः ।

आभाषते परिजनं सम्मुखं स्मरिविक्रियं ।। सूत्र ३.११८ ।।

यत्किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा ।

कर्णकण्डूयनं तद्वत्कबरीमोक्षसंयमौ ।। सूत्र ३.११९ ।।

जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति ।

भाले तथा वयस्याया रचयेत्तिलकक्रियां ।। सूत्र ३.१२० ।।

अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।

दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ।। सूत्र ३.१२१ ।।

न मुञ्चति च तं देशं नायको यत्र दृश्यते ।

आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ।। सूत्र ३.१२२ ।।

दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते ।

नित्यं हष्यति तद्योगे वियोगे मलिना कृशा ।। सूत्र ३.१२३ ।।

मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियं ।

प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ।। सूत्र ३.१२४ ।।

विकारान्सात्त्विकानस्य सम्मुखी नाधिगच्छति ।

भाषते सूनृतं स्निग्धामनुरक्ता नितम्बिनी ।। सूत्र ३.१२५ ।।

एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः ।

मध्यव्रीडानि मध्यायाः स्त्रंसमानत्रपाणि तु ।। सूत्र ३.१२६ ।।

आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ।

 

दिङ्मात्रं यथा मम--

'अन्तिकगतमपि मामियमवलोकयतीव इन्त दृष्ट्वापि ।

सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम् ।।'

 

     तथा--

लेख्यप्रस्थापनैः स्निग्धैर्वोक्षितैर्मृदुभाषितैः ।। सूत्र ३.१२७ ।।

दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते ।

 

     दूत्यश्च--

दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ।। सूत्र ३.१२८ ।।

बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा ।

 

कारू रजकीप्रभृतिः । शिल्पिनी चित्रकारादिस्त्री । आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः ।

     तत्र सखी यथा-- 'श्वासान्मुञ्चति--' इत्यादि ।

     स्वयंदूती यथा मम--

     'पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो । ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणं ।।'

      एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति ।

      दूतीगुणानाह--

कलाकौश्लमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।। सूत्र ३.१२९ ।।

माधुर्यं नर्मविज्ञानं वाग्मिता चेत तद्गुणाः ।

 

एत अपि यथैचित्यादुत्तमाधममध्यमाः ।। सूत्र ३.१३० ।।

 

एतादूत्यः ।

अथ प्रतिनायकः--

धीरोद्धतः पापकारी व्यसनी प्रतिनायकः ।

 

यथा रामस्य रावणः ।

अथेद्दीपनविभावाः--

उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ।। सूत्र ३.१३१ ।।

 

ते च--

आलम्बनस्य चेष्टाद्या देशकालादयस्तथा ।

 

     चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः । कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरभ्क्तंकारादयः ।

     तत्र चन्द्रोदयो यथा मम--

     'करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य ।

     विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ।।'

     यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते ।

     अथानुभावाः--

उद्बुद्धं कारणैः स्वैबहिर्भावं प्रकाशयन् ।। सूत्र ३.१३२ ।।

लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः ।

 

      यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन्कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः ।

      कः पुनरसावित्याह--

उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ।। सूत्र ३.१३३ ।।

तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि ।

 

      तद्रूपा अनुभावस्वरूपाः । तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते ।

      तत्र सात्त्विकाः--

विकाराः सत्त्वसंभूताः सात्त्विकाः परिकीर्तिताः ।। सूत्र ३.१३४ ।।

 

     सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः ।

सत्त्वमात्रोद्भवत्वात्ते भिन्ना अष्यनुभावतः ।

 

     'गोबलीवर्द्दन्ययेन' इति शेषः ।

     के त इत्याह--

स्तम्भः स्वेदोऽथ लोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।। सूत्र ३.१३५ ।।

वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ।

 

     तत्र--

स्तम्भश्चेष्टाप्रतीघातो भहर्षामयादिभिः ।। सूत्र ३.१३६ ।।

वपुर्जलोद्रमः स्वेदो रतिघर्मश्रमादिभिः ।

हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ।। सूत्र ३.१३७ ।।

मदसंमदपीडाद्यैर्वैस्वर्यं गद्रदं विदुः ।

रागद्वेषश्रणादिभ्यः कम्पो गात्रस्य वेपथुः ।। सूत्र ३.१३८ ।।

विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता ।

अश्रु नेत्रोद्रवं वारि क्रोधदुःखप्रहर्षजं ।। सूत्र ३.१३९ ।।

प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ।

 

     यथा मम--

'तनुस्पर्शादस्या दरमुकुलिते हन्त नयने

उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलं ।

कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं

मनः सान्द्रानन्दं स्पृशति भ्क्तटिति ब्रह्म परमम् ।।'

 

एवमन्यत् ।

     अथ व्यभिचारिणः--

विशेषादाभिमुख्येन चरणाद्व्यभिचारिणः ।

स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ।। सूत्र ३.१४० ।।

 

     स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद्व्यभिचारिणः कथ्यन्ते ।

के त इत्याह--

निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः

स्वष्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।

औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधूतिचपलता ग्लानिचिन्तावितर्काः ।। सूत्र ३.१४१ ।।

