भागवत षष्टम स्कन्ध नवम अध्याय ( bhagwat 6.9 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 6.9
bhagwat chapter 6.9

 


              श्रीशुक उवाच


तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।

सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ १ ॥


स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः ।

अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ २ ॥


स एव हि ददौ भागं परोक्षमसुरान् प्रति ।

यजमानोऽवहद्भागं मातृस्नेहवशानुगः ॥ ३ ॥


तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः ।

आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद्रुषा ॥ ४ ॥


सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः ।

कलविङ्कः सुरापीथमन्नादं यत्स तित्तिरिः ॥ ५ ॥


ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः ।

संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ ६ ॥


भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः ।

भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ ७ ॥


ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ।

तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ ८ ॥


तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ।

शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः ।। ९ ॥


रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ।

द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ १० ॥


तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ।

हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ ११ ॥


इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ।

अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ १२ ॥


कृतान्त इव लोकानां युगान्तसमये यथा ।

विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ॥ १३ ॥


दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ।

तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४ ॥


देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी ।

नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥


दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् ।

लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥


महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः ।

वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥


येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना ।

स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १८ ॥


तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः ।

स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत्तानि कृत्स्नशः ॥ १९ ॥


ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।

प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ २० ॥

 

              श्रीदेवा ऊचुः


वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका 

               ब्रह्मादयो ये वयमुद्विजन्तः ।

हराम यस्मै बलिमन्तकोऽसौ 

              बिभेति यस्मादरणं ततो नः ॥ २१ ॥


अविस्मितं तं परिपूर्णकामं 

            स्वेनैव लाभेन समं प्रशान्तम् ।

विनोपसर्पत्यपरं हि बालिशः 

            श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥


यस्योरुशृङ्गे जगतीं स्वनावं 

               मनुर्यथाबध्य ततार दुर्गम् ।

स एव नस्त्वाष्ट्रभयाद्दुरन्ता-

         त्त्राताश्रितान् वारिचरोऽपि नूनम् ॥ २३ ॥


पुरा स्वयम्भूरपि संयमाम्भ-

               स्युदीर्णवातोर्मिरवैः कराले ।

एकोऽरविन्दात्पतितस्ततार 

           तस्माद्भयाद्येन स नोऽस्तु पारः ॥ २४ ॥


य एक ईशो निजमायया नः 

              ससर्ज येनानुसृजाम विश्वम् ।

वयं न यस्यापि पुरः समीहतः 

           पश्याम लिङ्गं पृथगीशमानिनः ॥ २५ ॥


यो नः सपत्नैर्भृशमर्द्यमानान् 

                 देवर्षितिर्यङ्नृषु नित्य एव ।

कृतावतारस्तनुभिः स्वमायया 

            कृत्वात्मसात्पाति युगे युगे च ॥ २६ ॥


तमेव देवं वयमात्मदैवतं 

            परं प्रधानं पुरुषं विश्वमन्यम् ।

व्रजाम सर्वे शरणं शरण्यं 

       स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥

 

             श्रीशुक उवाच


इति तेषां महाराज सुराणामुपतिष्ठताम् ।

प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २८ ॥


आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ ।

पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ २९ ॥


दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः ।

दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः ॥ ३० ॥


             श्रीदेवा ऊचुः


नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।

नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१ ॥


यत्ते गतीनां तिसृणामीशितुः परमं पदम् ।

नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥


ॐ नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥ दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ ३४ ॥ अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ ३५ ॥ न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥ समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ ३७ ॥ स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८ ॥ अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ ३९ ॥त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥ अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥ अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ ४२ ॥ अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ ४३ ॥ 


अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।

ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥


हंसाय दह्रनिलयाय निरीक्षकाय 

        कृष्णाय मृष्टयशसे निरुपक्रमाय ।

सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ता-

           वन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥


             श्रीशुक उवाच


अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः ।

स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६ ॥


             श्रीभगवानुवाच


प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।

आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥


किं दुरापं मयि प्रीते तथापि विबुधर्षभाः ।

मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥


न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।

तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९ ॥


स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि ।

न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ ५० ॥


मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।

विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१ ॥


स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् ।

यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥


दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।

विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥ ५३ ॥


युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति ।

ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः ।

येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ ५४ ॥


तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः ।

भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥


श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 

        षष्ठस्कन्धे नवमोऽध्यायः॥९॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!