bhagwat chapter 9.10 |
श्रीशुक
उवाच
खट्वांगात दीर्घबाहुश्च रघुस्तस्मात्
पृथुश्रवाः ।
अजस्ततो महाराजः तस्मात् दशरथोऽभवत् ॥ १ ॥
तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो
हरिः ।
अंशांशेन चतुर्धागात् पुत्रत्वं
प्रार्थितः सुरैः ।
रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया
॥ २ ॥
तस्यानुचरितं राजन् ऋषिभिः
तत्त्वदर्शिभिः ।
श्रुतं हि वर्णितं भूरि त्वया
सीतापतेर्मुहुः ॥ ३ ॥
गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं
पद्मपद्भ्यां प्रियायाः
पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो
यो हरीन्द्रानुजाभ्याम् ।
वैरूप्यात् शूर्पणख्याः
प्रियविरहरुषाऽऽ
रोपितभ्रूविजृम्भ
त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः
कोसलेन्द्रोऽवतान्नः॥ ४ ॥
विश्वामित्राध्वरे येन मारीचाद्या
निशाचराः ।
पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुंगवाः
॥ ५ ॥
यो लोकवीरसमितौ धनुरैशमुग्रं
सीतास्वयंवरगृहे त्रिशतोपनीतम् ।
आदाय बालगजलील इवेक्षुयष्टिं
सज्जीकृतं
नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥
जित्वानुरूपगुणशीलवयोऽङ्गरूपां
सीताभिधां
श्रियमुरस्यभिलब्धमानाम् ।
मार्गे व्रजन् भृगुपतेर्व्यनयत्
प्ररूढं
दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥
यः सत्यपाशपरिवीतपितुर्निदेशं
स्त्रैणस्य चापि शिरसा जगृहे
सभार्यः ।
राज्यं श्रियं प्रणयिनः सुहृदो निवासं
त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः
॥ ८ ॥
रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेः
तस्याः खरत्रिशिरदूषणमुख्यबन्धून्
।
जघ्ने चतुर्दशसहस्रमपारणीय
कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥
९ ॥
सीताकथाश्रवणदीपितहृच्छयेन
सृष्टं विलोक्य नृपते दशकन्धरेण।
जघ्नेऽद्भुतैण वपुषाऽऽश्रमतोऽपकृष्टो
मारीचमाशु विशिखेन यथा कमुग्रः॥
१० ॥
रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं
वैदेहराजदुहितर्यपयापितायाम् ।
भ्रात्रा वने कृपणवत्प्रियया वियुक्तः
स्त्रीसङ्गिनां गतिमिति
प्रथयंश्चचार ॥ ११ ॥
दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं
सख्यं विधाय कपिभिर्दयितागतिं तैः।
बुद्ध्वाथ वालिनि हते
प्लवगेन्द्रसैन्यैः
वेलामगात् स मनुजोऽजभवार्चिताङ्घ्रि
॥ १२ ॥
यद्रोषविभ्रमविवृत्तकटाक्षपात
सम्भ्रान्तनक्रमकरो भयगीर्णघोषः।
सिन्धुः शिरस्यर्हणं परिगृह्य रूपी ।
पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥
न त्वां वयं जडधियो नु विदाम भूमन्
कूटस्थमादिपुरुषं जगतामधीशम् ।
यत्सत्त्वतः सुरगणा रजसः प्रजेशा
मन्योश्च भूतपतयः स भवान्गुणेशः ॥ १४ ॥
कामं प्रयाहि जहि विश्रवसोऽवमेहं
त्रैलोक्य रावणमवाप्नुहि वीर पत्नीम्
।