     तत्र निर्वेदः--

तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननं ।

दैन्यचिन्ताश्रुनिः श्वासवैवर्ण्योच्छवसितादिकृत् ।। सूत्र ३.१४२ ।।

 

     तत्त्वज्ञानान्निर्वेदो यथा--

'मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना ।

दक्षिणावर्तशङ्खोऽयं हन्त चूर्णोकृतो मया ।।'

 

    अथावेगः--

आवेगः संभ्रमस्तत्र वर्षजे पिण्डिताङ्गता ।

उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ।। सूत्र ३.१४३ ।।

राजविद्रवजादेस्तु शस्त्रनागादियोजनं ।

गजादेः स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात् ।। सूत्र ३.१४४ ।।

इष्टाद्धर्षाः, शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथं ।

 

     तत्र शत्रुजो यथा--

'अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।

क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम् ।।'

 

एवमन्यदूह्यं ।

     अथ दैन्यम्--

दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ।। सूत्र ३.१४५ ।।

 

     यथा--

'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं,

कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।

यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला

दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति ।।'

 

     अथ श्रमः--

खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।

 

     यथा--

'सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी

सीता जवात्र्त्रिचतुराणि पदानि गत्वा ।

गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा

रामाश्रुणः कृतवती प्रथमावतारम् ।।'

 

     अथ मदः--

संमोहानन्दसंभेदो मदो मद्योपयोगजः ।। सूत्र ३.१४६ ।।

अमुना चोत्तमः शेते मध्यो हसति गायति ।

 

अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ।। सूत्र ३.१४७ ।।

 

     यथा--

'प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः ।

गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ।।'

 

अथ जडता--

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।

अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ।। सूत्र ३.१४८ ।।

 

     यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये--

     'णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिंठ ।

     आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णां ।।'

     अथोग्रता--

शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।

तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ।। सूत्र ३.१४९ ।।

 

     यथा--

'प्रणयिसखीसलीलपरिहासरसाधिगत-

र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।

वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः

पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ।।'

 

     अथ मोहः--

मोहो विचित्तता भीतिदुः खावेगानुचिन्ततैः ।

मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ।। सूत्र ३.१५० ।।

 

     यथा--

'तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणां

अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ।।'

 

     अथ विबोधः--

निद्रापगमहेतुभ्यो विबोधश्चेतनागमः ।

जम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ।। सूत्र ३.१५१ ।।

 

     यथा--

'चिररतिपरिखेदप्राप्तनिद्रासुखानां

चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।

अपरिचलितगात्राः कुर्वते न प्रियाणा-

मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ।।'

 

     अथ स्वप्नः--

स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः ।

कोपावेगभयग्लानिसुखदुः खादिकारकः ।। सूत्र ३.१५२ ।।

 

     यथा--

'मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्-

लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन ।

पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां

मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ।।'

 

     अथापस्मारः--

मनःक्षेपस्त्वपस्मारा ग्रहाद्यावेशनादिजः ।

भूपातकम्पप्रस्वेदफेनलालादिकारकः ।। सूत्र ३.१५३ ।।

'आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गं ।

फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ।।'

 

     अथ गर्वः--

गर्वो मदः प्रभावश्रीर्विद्यासत्कुलतादिजः ।

अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ।। सूत्र ३.१५४ ।।

 

     तत्र शौर्यगर्वो यथा--

'धृतायुधो यावदहं तावदन्यैः किमायुधैः ।

यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम् ।।'

 

     अथ मरणम्--

शराद्यैर्मरणं जीवत्यागोऽङ्गपतनादिकृत् ।

 

     यथा--

'राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी ।

गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ।।'

 

     अथालस्यं --

आलस्यं श्रमगर्भाद्यैर्जाड्यं जम्भासितादिकृत् ।। सूत्र ३.१५५ ।।

 

     यथा--

'न तथा भूषयत्यङ्ग न तथा भाषते सखीं ।

जृम्भते मुहुरासीना बाला गर्भभरालसा ।।'

 

     अथामर्षः--

 

निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता ।

नेत्ररागशिरः कम्पभ्रूभङ्गोत्तर्जनादिकृत् ।। सूत्र ३.१५६ ।।

 

     यथा--

प्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।

न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतं ।।

 

     अथ निद्रा--

चेतः संमीलनं निद्रा श्रमल्कममदादिजा ।

जृम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणं ।। सूत्र ३.१५७ ।।

 

     यथा--

'सार्थकानर्थकपदं ब्रुवती मन्थराक्षरं ।

निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि ।।'

 

     अथावहित्था--

भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ।

व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ।। सूत्र ३.१५८ ।।

 

     यथा--

'एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।

लीलाकमलपत्राणि गणयामास पार्वती ।।'

 

     अरथौत्सुक्यम्--

इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।

चित्ततापत्वरास्वेददीर्घनिः श्वसितादिकृत् ।। सूत्र ३.१५९ ।।

 

     यथा-- 'यः कौमारहरः स एव हि वरः--ऽइत्यादौ (१५ पृदृ) अत्र यत्काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यं ।

     अथोन्मादः--

चित्तसंमोह उन्मादः कामशोकभयादिभिः ।

अस्थानहासरुदितगीतप्रलपनादिकृत् ।। सूत्र ३.१६० ।।

 

     यथा मम--

'भ्रतार्द्विरेफ भवता भ्रमता समन्ता- त्प्राणाधिका प्रियतमा मम वीक्षिता किं ?

