shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat saptam skandh,srimad bhagwatam canto 7, chapter 12, bhagwatdarshan
bhagwat chapter 7.12 |
नारद उवाच
ब्रह्मचारी गुरुकुले
वसन्दान्तो गुरोर्हितम् ।
आचरन् दासवत् नीचो
गुरौ सुदृढसौहृदः ॥ १ ॥
सायं प्रातरुपासीत
गुर्वग्न्यर्कसुरोत्तमान् ।
सन्ध्ये उभे च यतवाग्
जपन्ब्रह्म समाहितः ॥ २ ॥
छन्दांस्यधीयीत गुरोः
आहूतश्चेत् सुयन्त्रितः ।
उपक्रमेऽवसाने च चरणौ
शिरसा नमेत् ॥ ३ ॥
मेखलाजिनवासांसि
जटादण्डकमण्डलून् ।
बिभृयाद् उपवीतं च
दर्भपाणिर्यथोदितम् ॥ ४ ॥
सायं प्रातश्चरेद्भैक्ष्यं
गुरवे तन्निवेदयेत् ।
भुञ्जीत यद्यनुज्ञातो
नो चेदुपवसेत् क्वचित् ॥ ५ ॥
सुशीलो मितभुग् दक्षः
श्रद्दधानो जितेन्द्रियः ।
यावदर्थं व्यवहरेत्
स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥
वर्जयेत्प्रमदागाथां
अगृहस्थो बृहद्व्रतः ।
इन्द्रियाणि
प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ७ ॥
केशप्रसाधनोन्मर्द
स्नपनाभ्यञ्जनादिकम् ।
गुरुस्त्रीभिर्युवतिभिः
कारयेन्नात्मनो युवा ॥ ८ ॥
नन्वग्निः प्रमदा नाम
घृतकुम्भसमः पुमान् ।
सुतामपि रहो जह्याद्
अन्यदा यावदर्थकृत् ॥ ९ ॥
कल्पयित्वाऽऽत्मना
यावद् आभासमिदमीश्वरः ।
द्वैतं तावन्न
विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥
एतत् सर्वं गृहस्थस्य
समाम्नातं यतेरपि ।
गुरुवृत्तिर्विकल्पेन
गृहस्थस्यर्तुगामिनः ॥ ११ ॥
अञ्जनाभ्यञ्जनोन्मर्द
त्र्यवलेखामिषं मधु ।
स्रग्
गन्धलेपालंकारान् त्यजेयुर्ये बृहद्व्रताः ॥ १२ ॥
उषित्वैवं गुरुकुले
द्विजोऽधीत्यावबुध्य च ।
त्रयीं साङ्गोपनिषदं
यावदर्थं यथाबलम् ॥ १३ ॥
दत्त्वा वरमनुज्ञातो
गुरोः कामं यदीश्वरः ।
गृहं वनं वा
प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥
अग्नौ गुरावात्मनि च
सर्वभूतेष्वधोक्षजम् ।
भूतैः स्वधामभिः
पश्येद् अप्रविष्टं प्रविष्टवत् ॥ १५ ॥
एवं विधो ब्रह्मचारी
वानप्रस्थो यतिर्गृही ।
चरन्विदितविज्ञानः
परं ब्रह्माधिगच्छति ॥ १६ ॥
वानप्रस्थस्य
वक्ष्यामि नियमान् मुनिसम्मतान् ।
यानास्थाय
मुनिर्गच्छेद् ऋषिलोकमुहाञ्जसा ॥ १७ ॥
न कृष्टपच्यमश्नीयाद्
अकृष्टं चाप्यकालतः ।
अग्निपक्वमथामं वा
अर्कपक्वमुताहरेत् ॥ १८ ॥
वन्यैश्चरुपुरोडाशान्
निर्वपेत्कालचोदितान् ।
लब्धे नवे
नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥
अग्न्यर्थमेव शरणं
उटजं वाद्रिकन्दरम् ।
श्रयेत हिमवाय्वग्नि
वर्षार्कातपषाट् स्वयम् ॥ २० ॥
केशरोमनखश्मश्रु
मलानि जटिलो दधत् ।
कमण्डल्वजिने दण्ड
वल्कलाग्निपरिच्छदान् ॥ २१ ॥
चरेद् वने
द्वादशाब्दान् अष्टौ वा चतुरो मुनिः ।
द्वावेकं वा यथा
बुद्धिः न विपद्येत कृच्छ्रतः ॥ २२ ॥
यदाकल्पः
स्वक्रियायां व्याधिभिर्जरयाथवा ।
आन्वीक्षिक्यां वा
विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥
आत्मन्यग्नीन्
समारोप्य सन्न्यस्याहं ममात्मताम् ।
कारणेषु न्यसेत्
सम्यक् संघातं तु यथार्हतः ॥ २४ ॥
खे खानि वायौ
निश्वासान् तजःसूष्माणमात्मवान् ।
अप्स्वसृक्श्लेष्मपूयानि
क्षितौ शेषं यथोद्भवम् ॥ २५ ॥
वाचमग्नौ सवक्तव्यां
इन्द्रे शिल्पं करावपि ।
पदानि गत्या वयसि
रत्योपस्थं प्रजापतौ ॥ २६ ॥
मृत्यौ पायुं विसर्गं
च यथास्थानं विनिर्दिशेत् ।
दिक्षु श्रोत्रं
सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥
रूपाणि चक्षुषा राजन्
ज्योतिष्यभिनिवेशयेत् ।
अप्सु प्रचेतसा
जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥
मनो मनोरथैश्चन्द्रे
बुद्धिं बोध्यैः कवौ परे ।
कर्माण्यध्यात्मना
रुद्रे यदहं ममताक्रिया ।
सत्त्वेन चित्तं
क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
अप्सु क्षितिमपो
ज्योतिषि अदो वायौ नभस्यमुम् ।
कूटस्थे तच्च महति
तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥
इत्यक्षरतयाऽऽत्मानं
चिन्मात्रमवशेषितम् ।
ज्ञात्वाद्वयोऽथ
विरमेद् दग्धयोनिरिवानलः ॥ ३१ ॥
इति श्रीमद्भागवते
महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे
युधिष्ठिरनारदसंवादे सदाचारनिर्णयो
नाम द्वादशोऽध्यायः ॥ १२
॥
COMMENTS