bhagwat chapter 9.9 |
श्रीशुक उवाच
अंशुमांश्च तपस्तेपे गंगानयनकाम्यया ।
कालं महान्तं नाशक्नोत् ततः कालेन
संस्थितः ॥ १ ॥
दिलीपस्तत्सुतस्तद्वद् अशक्तः
कालमेयिवान् ।
भगीरथस्तस्य पुत्रः तेपे स सुमहत् तपः
॥ २ ॥
दर्शयामास तं देवी प्रसन्ना वरदास्मि
ते ।
इत्युक्तः स्वं अभिप्रायं शशंसावनतो
नृपः ॥ ३ ॥
कोऽपि धारयिता वेगं पतन्त्या मे
महीतले ।
अन्यथा भूतलं भित्त्वा नृप यास्ये
रसातलम् ॥ ४ ॥
किं चाहं न भुवं यास्ये नरा
मय्यामृजन्त्यघम् ।
मृजामि तदघं क्वाहं राजन् तत्र
विचिन्त्यताम् ॥ ५ ॥
भगीरथ
उवाच
साधवो न्यासिनः शान्ता ब्रह्मिष्ठा
लोकपावनाः ।
हरन्ति अघं ते अंगसंगात् तेष्वास्ते
ह्यघभित् हरिः ॥ ६ ॥
धारयिष्यति ते वेगं रुद्रस्त्वात्मा
शरीरिणाम् ।
यस्मिन् ओतं इदं प्रोतं विश्वं शाटीव
तन्तुषु ॥ ७ ॥
इत्युक्त्वा स नृपो देवं तपसा
तोषयच्छिवम् ।
कालेनाल्पीयसा राजन् तस्येशः समतुष्यत
॥ ८ ॥
तथेति राज्ञाभिहितं सर्वलोकहितः शिवः
।
दधारावहितो गंगां पादपूतजलां हरेः ॥ ९
॥
भगीरथः स राजर्षिः निन्ये भुवनपावनीम्
।
यत्र स्वपितॄणां देहा भस्मीभूताः स्म
शेरते ॥ १० ॥
रथेन वायुवेगेन प्रयान्तं अनुधावती ।
देशान् पुनन्ती निर्दग्धान् आसिञ्चत्
सगरात्मजान् ॥ ११ ॥
यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि
।
सगरात्मजा दिवं जग्मुः केवलं
देहभस्मभिः ॥ १२ ॥
भस्मीभूतांगसंगेन स्वर्याताः
सगरात्मजाः ।
किं पुनः श्रद्धया देवीं सेवन्ते ये
धृतव्रताः ॥ १३ ॥
न ह्येतत् परमाश्चर्यं स्वर्धुन्या
यदिहोदितम् ।
अनन्तचरणाम्भोज प्रसूताया भवच्छिदः ॥
१४ ॥
सन्निवेश्य मनो यस्मिन् श्रद्धया
मुनयोऽमलाः ।
त्रैगुण्यं दुस्त्यजं हित्वा सद्यो
यातास्तदात्मताम् ॥ १५ ॥
श्रुतो भगीरथाज्जज्ञे तस्य
नाभोऽपरोऽभवत् ।
सिन्धुद्वीपः ततस्तस्मात् अयुतायुः
ततोऽभवत् ॥ १६ ॥
ऋतूपर्णो नलसखो
योऽश्वविद्यामयान्नलात् ।
दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु
तत्सुतम् ॥ १७ ॥
ततः सुदासः तत्पुत्रो
मदयन्तीपतिर्नृपः ।
आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत
क्वचित् ।
वसिष्ठशापाद्रक्षोऽभूत् अनपत्यः
स्वकर्मणा ॥ १८ ॥
राजोवाच
किं निमित्तो गुरोः शापः सौदासस्य
महात्मनः ।
एतद् वेदितुमिच्छामः कथ्यतां न रहो
यदि ॥ १९ ॥
श्रीशुक
उवाच
सौदासो मृगयां किञ्चित् चरन् रक्षो
जघान ह ।
मुमोच भ्रातरं सोऽथ गतः
प्रतिचिकीर्षया ॥ २० ॥
सञ्चिन्तयन् अघं राज्ञः सूदरूपधरो
गृहे ।
गुरवे भोक्तुकामाय पक्त्वा निन्ये
नरामिषम् ॥ २१ ॥
परिवेक्ष्यमाणं भगवान् विलोक्य
अभक्ष्यमञ्जसा ।
राजानं अशपत् क्रुद्धो रक्षो ह्येवं
भविष्यसि ॥ २२ ॥
रक्षःकृतं तद्विदित्वा चक्रे
द्वादशवार्षिकम् ।
सोऽपि अपोऽञ्जलिनादाय गुरुं शप्तुं
समुद्यतः ॥ २३ ॥
वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ
।
दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः
॥ २४ ॥
राक्षसं भावमापन्नः पादे कल्माषतां
गतः ।
व्यवायकाले ददृशे वनौकोदम्पती द्विजौ
॥ २५ ॥