(भ्क्तंकारमनुभूय सानन्दं । ) 'ब्रषे किमोमिति सखे कथयाशु तन्मे किं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम् ।।'

 

     अथ शङ्का--

परक्रौर्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणं ।

वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत् ।। सूत्र ३.१६१ ।।

 

     यथा मम--

'प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते

जातातङ्का रचयति चिरं चन्दनालेपनानि ।

धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते

क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ।।'

 

     अथ स्मृतिः--

सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत् ।

स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ।। सूत्र ३.१६२ ।।

 

     यथा मम--

'मयि सकपटं किंचित्क्वापि प्रणीतविलोचने

किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकं ।

स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं

कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम् ।।'

 

     अथ मतिः--

नीतिमार्गनुसृत्यादेरर्थनिर्धारणं मतिः ।

स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवाः ।। सूत्र ३.१६३ ।।

 

     यथा--

'असंशयं क्षापरिग्रहक्षमा यादर्यमस्यामभिलाषि मे मनः ।

सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ।।'

 

     अथ व्याधिः--

व्याधिर्ज्वरादिर्वाताद्यैभूमीच्छोत्कम्पनादिकृत् ।

 

     तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । स्पष्टमुदाहरणं ।

     अथ त्रासः--

निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ।। सूत्र ३.१६४ ।।

 

      यथा--

'परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।

उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम् ।।'

 

     अथ व्रीडा--

धार्ष्ट्याभावो व्रडा वदनानमनादिकृद्दुराचारात् ।

 

     यथा-- 'मयि सकपटम्--' इत्यादि ( १७३ पृदृ) ।

     अथ हर्षः--

हर्षस्त्विष्टावाप्तेर्मनः प्रसादोऽश्रुगद्गदादिकरः ।। सूत्र ३.१६५ ।।

 

     यथा--

'समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः ।

मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा ।।'

 

     अथासूया--

असूयान्यगुणर्द्धेनामौद्धत्यादसहिष्णुता ।

दोषोद्धोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ।। सूत्र ३.१६६ ।।

 

     यथा--

     'अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः ।

     मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ।।'

     अथ विषादः--

उपायाभावजन्मा तु विषादः सत्त्वसंक्षयः ।

निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत् ।। सूत्र ३.१६७ ।।

 

     यथा मम--

     'एसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी ।

     मह सहि दारै ढंसै आअसधट्टीव्व कालौरैव्व हिआं ।।'

     अथ धृतिः--

ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धतिः ।

सौहित्यवचनोल्लाससहासप्रतिभादिकत् ।। सूत्र ३.१६८ ।।

 

     यथा मम--

'कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं

नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः ।

द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं

नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः ।।'

 

     अथ चपलता--

मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः ।

तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ।। सूत्र ३.१६९ ।।

 

     यथा--

'अन्यासु तावदुपमर्दसहासु भृङ्ग

लोलं विनोदय मनः सुमनोलतासु ।

मुग्धामजातरजसं कलिकामकाले

व्यर्थं कदर्थयसि किं नवमालिकायाः ।।'

 

     अथ ग्लानिः--

रत्यायासमनस्तापक्षुत्पिपासादिसंभवा ।

ग्लानिर्निप्प्राणताम्पकार्श्यानुत्साहतादिकृत् ।। सूत्र ३.१७० ।।

 

     यथा--

'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं

हृदयकुसुमशोषी दारुणो दीर्घशोकः ।

ग्लपयति परिपाण्डु क्षाममस्याः शरीरं

शरदिज इव घर्मः केतकीगर्भपत्रम् ।।'

 

     अथ चिन्ता--

ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।

     यथा मम--

'कमलेण विअसिएणं संजोएन्ती विरोहिणं ससिबिम्बं ।

करालपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिऽ ।।'

 

     अथ तर्कः--

तर्का विचारः संदेहाद्भ्रूशिरोऽङ्गुलिनर्तकः ।। सूत्र ३.१७१ ।।

 

     यथा-- 'किं रुद्धः प्रियया--' इत्यादि ।

     एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह--

रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः ।

 

     तथाहि--शृङ्गारेऽनुच्छिद्यमानतयावस्थानाद्रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव । व्यभिचारिलक्षणायोगात् । तदुक्तम्--

'रसावस्थः परं भावः स्थायितां प्रतिपद्यते ।' इति ।

 

     तत्कस्य स्थायिनः कस्मिन्रसे सञ्चारित्वमित्याह--

शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः ।। सूत्र ३.१७२ ।।

शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।

 

इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ।। सूत्र ३.१७३ ।।

 

