Kavya prakash pratham ullas( chapter 1) |
ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत्
परामृशति –
नियतिकृतनियमरहितां
ह्लादैकमयीमनन्यपरतन्त्राम्।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १॥
नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा
परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्यणो निर्मितिर्निर्माणम्। एतद्विलक्षणा तु कविवाङ्निर्मितिः। अत
एव जयति। जयत्यर्थेन च नमस्कार आक्षिप्यते, इति तां प्रत्यस्मि प्रणत इति
लभ्यते।।
इहाभिधेयं सप्रयोजनमित्याह –
काव्यं यशसेऽर्थकृते व्यवहारविदे
शिवेतरक्षतये।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ २॥
कालिदासानादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनं
राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणम्
सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलिदवेद्यान्तरमानन्दम्
प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्व
शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं
लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य
रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति
सर्वथा तत्र यतनीयम्।
एवमस्य प्रयोजनमुक्त्वा कारणमाह –
शक्तिर्निपुणता
लोकशास्त्रकाव्याद्यवेक्षणात्।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे
॥ ३॥
शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात्। लोकस्य
स्थावरजङ्गमात्मकलोकवृत्तस्य। शास्त्राणां
छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानाम्। काव्यानां च
महाकविसम्बन्धिनाम्। आदिग्रहणादितिहासानां च विमर्शनाद्व्युत्पत्तिः। काव्यं
कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति
त्रयः समुदिताः, न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः।।
एवमस्य कारणमुक्त्वा स्वरूपमाह –
तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः
क्वापि।
दोषगुणालंकाराः वक्ष्यन्ते। क्वापीत्यनेनैतदाह यत् सर्वत्र
सालंकारौ, क्वचित्तु स्फुटालंकारविरहेऽपि न काव्यत्वहानिः। यथा –
यः कौमारहरः स एव हि वरस्ता एव
चैत्रक्षपा-
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः
कदम्बानिलाः।
सा चैवास्मि तथापि तत्र
सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः
समुत्कण्ठते ॥१॥
अत्र स्फुटो न कश्विदलंकारः। रसस्य च
प्राधान्यान्नालङ्कारता।
तद्भेदान् क्रमेणाह –
इदमुत्तममतिशयिनि व्यङ्ग्ये
वाच्याद्ध्वनिर्बुधैः कथितः ॥ ४॥
इदमिति काव्यम्। बुधैर्वैयाकरणैः
प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः, ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य
शब्दार्थयुगलस्य। यथा –
निःशेषच्युतचन्दनं स्तनतटं
निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी
तवेयं तनुः।
मिथ्यावादिनि दूति
बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न
पुनस्तस्याधमस्यान्तिकम् ॥ २॥
अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन
व्यज्यते।।
अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये
तु मध्यमम्।
अतादृशि वाच्यादनतिशायिनि।
यथा-
ग्रामतरुणं तरुण्या
नववञ्जुलमज्जरीसनाथकरम्।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया॥३॥
अत्र बञ्जुललतागृहे दत्तसंकेता नागतेति व्यङ्ग्यं गुणीभूतं
तदपेक्षया वाच्यस्यैव चमत्कारित्वात्।
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं
त्ववरं स्मृतम् ॥ ५॥
चित्रमिति गुणालङ्कारयुक्तम्। अव्यङ्ग्यमिति
स्फुटप्रतीयमानार्थरहितम्। अवरम् अधमम्। यथा
स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय
वः।
भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी
मन्दताम् ॥४॥
विनिर्गतं
मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम्।
ससंभ्रमेन्द्रद्रुतपातितार्गला
निमीलिताक्षीव भियामरावती ॥ ५॥
इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो
नाम प्रथम उल्लासः ।।
thanks for a lovly feedback