bhagwat chapter 9.15 |
श्रीशुक
उवाच
ऐलस्य च उर्वशीगर्भात् षडासन्नात्मजा
नृप ।
आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥ १ ॥
श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च
श्रुतञ्जयः ।
रयस्य सुत एकश्च जयस्य तनयोऽमितः ॥ २
॥
भीमस्तु विजयस्याथ काञ्चनो
होत्रकस्ततः ।
तस्य जह्नुः सुतो गंगां गण्डूषीकृत्य
योऽपिबत् ।
जह्नोस्तु पूरुस्तस्याथ
बलाकश्चात्मजोऽजकः ॥ ३ ॥
ततः कुशः कुशस्यापि कुशाम्बुस्तनयो
वसुः ।
कुशनाभश्च चत्वारो गाधिरासीत्
कुशाम्बुजः ॥ ४ ॥
तस्य सत्यवतीं कन्यां ऋचीकोऽयाचत
द्विजः ।
वरं विसदृशं मत्वा
गाधिर्भार्गवमब्रवीत् ॥ ५ ॥
एकतः श्यामकर्णानां हयानां
चन्द्रवर्चसाम् ।
सहस्रं दीयतां शुल्कं कन्यायाः कुशिका
वयम् ॥ ६ ॥
इत्युक्तस्तन्मतं ज्ञात्वा गतः स
वरुणान्तिकम् ।
आनीय दत्त्वा तान् अश्वान् उपयेमे
वराननाम् ॥ ७ ॥
स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा
चापत्यकाम्यया ।
श्रपयित्वोभयैर्मन्त्रैः चरुं स्नातुं
गतो मुनिः ॥ ८ ॥
तावत् सत्यवती मात्रा स्वचरुं याचिता
सती ।
श्रेष्ठं मत्वा तयायच्छन् मात्रे
मातुरदत् स्वयम् ॥ ९ ॥
तद् विज्ञाय मुनिः प्राह पत्नीं
कष्टमकारषीः ।
घोरो दण्डधरः पुत्रो भ्राता ते
ब्रह्मवित्तमः ॥ १० ॥
प्रसादितः सत्यवत्या मैवं भूरिति
भार्गवः ।
अथ तर्हि भवेत् पौत्रो
जमदग्निस्ततोऽभवत् ॥ ११ ॥
सा चाभूत् सुमहपुण्या कौशिकी लोकपावनी
।
रेणोः सुतां रेणुकां वै जमदग्निरुवाह
याम् ॥ १२ ॥
तस्यां वै भार्गवऋषेः सुता वसुमदादयः
।
यवीयान्जज्ञ एतेषां राम
इत्यभिविश्रुतः ॥ १३ ॥
यमाहुर्वासुदेवांशं हैहयानां
कुलान्तकम् ।
त्रिःसप्तकृत्वो य इमां चक्रे
निःक्षत्रियां महीम् ॥ १४ ॥
दुष्टं क्षत्रं भुवो भारं अब्रह्मण्यं
अनीनशत् ।
रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि
॥ १५ ॥
राजोवाच
किं तदंहो भगवतो राजन्यैरजितात्मभिः ।
कृतं येन कुलं नष्टं क्षत्रियाणां
अभीक्ष्णशः ॥ १६ ॥
श्रीशुक उवाच
हैहयानां अधिपतिः अर्जुनः
क्षत्रियर्षभः ।
दत्तं नारायण अंशांशं आराध्य
परिकर्मभिः ॥ १७ ॥
बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु ।
अव्याहतेन्द्रियौजः श्री
तेजोवीर्ययशोबलम् ॥ १८ ॥
योगेश्वरत्वं ऐश्वर्यं गुणा
यत्राणिमादयः ।
चचार अव्याहतगतिः लोकेषु पवनो यथा ॥
१९ ॥
स्त्रीरत्नैः आवृतः क्रीडन्
रेवाम्भसि मदोत्कटः ।
वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं
भुजैः ॥ २० ॥
विप्लावितं स्वशिबिरं
प्रतिस्रोतःसरिज्जलैः ।
नामृष्यत् तस्य तद् वीर्यं वीरमानी
दशाननः ॥ २१ ॥