     अथ स्थायिभावः--

अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः ।

आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति संमतः ।। सूत्र ३.१७४ ।।

 

     यदुक्तम्--

'स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः ।

न तिरोधीयते स्थायी तैरसौ पुष्यते परम् ।।' इति ।

 

     तद्भेदानाह--

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।

जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ।। सूत्र ३.१७५ ।।

 

     तत्र

रतिर्मनोऽनुकूलेर्ऽथे मनसः प्रवणायितं ।

वागादिवैकृतैश्चेतोविकासो हास इष्यते ।। सूत्र ३.१७६ ।।

इष्टनाशादिभिश्चेतोवैक्लव्यं शोकशब्दभाक् ।

प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ।। सूत्र ३.१७७ ।।

कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।

रौद्रशक्त्या तु जनितं चित्तवैक्लव्यं भयं ।। सूत्र ३.१७८ ।।

दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्मयोद्भवा ।

विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ।। सूत्र ३.१७९ ।।

विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ।

 

शमो निरीहास्थायां स्वात्मविश्रामजं सुखं ।। सूत्र ३.१८० ।।

 

     यथा मालतीमाधवे रतिः । लटकमेलके हासः । रामायणो शोकः । महाभारते शमः । एवमन्यत्रापि । एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः ।

     किं च ।

नानाभिनयसंबन्धान्भावयन्ति रसान्यतः ।

तस्माद्भावा अमी प्रोक्ताः स्थायिसंचारिसात्त्विकाः ।। सूत्र ३.१८१ ।।

 

     यदुक्तम्--

    

'सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्' अथ रसस्य भेदानाह--

 

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।

बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ।। सूत्र ३.१८२ ।।

 

     तत्र शृङ्गारः--

शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः ।

उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ।। सूत्र ३.१८३ ।।

परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीं ।

आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ।। सूत्र ३.१८४ ।।

चन्द्रचन्दननरोलम्बरुताद्युद्दीपनं मतं ।

भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ।। सूत्र ३.१८५ ।।

त्यक्त्वौग्र्यमरणालस्यजुगुष्साव्यभिचारिणः ।

 

स्थायिभावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ।

 

     यथा-- 'शून्यं वासगृहम्--' इत्यादि । अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ । शून्यं वासगृहमुद्दीपनविभावः । चुम्बनमनुभावः । लज्जाहासौ व्यभिचारिणौ ।

एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते ।

     तद्भेदावाह-

विप्रलम्भोऽथ संभोग इत्येष द्विविधो मतः ।। सूत्र ३.१८६ ।।

 

      तत्र--

यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसा ।

     अभीष्टं नायकं नायिकां वा ।

स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ।। सूत्र ३.१८७ ।।

 

      तत्र

श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।

दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ।। सूत्र ३.१८८ ।।

श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् ।

इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनं ।। सूत्र ३.१८९ ।।

अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च ।

उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ।। सूत्र ३.१९० ।।

अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनं ।

उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ।। सूत्र ३.१९१ ।।

अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशं ।

व्याधिस्तु दीर्घनिः श्वासपाण्डुताकृशतादयः ।। सूत्र ३.१९२ ।।

जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।

 

     शेषं स्पष्टं ।

     क्रमेणोदाहरणानि--

'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया-

स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।

यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा-

दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ।।'

 

     अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः ।

'कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः ।

इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम् ।।'

 

     अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता । इदं मम । 'मयि सकपटम्ऽ--इत्यादौ नायकस्य स्मृतिः । नेत्रे खञ्जनगञ्जनेऽ--इत्यादौ गुणकथनं । 'श्वासान्मुञ्चतिऽ--इत्यादौ उद्वेगः ।

'त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन ।

क्वः नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ।।'

 

     अत्र प्रलापः ।

     'भ्रातर्द्विरेफऽ--इत्यादौ उन्मादः । 'पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ।।' अत्र व्याधिः । 'भिसणीअलसाणीए निहिअं सव्वं सुणिच्चलं अङ्गं । दीहो णीसासहरो एसो साहेइ जीऐत्ति परं ।।' अत्र जडता । इदं मम ।

रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ।। सूत्र ३.१९३ ।।

जातप्रायं तु तद्वाच्यं चेतसाकाङ्क्षितं तथा ।

 

वर्ण्यतेऽपि यदि प्रत्युञ्जीवनं स्यादढूरतः ।। सूत्र ३.१९४ ।।

 

     तत्राद्यं यथा--

'शेफालिकां विदलितामवलोक्य तन्वी

प्राणान्कथंचिदपि धारयितुं प्रभूता ।

आकर्ण्य संप्रति रुतं चरणायुधानां

किं वा भविष्यति न वेद्मि तपस्विनी सा ।।'

 

     द्वितीयं यथा--

'रोलम्बाः परिपूरयन्तु हरितो भ्क्तंकारकोलाहलैर्--

मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि ।

माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं

प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी ।।'

 

    ममैतौ ।

    तृतीयं यथा--कादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते । एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः ।