बध्नीहि सेतुमिह ते यशसो वितत्यै
गायन्ति दिग्विजयिनो यमुपेत्य
भूपाः ॥ १५ ॥
बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः
सेतुं
कपीन्द्रकरकम्पितभूरुहाङ्गैः ।
सुग्रीवनीलहनुमत् प्रमुखैरनीकैः
लङ्कां विभीषणदृशाविशदग्रदग्धाम्
॥ १६ ॥
सा वानरेन्द्रबलरुद्धविहारकोष्ठ
श्रीद्वारगोपुरसदोवलभीविटङ्का।
निर्भज्यमानधिषणध्वजहेमकुम्भ
श्रृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥
रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ
धूम्राक्ष दुर्मुख सुरान्तनरान्तकादीन्।
पुत्रं प्रहस्त मतिकाय विकम्पनादीन्
सर्वानुगान् समहिनोदथ कुम्भकर्णम्
॥ १८ ॥
तां यातुधानपृतनामसिशूलचाप
प्रासर्ष्टिशक्तिशरतोमर खड्गदुर्गाम् ।
सुग्रीवलक्ष्मण मरुत्सुतगन्धमाद
नीलाङ्गदर्क्षपनसादिभिः
अन्वितोऽगात् ॥ १९ ॥
तेऽनीकपा रघुपतेरभिपत्य सर्वे
द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ।
जघ्नुर्द्रुमैः गिरिगदेषुभिरङ्गदाद्याः
सीताभिमर्षहतमङ्गल रावणेशान् ॥ २० ॥
रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट
आरुह्य यानकमथाभिससार रामम् ।
स्वःस्यन्दने द्युमति मातलिनोपनीते
विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥ २१ ॥
रामस्तमाह पुरुषादपुरीष यन्नः
कान्तासमक्षमसतापहृता श्ववत् ते ।
त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य
यच्छामि काल इव कर्तुरलंघ्यवीर्यः॥
२२ ॥
एवं क्षिपन्धनुषि संधितमुत्ससर्ज
बाणं स वज्रमिव तद्हृदयं बिभेद ।
सोऽसृग् वमन् दशमुखैर्न्यपतद्
विमानाद्
हाहेति जल्पति जने सुकृतीव रिक्तः
॥ २३ ॥
ततो निष्क्रम्य लंकाया यातुधान्यः
सहस्रशः ।
मन्दोदर्या समं तस्मिन् प्ररुदन्त्य
उपाद्रवन् ॥ २४ ॥
स्वान् स्वान् बन्धून् परिष्वज्य
लक्ष्मणेषुभिरर्दितान् ।
रुरुदुः सुस्वरं दीना घ्नन्त्य
आत्मानमात्मना ॥ २५ ॥
हा हताः स्म वयं नाथ लोकरावण रावण ।
कं यायाच्छरणं लंका त्वद्विहीना
परार्दिता ॥ २६ ॥
न वै वेद महाभाग भवान् कामवशं गतः ।
तेजोऽनुभावं सीताया येन नीतो
दशामिमाम् ॥ २७ ॥
कृतैषा विधवा लंका वयं च कुलनन्दन ।
देहः कृतोऽन्नं गृध्राणां आत्मा
नरकहेतवे ॥ २८ ॥
श्रीशुक उवाच
स्वानां विभीषणश्चक्रे
कोसलेन्द्रानुमोदितः ।
पितृमेधविधानेन यदुक्तं सांपरायिकम् ॥
२९ ॥
ततो ददर्श भगवान् अशोकवनिकाश्रमे ।
क्षामां स्वविरहव्याधिं
शिंशपामूलमास्थिताम् ॥ ३० ॥
रामः प्रियतमां भार्यां दीनां
वीक्ष्यान्वकंपत ।
आत्मसंदर्शनाह्लाद विकसन् मुखपंकजाम्
॥ ३१ ॥
आरोप्यारुरुहे यानं भ्रातृभ्यां
हनुमद्युतः ।
विभीषणाय भगवान् दत्त्वा
रक्षोगणेशताम् ॥ ३२ ॥
लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः
पुरीम् ।
अवकीर्यमाणः कुसुमैः लोकपालार्पितैः
पथि ॥ ३३ ॥
उपगीयमानचरितः शतधृत्यादिभिर्मुदा ।
गोमूत्रयावकं श्रुत्वा भ्रातरं
