bhagwat chapter 9.19 |
श्रीशुक
उवाच
स इत्थं आचरन् कामान्
स्त्रैणोऽपह्नवमात्मनः ।
बुद्ध्वा प्रियायै निर्विण्णो
गाथामेतामगायत ॥ १ ॥
श्रृणु भार्गव्यमूं गाथां
मद्विधाचरितां भुवि ।
धीरा यस्यानुशोचन्ति वने
ग्रामनिवासिनः ॥ २ ॥
बस्त एको वने कश्चिद् विचिन्वन्
प्रियमात्मनः ।
ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥
३ ॥
तस्या उद्धरणोपायं बस्तः कामी
विचिन्तयन् ।
व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण
रोधसी ॥ ४ ॥
सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे
किल ।
तया वृतं समुद्वीक्ष्य बह्व्योऽजाः
कान्तकामिनीः ॥ ५ ॥
पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं
याभकोविदम् ।
स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः
।
रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत
॥ ६ ॥
तमेव प्रेष्ठतमया रममाणमजान्यया ।
विलोक्य कूपसंविग्ना नामृष्यद्
बस्तकर्म तत् ॥ ७॥
तं दुर्हृदं सुहृद्रूपं कामिनं
क्षणसौहृदम् ।
इन्द्रियारामं उत्सृज्य स्वामिनं
दुःखिता ययौ ॥ ८ ॥
सोऽपि चानुगतः स्त्रैणः कृपणस्तां
प्रसादितुम् ।
कुर्वन्निडविडाकारं नाशक्नोत् पथि
संधितुम् ॥ ९ ॥
तस्य तत्र द्विजः कश्चित्
अजास्वाम्यच्छिनद् रुषा ।
लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय
योगवित् ॥ १० ॥
संबद्धवृषणः सोऽपि ह्यजया कूपलब्धया ।
कालं बहुतिथं भद्रे कामैर्नाद्यापि
तुष्यति ॥ ११ ॥
तथाहं कृपणः सुभ्रु भवत्याः
प्रेमयन्त्रितः ।
आत्मानं नाभिजानामि मोहितस्तव मायया ॥
१२ ॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः
स्त्रियः ।
न दुह्यन्ति मनःप्रीतिं पुंसः
कामहतस्य ते ॥ १३ ॥
न जातु कामः कामानां उपभोगेन शाम्यति
।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
॥ १४ ॥
यदा न कुरुते भावं सर्वभूतेष्वमंगलम्
।
समदृष्टेस्तदा पुंसः सर्वाः सुखमया
दिशः ॥ १५ ॥
या दुस्त्यजा दुर्मतिभिः जीर्यतो या न
जीर्यते ।
तां तृष्णां दुःखनिवहां शर्मकामो
द्रुतं त्यजेत् ॥ १६ ॥
मात्रा स्वस्रा दुहित्रा वा
नाविविक्तासनो भवेत् ।
बलवान् इन्द्रियग्रामो विद्वांसमपि
कर्षति ॥ १७ ॥
पूर्णं वर्षसहस्रं मे विषयान्
सेवतोऽसकृत् ।
तथापि चानुसवनं तृष्णा तेषूपजायते ॥
१८ ॥
तस्मादेतामहं त्यक्त्वा
ब्रह्मण्यध्याय मानसम् ।
निर्द्वन्द्वो निरहंकारः चरिष्यामि
मृगैः सह ॥ १९ ॥
दृष्टं श्रुतमसद् बुद्ध्वा
नानुध्यायेन्न सन्दिशेत् ।
संसृतिं चात्मनाशं च तत्र विद्वान् स
आत्मदृक् ॥ २०॥
इत्युक्त्वा नाहुषो जायां तदीयं पूरवे
वयः ।
दत्त्वा स्वां जरसं तस्माद् आददे
विगतस्पृहः ॥ २१॥
दिशि दक्षिणपूर्वस्यां द्रुह्युं
दक्षिणतो यदुम् ।
प्रतीच्यां तुर्वसुं चक्र
उदीच्यामनुमीश्वरम् ॥ २२ ॥
भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं
विशाम् ।
अभिषिच्याग्रजान् तस्य वशे स्थाप्य
वनं ययौ ॥ २३॥
आसेवितं वर्षपूगान् षड्वर्गं विषयेषु
सः ।
क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ २४ ॥
स तत्र निर्मुक्तसमस्तसंग
आत्मानुभूत्या विधुतत्रिलिंगः ।
परेऽमले ब्रह्मणि वासुदेवे
लेभे गतिं भागवतीं प्रतीतः ॥ २५ ॥
श्रुत्वा गाथां देवयानी मेने
प्रस्तोभमात्मनः ।
स्त्रीपुंसोः स्नेहवैक्लव्यात्
परिहासमिवेरितम् ॥ २६॥
सा सन्निवासं सुहृदां प्रपायामिव
गच्छताम् ।
विज्ञायेश्वर तन्त्राणां मायाविरचितं
प्रभोः ॥ २७ ॥
सर्वत्र संगघ्गमुत्सृज्य
स्वप्नौपम्येन भार्गवी ।
कृष्णे मनः समावेश्य
व्यधुनोल्लिंगमात्मनः ॥ २८ ॥
नमस्तुभ्यं भगवते वासुदेवाय वेधसे ।
सर्वभूताधिवासाय शान्ताय बृहते नमः ॥
२९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
thanks for a lovly feedback