    केचित्तु--

'नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः ।

निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ।।

उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु ।' इत्याहुः ।

 

     तत्र च--

आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः ।

 

     इङ्गितान्युक्तनि । यथा रत्नाववल्यां सागरिकावत्सराजयोः ।

आदौ पुरुषानुरोगे संभवत्यप्येवमधिकं हृदयङ्गमं भवति ।

नीली कुसुम्भं मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा ।। सूत्र ३.१९५ ।।

    

तत्र--

न चातिशोभते यन्नापैति प्रेम मनोगतं ।

तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ।। सूत्र ३.१९६ ।।

कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते ।

 

मञ्जिष्ठारागमाहुस्तद्यन्नापैत्यतिशोभते ।। सूत्र ३.१९७ ।।

 

     अथ मानः--

मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः ।

द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि ।। सूत्र ३.१९८ ।।

प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना ।

 

     द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः । उदाहरणं । तत्र नायकस्य यथा--

'अलिअपसुत्ता णिमिलिअच्छ देसु सुहा मज्भ्क्त ओआसं ।

गण्डपरिउम्बणापुलैअङ्ग ण पुणो चिराइस्सं ।।'

नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे ।

 

     उभयोर्यथा--

'पणाकुविआणं देण्ह विं अलिअसुत्ताणां माणैल्लाणं ।

णिच्चलणिरुद्धणीसासदिण्णाण्णाणं को मल्लो ।।'

 

     अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वं ।

यथा--

'भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते

रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते ।

कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते

दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ।।'

 

     यथा वा--

'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-

रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवं ।

दंपत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषो-

र्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः ।।'

प्रत्युरन्यप्रियासङ्गे दृष्टेऽथानुमिते श्रुते ।। सूत्र ३.१९९ ।।

ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ।

 

उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसंम्भवा ।। सूत्र ३.२०० ।।

 

     तत्र दृष्टे यथा--

'विनयति सुदृशो दृशोः परागं

प्रणयिनि कौसुममाननानिलेन ।

तदहितयुवतेरभीक्ष्णमक्ष्णो-

र्द्वयमपि रोषरजोभिरापुरूरे ।।'

 

     संभोगचिह्नेनानुमिते यथा--

'नवनखपदमङ्गं गोपयस्यंशुकेन

स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टं ।

प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-

न्नपवरिमलगन्धः केन शक्यो वरीतुम् ।।'

 

     एवमन्यदपि ।

साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरं ।

तद्भङ्गाय पतिः कुर्यात्षडुपायानिति क्रमात् ।। सूत्र ३.२०१ ।।

तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनं ।

दानं व्याजेन भूषादेः पादयोः पतनं नतिः ।। सूत्र ३.२०२ ।।

सामादौ तु परिक्षीणो स्यादुपेक्षावधीरणं ।

 

रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरं ।। सूत्र ३.२०३ ।।

 

     यथा-- 'नो चाटुश्रवणं कृतम्ऽ--इत्यादि (१२९ पृदृ) । अत्र सामादयः पञ्च सूचिताः । रसान्तरमूह्यं ।।

           अथ प्रवासः--

प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च संभ्रमात् ।

तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ।। सूत्र ३.२०४ ।।

निः श्वासोच्छ्वासरुदितभूमिपातादि जायते ।

 

      किञ्च--

अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ।। सूत्र ३.२०५ ।।

अधृतिः स्यादनालम्बस्तमनयोन्मादमूर्च्छनाः ।

मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ।। सूत्र ३.२०६ ।।

असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः ।

अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः ।। सूत्र ३.२०७ ।।

अनालम्बनता चापि शून्यता मनसः स्मृता ।

 

तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा ।

 

     शेषं स्पष्टं ।

     एकदेशतो यथा मम तातपादानां --

'चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली,

 प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नोऽधरः ।

अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमं,

कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीदृशीम् ।।'

भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ।। सूत्र ३.२०८ ।।

 

     कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यं ।

     तत्र भावी यथा मम--

'यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः,

शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि ।

शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा,

भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे संभ्रमः ।।'

 

     भवन्यथा--

'प्रस्थानं वबयैः कृतं, प्रियसखैरस्त्रैजस्त्रं गतं,

धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः ।

यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता

गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ।।'

 

     भूतो यथा-- 'चिन्ताभिः स्तिमितम्-ऽइत्यादि (२०० पृदृ) शापद्यथा-- 'तां जानीयाः--ऽइत्यादि (१३० पृदृ) संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः । यथा--विक्रमोर्वश्यामुर्वशीपुरूरवसोः ।

     अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवेऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनं ।

     अथ करुणविप्रलम्भः--

यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनार्लभ्ये ।

विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भाख्यः ।। सूत्र ३.२०९ ।।

 

     यथा--कादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते ।

     पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः । किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् । प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते । यच्चात्र 'सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव' इति केचिदाहुः, तदन्ये 'मरणरूपविशेषसंभवात्तद्भिन्नमेव' इति मन्यन्ते । अथ संभोगः--

दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।

यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ।। सूत्र ३.२१० ।।

 

