bhagwat chapter 9.11 |
श्रीशुक
उवाच
भगवान् आत्मनात्मानं राम उत्तमकल्पकैः
।
सर्वदेवमयं देवं ईजे आचार्यवान् मखैः
॥ १ ॥
होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे
दक्षिणां प्रभुः ।
अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय
सः ॥ २ ॥
आचार्याय ददौ शेषां यावती भूस्तदन्तरा
।
मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति
निःस्पृहः ॥ ३ ॥
इत्ययं तदलङ्कार वासोभ्यामवशेषितः ।
तथा राज्ञ्यपि वैदेही सौमङ्गल्या
अवशेषिता ॥ ४ ॥
ते तु ब्राह्मणदेवस्य वात्सल्यं
वीक्ष्य संस्तुतम् ।
प्रीताः क्लिन्नधियस्तस्मै
प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥
अप्रत्तं नस्त्वया किं नु भगवन्
भुवनेश्वर ।
यन्नोऽन्तर्हृदयं विश्य तमो हंसि
स्वरोचिषा ॥ ६ ॥
नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे
।
उत्तमश्लोकधुर्याय
न्यस्तदण्डार्पिताङ्घ्र्यये ॥ ७ ॥
कदाचित् लोकजिज्ञासुः गूढो
रात्र्यामलक्षितः ।
चरन् वाचोऽश्रृणोद् रामो भार्यां
उद्दिश्य कस्यचित् ॥ ८ ॥
नाहं बिभर्मि त्वां दुष्टां असतीं
परवेश्मगाम् ।
स्त्रैणो हि बिभृयात् सीतां रामो नाहं
भजे पुनः ॥ ९ ॥
इति लोकाद् बहुमुखाद्
दुराराध्यादसंविदः ।
पत्या भीतेन सा त्यक्ता प्राप्ता
प्राचेतसाश्रमम् ॥ १० ॥
अन्तर्वत्न्यागते काले यमौ सा सुषुवे
सुतौ ।
कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया
मुनिः ॥११॥
अङ्गदश्चित्रकेतुश्च
लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्षः पुष्कल इत्यास्तां भरतस्य
महीपते ॥ १२ ॥
सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य
बभूवतुः ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये
दिशाम् ॥ १३ ॥
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत्
।
शत्रुघ्नश्च मधोः पुत्रं लवणं नाम
राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै
पुरीम् ॥ १४ ॥
मुनौ निक्षिप्य तनयौ सीता भर्त्रा
विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥
१५ ॥
तर् श्रुत्वा भगवान् रामो रुन्धन्नपि
धिया शुचः ।
स्मरंस्तस्या गुणान् तान् तान्
नाशक्नोत् रोद्धुमीश्वरः ॥ १६ ॥
स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र
त्रासमावहः ।
अपीश्वराणां किमुत ग्राम्यस्य
गृहचेतसः ॥ १७ ॥
तत ऊर्ध्वं ब्रह्मचर्यं धारयन्
अजुहोत् प्रभुः ।
त्रयोदशाब्दसाहस्रं अग्निहोत्रं
अखण्डितम् ॥ १८ ॥
स्मरतां हृदि विन्यस्य विद्धं
दण्डककण्टकैः ।
स्वपादपल्लवं राम आत्मज्योतिरगात् ततः
॥ १९ ॥
नेदं यशो रघुपतेः सुरयाच्ञयात्त
लीलातनोरधिकसाम्यविमुक्तधाम्नः।
रक्षोवधो जलधिबन्धनमस्त्र पूगैः
किं तस्य शत्रुहनने कपयः सहायाः ॥ २० ॥
यस्यामलं नृपसस्सु यशोऽधुनापि
गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम्।
तं नाकपालवसुपालकिरीटजुष्ट
पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ २१ ॥
स यैः स्पृष्टोऽभिदृष्टो वा
संविष्टोऽनुगतोऽपि वा ।
कोसलास्ते ययुः स्थानं यत्र गच्छन्ति
योगिनः ॥ २२ ॥
पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैः
विमुच्यते ॥ २३ ॥
श्रीराजोवाच
कथं स भगवान् रामो भ्रातॄन् वा
स्वयमात्मनः ।
तस्मिन् वा तेऽन्ववर्तन्त प्रजाः
पौराश्च ईश्वरे ॥ २४ ॥
श्रीशुक उवाच
अथादिशद् दिग्विजये भ्रातॄन्
त्रिभुवनेश्वरः ।
आत्मानं दर्शयन् स्वानां पुरीमैक्षत
सानुगः ॥ २५ ॥
आसिक्तमार्गां गन्धोदैः करिणां
मदशीकरैः ।
स्वामिनं प्राप्तमालोक्य मत्तां वा
सुतरामिव ॥ २६ ॥
प्रासादगोपुरसभा चैत्यदेवगृहादिषु ।
विन्यस्तहेमकलशैः पताकाभिश्च
मण्डिताम् ॥ २७ ॥
पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः
सुवाससाम् ।
आदर्शैरंशुकैः स्रग्भिः
कृतकौतुकतोरणाम् ॥ २८ ॥
तं उपेयुस्तत्र
तत्र पौरा अर्हणपाणयः ।
आशिषो युयुजुर्देव पाहीमां प्राक्
त्वयोद्धृताम् ॥ २९ ॥
ततः प्रजा वीक्ष्य पतिं चिरागतं
दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः ।
आरुह्य हर्म्याण्यरविन्दलोचनं
अतृप्तनेत्राः कुसुमैरवाकिरन् ॥ ३० ॥
अथ प्रविष्टः स्वगृहं जुष्टं स्वैः
पूर्वराजभिः ।
अनन्ताखिलकोषाढ्यं
मनर्घ्योरुपरिच्छदम् ॥ ३१ ॥
विद्रुमोदुम्बरद्वारैः वैदूर्य
स्तंभपङ्क्तिभिः ।
स्थलैर्मारकतैः स्वच्छैः
भाजत्स्फटिकभित्तिभिः ॥ ३२ ॥
चित्रस्रग्भिः पट्टिकाभिः
वासोमणिगणांशुकैः ।
मुक्ताफलैश्चिदुल्लासैः
कान्तकामोपपत्तिभिः ॥ ३३ ॥
धूपदीपैः सुरभिभिः मण्डितं
पुष्पमण्डनैः ।
स्त्रीपुम्भिः सुरसङ्काशैः जुष्टं
भूषणभूषणैः ॥ ३४ ॥
तस्मिन् स भगवान् रामः स्निग्धया
प्रिययेष्टया ।
रेमे स्वारामधीराणां ऋषभः सीतया किल ॥
३५ ॥
बुभुजे च यथाकालं कामान् धर्ममपीडयन्
।
वर्षपूगान् बहून् नृणां
अभिध्यातांघ्रिपल्लवः ॥ ३६ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
thanks for a lovly feedback