bhagwat chapter 9.18 |
श्रीशुक
उवाच
यतिर्ययातिः संयातिः आयतिर्वियतिः
कृतिः ।
षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥
राज्यं नैच्छद् यतिः पित्रा दत्तं
तत्परिणामवित् ।
यत्र प्रविष्टः पुरुष आत्मानं
नावबुध्यते ॥ २ ॥
पितरि भ्रंशिते स्थानाद् इन्द्राण्या
धर्षणाद् द्विजैः ।
प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ॥
३ ॥
चतसृष्वादिशद् दिक्षु भ्रातॄन् भ्राता
यवीयसः ।
कृतदारो जुगोपोर्वीं काव्यस्य
वृषपर्वणः ॥ ४ ॥
श्रीराजोवाच
ब्रह्मर्षिर्भगवान् काव्यः
क्षत्रबन्धुश्च नाहुषः ।
राजन्यविप्रयोः कस्माद् विवाहः
प्रतिलोमकः ॥ ५ ॥
श्रीशुक उवाच
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम
कन्यका ।
सखीसहस्रसंयुक्ता गुरुपुत्र्या च
भामिनी ॥ ६ ॥
देवयान्या पुरोद्याने
पुष्पितद्रुमसंकुले ।
व्यचरत् कलगीतालि नलिनीपुलिनेऽबला ॥ ७
॥
ता जलाशयम आसाद्य कन्याः कमललोचनाः ।
तीरे न्यस्य दुकूलानि विजह्रुः
सिञ्चतीर्मिथः ॥ ८ ॥
वीक्ष्य व्रजन्तं गिरिशं सह देव्या
वृषस्थितम् ।
सहसोत्तीर्य वासांसि
पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥
शर्मिष्ठाजानती वासो गुरुपुत्र्याः
समव्ययत् ।
स्वीयं मत्वा प्रकुपिता देवयानी
इदमब्रवीत् ॥ १० ॥
अहो निरीक्ष्यतामस्या दास्याः कर्म
ह्यसाम्प्रतम् ।
अस्मद्धार्यं धृतवती शुनीव हविरध्वरे
॥ ११ ॥
यैरिदं तपसा सृष्टं मुखं पुंसः परस्य
ये ।
धार्यते यैरिह ज्योतिः शिवः पन्थाः
प्रदर्शितः ॥ १२ ॥
यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः
सुरेश्वराः ।
भगवानपि विश्वात्मा पावनः श्रीनिकेतनः
॥ १३ ॥
वयं तत्रापि भृगवः शिष्योऽस्या नः
पितासुरः ।
अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥
एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीं
अभाषत ।
रुषा श्वसन्ति उरंगीघ्गीव धर्षिता
दष्टदच्छदा ॥ १५ ॥
आत्मवृत्तमविज्ञाय कत्थसे बहु
भिक्षुकि ।
किं न प्रतीक्षसेऽस्माकं गृहान्
बलिभुजो यथा ॥ १६ ॥
एवंविधैः सुपरुषैः
क्षिप्त्वाऽऽचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय
मन्युना ॥ १७ ॥
तस्यां गतायां स्वगृहं ययातिर्मृगयां
चरन् ।
प्राप्तो यदृच्छया कूपे जलार्थी तां
ददर्श ह ॥ १८ ॥
दत्त्वा स्वमुत्तरं वासः तस्यै राजा
विवाससे ।
गृहीत्वा पाणिना पाणिं उज्जहार दयापरः
॥ १९ ॥
तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।
राजन् त्वया गृहीतो मे पाणिः
परपुरञ्जय ॥ २० ॥
हस्तग्राहोऽपरो मा भूद्
गृहीतायास्त्वया हि मे ।
एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।
यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१
॥
न ब्राह्मणो मे भविता हस्तग्राहो
महाभुज ।
कचस्य बार्हस्पत्यस्य शापाद् यमशपं
पुरा ॥ २२ ॥
ययातिरनभिप्रेतं दैवोपहृतमात्मनः ।
मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह
तद्वचः ॥ २३ ॥
गते राजनि सा धीरे तत्र स्म रुदती
पितुः ।
न्यवेदयत् ततः सर्वं उक्तं शर्मिष्ठया
कृतम् ॥ २४ ॥
दुर्मना भगवान् काव्यः पौरोहित्यं
विगर्हयन् ।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स
ययौ पुरात् ॥ २५ ॥
वृषपर्वा तमाज्ञाय प्रत्यनीक
विवक्षितम् ।