     आदिशब्दादन्योन्याधरपानचुम्बनादयः । यथा-- 'शून्यं वासगृहम्--' (२२ पृदृ) इत्यादौ ।

सख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् ।

अयमेक एव धीरैः कथितः संभोगशृङ्गारः ।। सूत्र ३.२११ ।।

तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।

जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ।। सूत्र ३.२१२ ।।

अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च ।

 

     तथा च भरतः-- 'यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)' इति ।

     किञ्च--

कथितश्चतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ।। सूत्र ३.२१३ ।।

 

     यदुक्तम्--

'न बिना विप्रलम्भेन संभोगः पुष्टिमश्नुते ।

कषायिते हि वस्त्रादौ भूयान्रागो विवर्धते ।।' इति ।

 

     तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः । प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम्--

'क्षेमं ते ननु पक्ष्मलाक्षि - किसां खेमं महङ्गं दिढं,

एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो ।

केनाहं पृथुलः प्रये - पणैणीदेहस्स सम्मेलणात्,

त्वत्तः सुभ्रु न कपि मे, जै इदं खेमं कुदो पुच्छसि ।।'

 

एवमन्यत्राप्यूह्यं ।

     अथ हास्यः--

विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् ।

हास्यो हाससथायिभावः श्वेतः प्रथमदैवतः ।। सूत्र ३.२१४ ।।

विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः ।

तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतं ।। सूत्र ३.२१५ ।।

अनुभावोऽक्षसङ्कोचवदनस्मेरतादयः ।

निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ।। सूत्र ३.२१६ ।।

ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च ।

नीचानामपहसितं तथातिहसितं तदेष षड्भेदः ।। सूत्र ३.२१७ ।।

ईषद्विकासिनयनं स्मितं स्यात्स्पन्दिताधरं ।

किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ।। सूत्र ३.२१८ ।।

मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितं ।

 

अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं च भवत्यतिहसितं ।। सूत्र ३.२१९ ।।

 

     यथा--

'गुरोगिरः पञ्चदिनानधीत्य वेदान्तशास्त्राणि दिनत्रयं च ।

अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः ।।'

 

     अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः ।

     अत्र च--

यस्य हासः स चेत क्वापि साक्षान्नैव निबध्यते ।

तथाष्येष विभावादिसामर्थ्यादुपलभ्यते ।। सूत्र ३.२२० ।।

अभेदेन विभावादिसाधारण्यात्प्रतीयते ।

 

सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ।। सूत्र ३.२२१ ।।

 

     एवमन्येष्वपि रसेषु बोद्धव्यं । अथ करुणः--

इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।

धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ।। सूत्र ३.२२२ ।।

शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतं ।

तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ।। सूत्र ३.२२३ ।।

अनुभावा दैवनिन्दाभूपातक्रन्दितादयः ।

वैवर्ण्योच्छ्वासनिः श्वासस्तम्भप्रलपनानि च ।। सूत्र ३.२२४ ।।

निर्वेदमोहापस्माख्याधिग्लानिस्मृतिश्रमाः ।

 

विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ।। सूत्र ३.२२५ ।।

 

     शोच्यं विनष्टबन्धुप्रभृति । यथा मम राघवविलासे--

'विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः ।

अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम् ।।'

 

     अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा । एवं बन्धुवियोगविभवनाशादावप्युदाहार्यं । परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः ।

अस्य करुणविप्रलम्भाद्भेदमाह--

शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।

विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ।। सूत्र ३.२२६ ।।

 

अथ रौद्रः--

रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।

आलम्बनमरिस्तत्र तच्चेष्चोद्दीपनं मतं ।। सूत्र ३.२२७ ।।

मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।

संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा ।। सूत्र ३.२२८ ।।

भ्रविभङ्गौष्ठनिर्देशबाहुस्फोटनतर्जनाः ।

आत्मावदानकथनमायुधोत्क्षेपणानि च ।। सूत्र ३.२२९ ।।

अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः ।

उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ।। सूत्र ३.२३० ।।

मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः ।

 

     यथा--

'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं

मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।

नरकरिपुणा सार्धं तेषां सभीमकिरीटिना-

मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ।।'

 

     अस्य युद्धवीराद्भेदमाह--

रक्तास्येनेत्रता चात्र भेदिनी युद्धवीरतः ।। सूत्र ३.२३१ ।।

 

अथ वीरः--

उत्तमप्रकृतिर्वोर उत्साहस्थायिभावकः ।

महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ।। सूत्र ३.२३२ ।।

आलम्बनविभावास्तु विजेतव्यादयो मताः ।

विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः ।

अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ।। सूत्र ३.२३३ ।।

सञ्चारिणास्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः ।

 

स च दानदर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ।। सूत्र ३.२३४ ।।

 

     स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः । तत्र दानवीरो यथा परशुरामः--

'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति ।

 

     अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, संप्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः संचारिभिः पुष्टिं नीतो दानवीरतां भजते ।