गृहीतो लीलया स्त्रीणां समक्षं
कृतकिल्बिषः ।
माहिष्मत्यां सन्निरुद्धो मुक्तो येन
कपिर्यथा ॥ २२ ॥
स एकदा तु मृगयां विचरन् विजने वने ।
यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत् ॥
२३ ॥
तस्मै स नरदेवाय
मुनिरर्हणमाहरत् ।
ससैन्यामात्यवाहाय हविष्मत्या तपोधनः
॥ २४ ॥
स वै रत्नं तु तद् दृष्ट्वा
आत्मैश्वर्यातिशायनम् ।
तन्नाद्रियताग्निहोत्र्यां साभिलाषः स
हैहयः ॥ २५ ॥
हविर्धानीं ऋषेर्दर्पान् नरान् हर्तुमचोदयत्
।
ते च माहिष्मतीं निन्युः सवत्सां
क्रन्दतीं बलात्॥२६॥
अथ राजनि निर्याते राम आश्रम आगतः ।
श्रुत्वा तत् तस्य दौरात्म्यं
चुक्रोधाहिरिवाहतः ॥ २७ ॥
घोरमादाय परशुं सतूणं चर्म कार्मुकम्
।
अन्वधावत दुर्धर्षो मृगेन्द्र इव
यूथपम् ॥ २८ ॥
तं आपतन्तं भृगुवर्यमोजसा
धनुर्धरं बाणपरश्वधायुधम् ।
ऐणेयचर्माम्बरमर्कधामभिः
युतं जटाभिर्ददृशे पुरीं विशन् ॥
२९ ॥
अचोदयद्धस्तिरथाश्वपत्तिभिः
गदासिबाणर्ष्टिशतघ्निशक्तिभिः ।
अक्षौहिणीः सप्तदशातिभीषणाः
ता राम एको भगवानसूदयत् ॥ ३० ॥
यतो यतोऽसौ प्रहरत्परश्वधो
मनोऽनिलौजाः परचक्रसूदनः ।
ततस्ततश्छिन्नभुजोरुकन्धरा
निपेतुरुर्व्यां हतसूतवाहनाः ॥ ३१ ॥
दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे
रणाजिरे रामकुठारसायकैः ।
विवृक्णचर्मध्वजचापविग्रहं
निपातितं हैहय आपतद् रुषा ॥ ३२ ॥
अथार्जुनः पञ्चशतेषु बाहुभिः
धनुःषु
बाणान् युगपत् स सन्दधे ।
रामाय रामोऽस्त्रभृतां समग्रणीः
तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥
पुनः स्वहस्तैरचलान्मृधेङ्घ्रिपान्
उत्क्षिप्य वेगाद् अभिधावतो युधि
।
भुजान् कुठारेण कठोरनेमिना
चिच्छेद रामः प्रसभं त्वहेरिव ॥
३४ ॥
कृत्तबाहोः शिरस्तस्य गिरेः
श्रृङमिवाहरत् ।
हते पितरि तत्पुत्रा अयुतं
दुद्रुवुर्भयात् ॥ ३५ ॥
अग्निहोत्रीं उपावर्त्य सवत्सां
परवीरहा ।
समुपेत्याश्रमं पित्रे परिक्लिष्टां
समर्पयत् ॥ ३६ ॥
स्वकर्म तत्कृतं रामः पित्रे
भ्रातृभ्य एव च ।
वर्णयामास तत् श्रुत्वा जमदग्निरभाषत
॥ ३७ ॥
राम राम महाबाहो भवान् पापमकारषीत् ।
अवधीत् नरदेवं यत् सर्वदेवमयं वृथा ॥
३८ ॥
वयं हि ब्राह्मणास्तात क्षमयार्हणतां
गताः ।
यया लोकगुरुर्देवः पारमेष्ठ्यमगात्
पदम् ॥ ३९ ॥
क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी
यथा प्रभा ।
क्षमिणामाशु भगवान् तुष्यते
हरिरीश्वरः ॥ ४० ॥
राज्ञो मूर्धाभिषिक्तस्य वधो
ब्रह्मवधाद् गुरुः ।
तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः
॥ ४१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
thanks for a lovly feedback