bhagwat chapter 9.8 |
श्रीशुक
उवाच
हरितो रोहितसुतः चंपः
तस्माद्विनिर्मिता ।
चंपापुरी सुदेवोऽतो विजयो यस्य
चात्मजः ॥ १ ॥
भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि
बाहुकः ।
सोऽरिभिर्हृतभू राजा सभार्यो
वनमाविशत् ॥ २ ॥
वृद्धं तं पञ्चतां प्राप्तं महिष्यनु
मरिष्यती ।
और्वेण जानतात्मानं प्रजावन्तं
निवारिता ॥ ३ ॥
आज्ञायास्यै सपत्नीभिः गरो
दत्तोऽन्धसा सह ।
सह तेनैव सञ्जातः सगराख्यो महायशाः ॥
४ ॥
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः
कृतः ।
यस्तालजंघान् यवनात् शकान्
हैहयबर्बरान् ॥ ५ ॥
नावधीद् गुरुवाक्येन चक्रे
विकृतवेषिणः ।
मुण्डान् श्मश्रुधरान् कांश्चित्
मुक्तकेशार्धमुण्डितान् ॥ ६ ॥
अनन्तर्वाससः कांश्चिद्
अबहिर्वाससोऽपरान् ।
सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ ७
॥
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम्
।
तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं
पुरन्दरः ॥ ८ ॥
सुमत्यास्तनया दृप्ताः
पितुरादेशकारिणः ।
हयं अन्वेषमाणास्ते समन्तात् न्यखनन्
मन्महीम्॥९॥
प्राग् उदीच्यां दिशि हयं ददृशुः
कपिलान्तिके ।
एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ १०
॥
हन्यतां हन्यतां पाप इति
षष्टिसहस्रिणः ।
उदायुधा अभिययुः उन्मिमेष तदा मुनिः ॥
११ ॥
स्वशरीराग्निना तावन्
महेन्द्रहृतचेतसः ।
महद्व्यतिक्रमहता भस्मसाद् अभवन्
क्षणात् ॥ १२ ॥
न साधुवादो मुनिकोपभर्जिता
नृपेन्द्रपुत्रा इति सत्त्वधामनि
।
कथं तमो रोषमयं विभाव्यते
जगत्पवित्रात्मनि खे रजो भुवः ॥
१३ ॥
यस्येरिता सांख्यमयी दृढेह नौः
यया मुमुक्षुस्तरते दुरत्ययम् ।
भवार्णवं मृत्युपथं विपश्चितः
परात्मभूतस्य कथं पृथङ्मतिः ॥ १४
॥
योऽसमञ्जस इत्युक्तः स केशिन्या
नृपात्मजः ।
तस्य पुत्रोऽंशुमान्नाम पितामहहिते
रतः ॥ १५ ॥
असमञ्जस आत्मानं दर्शयन् असमञ्जसम् ।
जातिस्मरः पुरा संगाद् योगी योगाद्
विचालितः ॥ १६ ॥
आचरन् गर्हितं लोके ज्ञातीनां कर्म
विप्रियम् ।
सरय्वां क्रीडतो बालान्
प्रास्यदुद्वेजयञ्जनम् ॥ १७ ॥
एवंवृत्तः परित्यक्तः पित्रा
स्नेहमपोह्य वै ।
योगैश्वर्येण बालान् तान् दर्शयित्वा
ततो ययौ ॥ १८ ॥
अयोध्यावासिनः सर्वे बालकान्
पुनरागतान् ।
दृष्ट्वा विसिस्मिरे राजन्राजा
चाप्यन्वतप्यत ॥ १९ ॥
अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे
ययौ ।
पितृव्यखातानुपथं भस्मान्ति ददृशे
हयम् ॥ २० ॥
तत्रासीनं मुनिं वीक्ष्य कपिलाख्यं
अधोक्षजम् ।
अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो
महान् ॥ २१ ॥
अंशुमानुवाच
न पश्यति त्वां परमात्मनोऽजनो
न बुध्यतेऽद्यापि समाधियुक्तिभिः ।
कुतोऽपरे तस्य मनःशरीरधी
ये देहभाजस्त्रिगुणप्रधाना
गुणान् विपश्यन्त्युत वा तमश्च ।
यन्मायया मोहितचेतसस्ते
विदुः स्वसंस्थं न बहिःप्रकाशाः
॥ २३ ॥
तं त्वां अहं ज्ञानघनं स्वभाव
प्रध्वस्तमायागुणभेदमोहैः
।
सनन्दनाद्यैर्मुनिभिर्विभाव्यं
प्रशान्त मायागुणकर्मलिंगं
अनामरूपं सदसद्विमुक्तम्
।
ज्ञानोपदेशाय गृहीतदेहं
त्वन्मायारचिते लोके वस्तुबुद्ध्या
गृहादिषु ।
भ्रमन्ति कामलोभेर्ष्या
मोहविभ्रान्तचेतसः ॥ २६ ॥
अद्य नः सर्वभूतात्मन्
कामकर्मेन्द्रियाशयः ।
मोहपाशो दृढश्छिन्नो भगवन् तव
दर्शनात् ॥ २७ ॥
श्रीशुक उवाच
इत्थं गीतानुभावस्तं भगवान् कपिलो
मुनिः ।
अंशुमन्तं उवाचेदं अनुग्राह्य धिया
नृप ॥ २८ ॥
श्रीभगवानुवाच
अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।
इमे च पितरो दग्धा गंगाम्भोऽर्हन्ति
नेतरत् ॥ २९ ॥
तं परिक्रम्य शिरसा प्रसाद्य हयमानयत्
।
सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ ३०
॥
राज्यं अंशुमते न्यस्य निःस्पृहो
मुक्तबन्धनः ।
और्वोपदिष्टमार्गेण लेभे
गतिमनुत्तमाम् ॥ ३१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
thanks for a lovly feedback