धर्मवीरो यथा युधिष्ठिरः--

'राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये ।

यच्च लोके ममायत्तं तद्धर्माय सदोद्यतम् ।।'

 

     युद्धवीरो यथा श्रीरामचन्द्रः--

भो लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते

कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्रतं ।

नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः

पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः ।।'

 

     दयावीरो यथा जीमूतवाहनः--

     'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।

     तृप्तिं न पश्यामि तवापि तावत्किं भक्षणात्त्वं विरतो गरुत्मन् ।

     एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः ।

     अथ भयानकः--

भयानको भयस्थायिभावो भूताधिदैवतः ।'

स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ।। सूत्र ३.२३५ ।।

यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतं ।

चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ।। सूत्र ३.२३६ ।।

अनुभावोऽत्र वैवर्ण्यगद्रदस्वरभाषणं ।

प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ।। सूत्र ३.२३७ ।।

जुगुष्सावेगसंमोहसंत्रासग्लानिदीनताः ।

 

शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणाः ।। सूत्र ३.२३८ ।।

 

     यथा-- 'नष्टं वर्षवरैः--' इत्यादि (१०५ पृदृ) अथ बीभत्सः--

जुगुष्सास्थायिभावस्तु बीभत्सः कथ्यते रसः ।

नीलवर्णो महाकालदैवतोऽयमुदाहृतः ।। सूत्र ३.२३९ ।।

दुर्गन्धमांसरुंधिरमेदां स्यालम्बनं मतं ।

तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतं ।। सूत्र ३.२४० ।।

निष्ठीवनास्यवलननेत्रसङ्कोचनादयः ।

अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ।। सूत्र ३.२४१ ।।

माहोऽपस्मार आवेगो व्याधिश्च मरणादयः ।

 

     यथा--

'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसा-

न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।

आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का-

दङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति ।।'

 

     अथाद्भुतः--

अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ।। सूत्र ३.२४२ ।।

पीतवर्णो वस्तु लोकातिगामालम्बनं मतं ।

गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ।। सूत्र ३.२४३ ।।

स्तम्भः स्वेदोऽथ रोमाञ्चगद्रदस्वरसंभ्रमः ।

तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ।। सूत्र ३.२४४ ।।

वितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिणः ।

 

     यथा--

'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत--

ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।

द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर-

भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ।।'

 

     अथ शान्तः--

शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ।। सूत्र ३.२४५ ।।

कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ।

अनित्यत्वादिनाशेषवस्तुनिः सारता तु या ।। सूत्र ३.२४६ ।।

परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ।

पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ।। सूत्र ३.२४७ ।।

महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ।

रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ।। सूत्र ३.२४८ ।।

निर्वेदहर्षस्मरणमतिभूतदयादयः ।

 

     यथा--

'रथ्यान्तश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः

सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः ।

निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे

निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति ।।'

 

     पुष्टिस्तु महाभारतादौ द्रष्टव्या ।

अस्य दयावीरादेः सकाशाद्भेदमाह--

निरहङ्काररूपत्वाद्दयावीरादिरेष नो ।। सूत्र ३.२४९ ।।

 

     दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रांन्तर्भावमर्हति ।

ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तं । ननु--

'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा ।

रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ।।'

 

     इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात्कथं रसत्वमित्युच्यते--

युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।

रसतामेति तदस्मिन्सञ्चार्यादेः स्थितिश्च न विरुद्धा ।। सूत्र ३.२५० ।।

 

     यश्चास्मिन्सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः ।

     उक्तं हि- 'यच्च कामसुखं लोके यच्च दिव्यं महत्सुखं ।

तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ।।'

'सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् ॥'

अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा ।।'

 

     आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः ।

     तत्र देवताविषया रतिर्यथा--

'कदा वाराणस्यामिह सुरधुनीरोधसि वस-

न्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटं ।

अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ।।'

 

     अथ मुनीन्द्रसंमतो वत्सलः--

स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।

स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतं ।। सूत्र ३.२५१ ।।

उद्दीपनानि तच्चेष्टा निद्याशौर्यदयादयः ।

आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणं ।। सूत्र ३.२५२ ।।

पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः ।

सञ्चारिणोऽनिष्टशङ्काहर्षगर्वादयो मताः ।। सूत्र ३.२५३ ।।

पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः ।

 

     यथा--

     'यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीं ।

     अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोर्ऽभकः ।।'

     एतेषां च रसानां परस्परविरोधमाह--

आद्यः करुणबीभत्सरौद्रवीरभयानकैः ।। सूत्र ३.२५४ ।।

भयानकेन करुणोनापि हास्यो विरोधभाक् ।

करुणो हास्यशृङ्गारसाभ्यामपि तादृशः ।। सूत्र ३.२५५ ।।

रौद्रस्तु हास्यशृङ्गरभयानकरसैरपि ।

भयानकेन शान्तेन तथा वीररसः स्मृतः ।। सूत्र ३.२५६ ।।

शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः ।

शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ।। सूत्र ३.२५७ ।।

शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता ।

 