वल्कलाम्बरम् ॥ ३४ ॥
महाकारुणिकोऽतप्यत् जटिलं
स्थण्डिलेशयम् ।
भरतः प्राप्तमाकर्ण्य
पौरामात्यपुरोहितैः ॥ ३५ ॥
पादुके शिरसि न्यस्य रामं
प्रत्युद्यतोऽग्रजम् ।
नन्दिग्रामात् स्वशिबिराद्
गीतवादित्रनिःस्वनैः ॥ ३६ ॥
ब्रह्मघोषेण च मुहुः पठद्भिः
ब्रह्मवादिभिः ।
स्वर्णकक्षपताकाभिः हैमैश्चित्रध्वजै
रथैः ॥ ३७ ॥
सदश्वै रुक्मसन्नाहैः भटैः
पुरटवर्मभिः ।
श्रेणीभिर्वारमुख्याभिः भृत्यैश्चैव
पदानुगैः ॥ ३८ ॥
पारमेष्ठ्यान्युपादाय
पण्यान्युच्चावचानि च ।
पादयोर्न्यपतत् प्रेम्णा
प्रक्लिन्नहृदयेक्षणः ॥ ३९ ॥
पादुके न्यस्य पुरतः
प्राञ्जलिर्बाष्पलोचनः ।
तमाश्लिष्य चिरं दोर्भ्यां स्नापयन्
नेत्रजैर्जलैः ॥ ४० ॥
रामो लक्ष्मणसीताभ्यां विप्रेभ्यो
येऽर्हसत्तमाः ।
तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च
नमस्कृतः ॥ ४१ ॥
धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य
चिरागतम् ।
उत्तराः कोसला माल्यैः किरन्तो
ननृतुर्मुदा ॥ ४२ ॥
पादुके भरतोऽगृह्णात् चामरव्यजनोत्तमे
।
विभीषणः ससुग्रीवः श्वेतच्छत्रं
मरुत्सुतः ॥ ४३ ॥
धनुर्निषङ्गान् शत्रुघ्नः सीता
तीर्थकमण्डलुम् ।
अबिभ्रदङ्गदः खड्गं हैमं
चर्मर्क्षराण् नृप ॥ ४४ ॥
पुष्पकस्थोऽन्वितः स्त्रीभिः
स्तूयमानश्च वन्दिभिः ।
विरेजे भगवान् राजन् ग्रहैश्चन्द्र
इवोदितः ॥ ४५ ॥
भ्रात्राभिर्नन्दितः सोऽपि सोत्सवां
प्राविशत् पुरीम् ।
प्रविश्य राजभवनं गुरुपत्नीः
स्वमातरम् ॥ ४६ ॥
गुरून् वयस्यावरजान् पूजितः
प्रत्यपूजयत् ।
वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः
॥ ४७ ॥
पुत्रान् स्वमातरस्तास्तु
प्राणांस्तन्व इवोत्थिताः ।
आरोप्याङ्केऽभिषिञ्चन्त्यो
बाष्पौघैर्विजहुः शुचः ॥ ४८ ॥
जटा निर्मुच्य विधिवत् कुलवृद्धैः समं
गुरुः ।
अभ्यषिञ्चद् यथैवेन्द्रं
चतुःसिन्धुजलादिभिः ॥ ४९ ॥
एवं कृतशिरःस्नानः सुवासाः
स्रग्व्यलंकृतः ।
स्वलंकृतैः सुवासोभिः
भ्रातृभिर्भार्यया बभौ ॥ ५० ॥
अग्रहीदासनं भ्रात्रा प्रणिपत्य
प्रसादितः ।
प्रजाः स्वधर्मनिरता
वर्णाश्रमगुणान्विताः ।
जुगोप पितृवद् रामो मेनिरे पितरं च
तम् ॥ ५१ ॥
त्रेतायां वर्तमानायां कालः
कृतसमोऽभवत् ।
रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥
५२ ॥
वनानि नद्यो गिरयो वर्षाणि
द्वीपसिन्धवः ।
सर्वे कामदुघा आसन् प्रजानां भरतर्षभ
॥ ५३ ॥
नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः
।
मृत्युश्च अनिच्छतां नासीद् रामे
राजन्यधोक्षजे ॥ ५४ ॥
एकपत्नीव्रतधरो राजर्षिचरितः शुचिः ।
स्वधर्मं गृहमेधीयं शिक्षयन्
स्वयमाचरत् ॥ ५५ ॥
प्रेम्णानुवृत्त्या शीलेन
प्रश्रयावनता सती ।
भिया ह्रिया च भावज्ञा भर्तुः
सीताहरन्मनः ॥ ५६ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे दशमोऽध्यायः॥१०॥
thanks for a lovly feedback