साहित्यदर्पण, नवम परिच्छेद

SOORAJ KRISHNA SHASTRI
By -

 

Sahitya darpan navam parichchhed (chapter 9)
Sahitya darpan navam parichchhed (chapter 9)

अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीति

माह---

पदसंघटना रीतिरङ्गसंस्थाविरोषवत् ।

उपकर्त्रो रसादीनां---

 

     रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानां ।

---सा पुनः स्याच्चतुर्विधा ।। सूत्र ९.१ ।।

 

वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा ।

सा रीतिः । तत्र---

माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ।। सूत्र ९.२ ।।

अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते ।

 

     यथा---'अनङ्गमङ्गलभुवः--' इत्यादि ।

     रुद्रटस्त्वाह---

'असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो ।

वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ।।'

 

     अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।

ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ।। सूत्र ९.३ ।।

समासबहुला गौडी---

 

     यथा---'चञ्चद्भुज--' इत्यादि ।

     पुरुषोत्तमस्त्वाह---

'बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया ।

रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च ।।'

 

---वर्णैः शेषैः पुनर्द्वयोः ।

 

समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ।। सूत्र ९.४ ।।

 

     द्वयोर्वैदर्भोगौड्योः ।

'मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।

मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ।।'

 

भोजस्त्वाह---

'समस्तपञ्चषपदामोजः कान्तिसमन्वितां ।

मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ।।'

 

     यथा---

लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता ।

'अयमुदयति मुद्राभञ्जनः पद्मिनीना-

मुदयगिरिवनालीबालमन्दारपुष्पं ।

विरहविधुरकोकद्वन्द्वबन्धुविभिन्द-

न्कुपितकपिकपोलक्रोडताम्रस्तमांसि ।।'

 

     कश्चिदाह---

'मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा ।

उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी ।।'

 

     अन्ये त्वाहुः---

'गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा ।

पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः ।।'

क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ।। सूत्र ९.५ ।।

 

     वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ . रचनादीत्यादिशब्दाद्वृत्तिवर्णौ ।

तत्र वक्त्रौचित्याद्यथा---

'मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः

कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।

कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः

केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ।।'

 

     अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वेऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः । वाच्यौचित्याद्यथोदाहृते 'मूर्धव्याधूयमान---' इत्यादौ । प्रबन्धौचित्याद्यथा नाटकादौ रौद्रेऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः । एवमाख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । एवमन्यदपि ज्ञेयं ॥

 

इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!