     आद्यः शृङ्गारः । एषां च समावेशप्रकारा वक्ष्यन्ते

कुतोऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ।। सूत्र ३.२५८ ।।

उन्मादादिर्न तु स्थायी न पात्रे स्यैर्यमेति यत् ।

 

     यथा विक्रमोर्वश्यां चतुर्थेऽङ्के पुरूरवस उन्मादः ।

रसभावौ तदाभासौ भावस्य प्रशमोदयौ ।। सूत्र ३.२५९ ।।

सन्धिः शबालता चेति सर्वेऽपि रसनाद्रसाः ।

 

     रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः ।

     भावादय उच्यन्ते--

सञ्चारिणः प्रधानानि देवादिविषया रतिः ।। सूत्र ३.२६० ।।

उद्बुद्धमात्रः स्थायी च भाव इत्यभिधयते ।

 

'न भावहीनोऽस्ति रसो न भावो रसवजितः ।

परस्परकृता सिद्धिरनयो रसभावयोः ।।'

 

      इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः । तत्र व्यभिचारी यथा-- 'एवंवादिनि देवर्षौ--ऽइत्यादि(१७० पृ.) । अत्रावहित्था ।

     देवविषया रतिर्यथा मुकुन्दमालायाम्--

     'दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामं ।

     अवधीरितशारदारविन्दौ चरणौ ते मरणोऽपि चिन्तयामि ।।'

     मुनिविषया रतिर्यथा--

     'विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽस्मि निबर्हितांहसा ।

     तथापि शुश्रषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते ।।'

     राजविषया रतिर्यथा मम--

'त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलां ।

न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।।'

 

     एवमन्यत् ।

     उद्बुद्धमात्रस्थायिभावो यथा--

'हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।

उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।।'

 

     अत्र पार्वतीविषया भगवतो रतिः ।

     ननूक्तं प्रपाणकरसवद्विभावादीनामेकोऽत्राभासो रस इति ।

तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते--

यथा मरिचखण्डादेरेकीभावे प्रपाणके ।। सूत्र ३.२६१ ।।

उद्रेकः कस्यचित्क्वापि तथा सञ्चारिणो रसे ।

 

     अथ रसाभासभावाभासौ--

अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ।। सूत्र ३.२६२ ।।

 

     अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यं ।

तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते--

उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च ।

बहुनायकविषयायां रतौ तथानुभयनिष्ठायां ।। सूत्र ३.२६३ ।।

प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते ।

शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगतकोपे ।। सूत्र ३.२६४ ।।

शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये ।

व्रह्मवधाद्युत्साहेऽधमपात्रगते तथा वारे ।। सूत्र ३.२६५ ।।

उत्तमपात्रगतत्वे भयानके ज्ञेयमेवन्यत्र ।

 

     तत्र रतेरुपनायकनिष्ठत्वे यथा मम--

     'स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी

          क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः ।

     तन्मे सुन्दर मुञ्च, कृष्ण सहसा वर्त्मेति गोप्या गिरः

          श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ।।'

     बहुनायकनिष्ठत्वे यथा--

 

'कान्तास्त एव भुवनत्रितयेऽपि मन्ये

येषां कृते सुतनु पाणडुरयं कपोलः ।'

 

     अनुभयनिष्ठत्वे यथा--मालतीमाधवे नन्दनस्य मालत्यां ।

     'पश्चादुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्' इति श्रीमल्लोचनकाराः ।

     तत्रोदाहरणं यथा--रत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः ।

     प्रतिनायकनिष्ठत्वे यथा--इयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने ।

     अधमपात्रगतत्वे यथा--

'जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली ।

अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा ।।'

 

     तिर्यगादिगतत्वे यथा--

'मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती ।

चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी ।।'

 

     आदिशब्दत्तापसादयः ।

     रौद्राभासो यथा--

'रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्-

मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः ।

आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय-

न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं प्रविष्टोर्ऽजुनः ।।'

 

     भयानकाभासो यथा--

     'अशक्नुवन्सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनं ।

     प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः ।।'

     स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एवमन्यत्र ।

भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ।। सूत्र ३.२६६ ।।

 

     स्पष्टं ।

भावस्य शान्तावुदये संधिमिश्रितयोः क्रमात् ।

भावस्य शान्तिरुदयः संधिः शबलता मता ।। सूत्र ३.२६७ ।।

 

     क्रमेण यथा--

'सुतनु जहिहि कोपं पश्य पादानतं मां

न खलु तव कदाचित्कोप एवंविधोऽभूत् ।

इति निगदति नाथे तिर्यगामीलिताक्ष्या

नयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ।।'

 

     अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः ।

चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे

निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते ।

व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया

नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ।।'

 

     अत्र विषादस्योदयः ।

'नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापं ।

रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे ।।'

 

     अत्र हर्षविषादयोः संधिः ।

     'क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयोऽपि दृश्यन्ते सा,

          दोषाणां प्रशमाय मे श्रुतमहो, कोपेऽपि कान्तं मुखं ।

     किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्नेऽपि सा दुर्लभा

          चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति ।।'

     अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता ।

 

इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!