क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत्
।
न भवान् राक्षसः साक्षात्
इक्ष्वाकूणां महारथः ॥ २६ ॥
मदयन्त्याः पतिर्वीर नाधर्मं
कर्तुमर्हसि ।
देहि मेऽपत्यकामाया अकृतार्थं पतिं
द्विजम् ॥ २७ ॥
देहोऽयं मानुषो राजन्
पुरुषस्याखिलार्थदः ।
तस्मादस्य वधो वीर सर्वार्थवध उच्यते
॥ २८ ॥
एष हि ब्राह्मणो विद्वान्
तपःशीलगुणान्वितः ।
आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम्
।
सर्वभूतात्मभावेन भूतेष्वन्तर्हितं
गुणैः ॥ २९ ॥
सोऽयं ब्रह्मर्षिवर्यस्ते
राजर्षिप्रवराद् विभो ।
कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ॥
३० ॥
तस्य साधोरपापस्य भ्रूणस्य
ब्रह्मवादिनः ।
कथं वधं यथा बभ्रोः मन्यते सन्मतो
भवान् ॥ ३१ ॥
यइ अयं क्रियते भक्षः तर्हि मां खाद
पूर्वतः ।
न जीविष्ये विना येन क्षणं च मृतकं
यथा ॥ ३२ ॥
एवं करुणभाषिण्या विलपन्त्या अनाथवत्
।
व्याघ्रः पशुमिवाखादत् सौदासः
शापमोहितः ॥ ३३ ॥
ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन
भक्षितम् ।
शोचन्ति आत्मानमुर्वीशं अशपत् कुपिता
सती ॥ ३४ ॥
यस्मान्मे भक्षितः पाप कामार्तायाः
पतिस्त्वया ।
तवापि मृत्युः आधानाद् अकृतप्रज्ञ
दर्शितः ॥ ३५ ॥
एवं मित्रसहं शप्त्वा पतिलोकपरायणा ।
तदस्थीनि समिद्धेऽग्नौ प्रास्य
भर्तुर्गतिं गता ॥ ३६ ॥
विशापो द्वादशाब्दान्ते मैथुनाय
समुद्यतः ।
विज्ञाय ब्राह्मणीशापं महिष्या स
निवारितः ॥ ३७ ॥
अत ऊर्ध्वं स तत्याज स्त्रीसुखं
कर्मणाप्रजाः ।
वसिष्ठस्तदनुज्ञातो मदयन्त्यां
प्रजामधात् ॥ ३८ ॥
सा वै सप्त समा गर्भं अबिभ्रन्न
व्यजायत ।
जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन
कथ्यते ॥ ३९ ॥
अश्मकान् मूलको जज्ञे यः स्त्रीभिः
परिरक्षितः ।
नारीकवच इत्युक्तो निःक्षत्रे
मूलकोऽभवत् ॥ ४० ॥
ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः
।
राजा विश्वसहो यस्य
खट्वांगश्चक्रवर्त्यभूत् ॥ ४१ ॥
यो देवैरर्थितो दैत्यान् अवधीद् युधि
दुर्जयः ।
मुहूर्तं आयुः ज्ञात्वैत्य स्वपुरं
सन्दधे मनः ॥ ४२ ॥
न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न
चात्मजाः ।
न श्रियो न मही राज्यं न
दाराश्चातिवल्लभाः ॥ ४३ ॥
न बाल्येऽपि मतिर्मह्यं अधर्मे रमते
क्वचित् ।
नापश्यं उत्तमश्लोकात् अन्यत् किञ्चन
वस्त्वहम् ॥ ४४ ॥
देवैः कामवरो दत्तो मह्यं
त्रिभुवनेश्वरैः ।
न वृणे तमहं कामं भूतभावनभावनः ॥ ४५ ॥
ये विक्षिप्तेन्द्रियधियो देवास्ते
स्वहृदि स्थितम् ।
न विन्दन्ति प्रियं शश्वद् आत्मानं
किमुतापरे ॥ ४६ ॥
अथेशमायारचितेषु संगं
गुणेषु गन्धर्वपुरोपमेषु ।
रूढं प्रकृत्यात्मनि विश्वकर्तुः
भावेन हित्वा तमहं प्रपद्ये ॥ ४७ ॥
इति व्यवसितो बुद्ध्या नारायणगृहीतया
।
हित्वान्यभावमज्ञानं ततः स्वं
भावमास्थितः ॥ ४८ ॥
यत्तद्ब्रह्म परं सूक्ष्मं अशून्यं
शून्यकल्पितम् ।
भगवान् वासुदेवेति यं गृणन्ति हि
सात्वताः ॥ ४९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे नवमोऽध्यायः ॥ ९ ॥
thanks for a lovly feedback