bhagwat chapter 9.16 |
श्रीशुक उवाच
पित्रोपशिक्षितो रामः तथेति कुरुनन्दन
।
संवत्सरं तीर्थयात्रां चरित्वाऽऽश्रममाव्रजत् ॥ १ ॥
कदाचित् रेणुका याता गंगायां
पद्ममालिनम् ।
गन्धर्वराजं क्रीडन्तं अप्सरोभिरपश्यत
॥ २ ॥
विलोकयन्ती क्रीडन्तं उदकार्थं नदीं
गता ।
होमवेलां न सस्मार किञ्चित्
चित्ररथस्पृहा ॥ ३ ॥
कालात्ययं तं विलोक्य मुनेः
शापविशंकिता ।
आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः
॥ ४ ॥
व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः
प्रकुपितोऽब्रवीत् ।
घ्नतैनां पुत्रकाः पापां
इत्युक्तास्ते न चक्रिरे ॥ ५ ॥
रामः सञ्चोदितः पित्रा भ्रातॄन्
मात्रा सहावधीत् ।
प्रभावज्ञो मुनेः सम्यक्
समाधेस्तपसश्च सः ॥ ६ ॥
वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः
।
वव्रे हतानां रामोऽपि जीवितं
चास्मृतिं वधे ॥ ७ ॥
उत्तस्थुस्ते कुशलिनो निद्रापाय
इवाञ्जसा ।
पितुर्विद्वान् तपोवीर्यं रामश्चक्रे
सुहृद्वधम् ॥ ८ ॥
येऽर्जुनस्य सुता राजन् स्मरन्तः
स्वपितुर्वधम् ।
रामवीर्यपराभूता लेभिरे शर्म न
क्वचित् ॥ ९ ॥
एकदाश्रमतो रामे सभ्रातरि वनं गते ।
वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन्
॥ १० ॥
दृष्ट्वाग्न्यगार आसीनं आवेशितधियं
मुनिम् ।
भगवति उत्तमश्लोके जघ्नुस्ते
पापनिश्चयाः ॥ ११ ॥
याच्यमानाः कृपणया राममात्रातिदारुणाः
।
प्रसह्य शिर उत्कृत्य निन्युस्ते
क्षत्रबन्धवः ॥ १२ ॥
रेणुका दुःखशोकार्ता
निघ्नन्त्यात्मानमात्मना ।
राम रामेति तातेति विचुक्रोशोच्चकैः
सती ॥ १३ ॥
तदुपश्रुत्य दूरस्था हा
रामेत्यार्तवत्स्वनम् ।
त्वरयाऽऽश्रममासाद्य ददृशुः पितरं
हतम् ॥ १४ ॥
ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः ।
हा तात साधो धर्मिष्ठ त्यक्त्वास्मान्
स्वर्गतो भवान्॥१५॥
विलप्यैवं पितुर्देहं निधाय भ्रातृषु
स्वयम् ।
प्रगृह्य परशुं रामः क्षत्रान्ताय मनो
दधे ॥ १६ ॥
गत्वा माहिष्मतीं रामो
ब्रह्मघ्नविहतश्रियम् ।
तेषां स शीर्षभी राजन् मध्ये चक्रे
महागिरिम्॥ १७ ॥
तद् रक्तेन नदीं घोरां
अब्रह्मण्यभयावहाम् ।
हेतुं कृत्वा पितृवधं
क्षत्रेऽमंगलकारिणि ॥ १८ ॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा
निःक्षत्रियां प्रभुः ।
समन्तपञ्चके चक्रे शोणितोदान् ह्रदान्
नृप ॥ १९ ॥
पितुः कायेन सन्धाय शिर आदाय बर्हिषि
।
सर्वदेवमयं देवं आत्मानं अयजन्मखैः ॥
२० ॥
ददौ प्राचीं दिशं होत्रे ब्रह्मणे
दक्षिणां दिशम् ।
अध्वर्यवे प्रतीचीं वै उद्गात्रे
उत्तरां दिशम् ॥ २१ ॥
अन्येभ्योऽवान्तरदिशः कश्यपाय च
मध्यतः ।
आर्यावर्तं उपद्रष्ट्रे
सदस्येभ्यस्ततः परम् ॥ २२ ॥
ततश्चावभृथस्नान विधूताशेषकिल्बिषः ।
सरस्वत्यां महानद्यां रेजे व्यभ्र
इवांशुमान् ॥ २३ ॥
स्वदेहं जमदग्निस्तु लब्ध्वा
संज्ञानलक्षणम् ।
ऋषीणां मण्डले सोऽभूत् सप्तमो
रामपूजितः ॥ २४ ॥
जामदग्न्योऽपि भगवान् रामः कमललोचनः ।
आगामिन्यन्तरे राजन् वर्तयिष्यति वै
बृहत् ॥ २५ ॥
आस्तेऽद्यापि महेन्द्राद्रौ
न्यस्तदण्डः प्रशान्तधीः ।
उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥
२६ ॥
एवं भृगुषु विश्वात्मा भगवान्
हरिरीश्वरः ।
अवतीर्य परं भारं भुवोऽहन् बहुशो
नृपान् ॥ २७ ॥
गाधेरभूत् महातेजाः समिद्ध इव पावकः ।
तपसा क्षात्रमुत्सृज्य यो लेभे
ब्रह्मवर्चसम् ॥ २८ ॥
विश्वामित्रस्य चैवासन् पुत्रा एकशतं
नृप ।
मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव
ते ॥ २९ ॥
पुत्रं कृत्वा शुनःशेपं देवरातं च
भार्गवम् ।
आजीगर्तं सुतानाह ज्येष्ठ एष
प्रकल्प्यताम् ॥ ३० ॥
यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः
पशुः ।
स्तुत्वा देवान् प्रजेशादीन् मुमुचे
पाशबन्धनात् ॥ ३१ ॥
यो रातो देवयजने देवैर्गाधिषु तापसः ।
देवरात इति ख्यातः शुनःशेपस्तु
भार्गवः ॥ ३२ ॥
ये मधुच्छन्दसो ज्येष्ठाः कुशलं
मेनिरे न तत् ।
अशपत् तान् मुनिः क्रुद्धो म्लेच्छा
भवत दुर्जनाः ॥ ३३ ॥
स होवाच मधुच्छन्दाः सार्धं पञ्चाशता
ततः ।
यन्नो भवान् संजानीते तस्मिन्
तिष्ठामहे वयम् ॥ ३४ ॥
ज्येष्ठं मन्त्रदृशं चक्रुः त्वां
अन्वञ्चो वयं स्म हि ।
विश्वामित्रः सुतानाह वीरवन्तो
भविष्यथ ।
ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त
माम् ॥ ३५ ॥
एष वः कुशिका वीरो देवरातस्तमन्वित ।
अन्ये चाष्टकहारीत जयक्रतुमदादयः ॥ ३६
॥
एवं कौशिकगोत्रं तु विश्वामित्रैः
पृथग्विधम् ।
प्रवरान्तरमापन्नं तद्धि चैवं
प्रकल्पितम् ॥ ३७ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे षोडशोऽध्यायः ॥१६॥
thanks for a lovly feedback