भागवत षष्टम स्कन्ध षष्टम अध्याय ( bhagwat 6.6 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 6.6
bhagwat chapter 6.6


 

              

             श्रीशुक उवाच


ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा।

षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः॥ १॥


दश धर्माय कायेन्दोर्द्विषट्त्रिणव दत्तवान् ।

भूताङ्गिरः कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः॥ २॥


नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु ।

यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः॥३॥


भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।

वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्शृणु॥४॥


भानोस्तु देवऋषभ इन्द्र सेनस्ततो नृप ।

विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः॥ ५॥


ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः ।

भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततोऽभवत्॥ ६॥


विश्वेदेवास्तु विश्वाया अप्रजांस्तान्प्रचक्षते ।

साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः॥ ७॥


मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः ।

जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः॥८॥


मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।

ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम्॥९॥


सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।

वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु॥१०॥


द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसुः ।

द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः॥११॥


प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।

ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः॥ १२॥


अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ।

अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः॥ १३॥


स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः ।

दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ १४॥


वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः ।

ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः॥ १५॥


विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।

पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु॥ १६॥


सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः ।

रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः॥ १७॥


अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ।

रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः॥ १८॥


प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ ।

अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती॥१९॥


कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् ।

धिषणायां वेदशिरो देवलं वयुनं मनुम्॥२०॥


तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च ।

पतङ्ग्यसूत पतगान्यामिनी शलभानथ॥२१॥


सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् ।

सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः ॥ २२॥


कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत।

दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥ २३॥


पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः।

शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥ २४॥


अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत्।

अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥ २५॥


मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः।

तिमेर्यादोगणा आसन्श्वापदाः सरमासुताः ॥ २६॥


सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप।

ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ २७॥


दन्दशूकादयः सर्पा राजन्क्रोधवशात्मजाः।

इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ २८॥


अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः।

सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्शृणु ॥ २९॥


द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः।

अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ॥ ३०॥


पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः।

धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥ ३१॥


स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल।

वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२॥


वैश्वानरसुतायाश्च चतस्रश्चारुदर्शनाः।

उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३॥


उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप।

पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ ३४॥


उपयेमेऽथ भगवान्कश्यपो ब्रह्मचोदितः।

पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ ३५॥


तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता।

जघान स्वर्गतो राजन्नेक इन्द्र प्रियङ्करः ॥ ३६॥


विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत्।

राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ॥ ३७॥


अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः।

यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥ ३८॥


विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः।

धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥ ३९॥


विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम्।

मिथुनं च महाभागा यमं देवं यमीं तथा ।

सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४०॥


छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।

कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१॥


अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः ।

यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२॥


पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा।

योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ ४३॥


त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका।

सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४॥


तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि।

विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 

            षष्ठस्कन्धे षष्ठोऽध्यायः।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!