गुरुं प्रसादयन् मूर्ध्ना पादयोः
पतितः पथि ॥ २६ ॥
क्षणार्ध मन्युर्भगवान् शिष्यं
व्याचष्ट भार्गवः ।
कामोऽस्याः क्रियतां राजन् नैनां
त्यक्तुमिहोत्सहे ॥ २७ ॥
तथेति अवस्थिते प्राह देवयानी मनोगतम्
।
पित्रा दत्ता यतो यास्ये सानुगा यातु
मामनु ॥ २८ ॥
स्वानां तत् संकटं वीक्ष्य तदर्थस्य च
गौरवम् ।
देवयानीं पर्यचरत् स्त्रीसहस्रेण
दासवत् ॥ २९ ॥
नाहुषाय सुतां दत्त्वा सह
शर्मिष्ठयोशना ।
तमाह राजन् शर्मिष्ठां आधास्तल्पे न
कर्हिचित् ॥ ३० ॥
विलोक्यौशनसीं राजन् शर्मिष्ठा
सप्रजां क्वचित् ।
तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥
३१ ॥
राजपुत्र्यार्थितोऽपत्ये धर्मं
चावेक्ष्य धर्मवित् ।
स्मरन् शुक्रवचः काले
दिष्टमेवाभ्यपद्यत ॥ ३२ ॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत
।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा
वार्षपर्वणी ॥ ३३ ॥
गर्भसंभवमासुर्या भर्तुर्विज्ञाय
मानिनी ।
देवयानी पितुर्गेहं ययौ
क्रोधविमूर्छिता ॥ ३४ ॥
प्रियां अनुगतः कामी वचोभिः
उपमन्त्रयन् ।
न प्रसादयितुं शेके पादसंवाहनादिभिः ॥
३५ ॥
शुक्रस्तमाह कुपितः
स्त्रीकामानृतपूरुष ।
त्वां जरा विशतां मन्द विरूपकरणी
नृणाम् ॥ ३६ ॥
श्रीययातिरुवाच
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन्
दुहितरि स्म ते ।
व्यत्यस्यतां यथाकामं वयसा
योऽभिधास्यति ॥ ३७ ॥
इति लब्धव्यवस्थानः पुत्रं
ज्येष्ठमवोचत ।
यदो तात प्रतीच्छेमां जरां देहि निजं
वयः ॥ ३८ ॥
मातामहकृतां वत्स न तृप्तो
विषयेष्वहम् ।
वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥
३९ ॥
यदुरुवाच
नोत्सहे जरसा स्थातुं अन्तरा
प्राप्तया तव ।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं
नैति पूरुषः ॥ ४० ॥
तुर्वसुश्चोदितः पित्रा
द्रुह्युश्चानुश्च भारत ।
प्रत्याचख्युरधर्मज्ञा ह्यनित्ये
नित्यबुद्धयः ॥ ४१ ॥
अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम्
।
न त्वं अग्रजवद् वत्स मां
प्रत्याख्यातुमर्हसि ॥ ४२ ॥
पूरुरुवाच
को नु लोके मनुष्येन्द्र
पितुरात्मकृतः पुमान् ।
प्रतिकर्तुं क्षमो यस्य प्रसादाद्
विन्दते परम् ॥ ४३ ॥
उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी
तु मध्यमः ।
अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं
पितुः ॥ ४४ ॥
इति प्रमुदितः पूरुः
प्रत्यगृह्णाज्जरां पितुः ।
सोऽपि तद्वयसा कामान् यथावज्जुजुषे
नृप ॥ ४५ ॥
सप्तद्वीपपतिः सम्यक् पितृवत् पालयन्
प्रजाः ।
यथोपजोषं विषयान्
जुजुषेऽव्याहतेन्द्रियः ॥ ४६ ॥
देवयान्यप्यनुदिनं मनोवाग्
देहवस्तुभिः ।
प्रेयसः परमां प्रीतिं उवाह प्रेयसी
रहः ॥ ४७ ॥
अयजद् यज्ञपुरुषं
क्रतुभिर्भूरिदक्षिणैः ।
सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥
४८ ॥
यस्मिन्निदं विरचितं व्योम्नीव
जलदावलिः ।
नानेव भाति नाभाति स्वप्नमायामनोरथः ॥
४९ ॥
तमेव हृदि विन्यस्य वासुदेवं गुहाशयम्
।
नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥
५० ॥
एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम्
।
विदधानोऽपि नातृप्यत् सार्वभौमः
कदिन्द्रियैः ॥ ५१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
thanks for a lovly feedback