भागवत पञ्चम स्कन्ध द्वितीय अध्याय ( bhagwat 5.2 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 5.2
bhagwat chapter 5.2


श्रीशुक उवाच


एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत् ॥ १॥ स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयां बभूव ॥ २॥तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास ॥ ३ ॥सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरट लतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ॥ ४॥ तस्याः सुललित-गमनपदविन्यास - गतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ॥ ५॥ तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ॥ ६॥ 

 

का त्वं चिकीर्षसि च किं मुनिवर्य शैले

मायासि कापि भगवत्परदेवतायाः।

विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे

       किं वा मृगान्मृगयसे विपिने प्रमत्तान् ॥ ७॥

 

बाणाविमौ भगवतः शतपत्रपत्रौ

शान्तावपुङ्खरुचिरावतितिग्मदन्तौ।

कस्मै युयुङ्क्षसि वने विचरन्न विद्मः

   क्षेमाय नो जडधियां तव विक्रमोऽस्तु॥८॥

 

शिष्या इमे भगवतः परितः पठन्ति

गायन्ति साम सरहस्यमजस्रमीशम्।

युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः

     सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥ ९॥

 

वाचं परं चरणपञ्जरतित्तिरीणां

ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम्।

लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे

     यस्यामलातपरिधिः क्व च वल्कलं ते॥१०॥


किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते

  मध्ये कृशो वहसि यत्र दृशिः श्रिता मे।

पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्

        येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११॥

 

लोकं प्रदर्शय सुहृत्तम तावकं मे

यत्रत्य इत्थमुरसावयवावपूर्वौ।

अस्मद्विधस्य मनौन्नयनौ बिभर्ति

          बह्वद्भुतं सरसराससुधादि वक्त्रे ॥ १२॥

 

का वात्मवृत्तिरदनाद्धविरङ्ग वाति

   विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ।

उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिर्

       आसन्नभृङ्गनिकरं सर इन्मुखं ते ॥ १३॥

 

योऽसौ त्वया करसरोजहतः पतङ्गो

दिक्षु भ्रमन्भ्रमत एजयतेऽक्षिणी मे।

मुक्तं न ते स्मरसि वक्रजटावरूथं

  कष्टोऽनिलो हरति लम्पट एष नीवीम्॥ १४॥

 

रूपं तपोधन तपश्चरतां तपोघ्नं

ह्येतत्तु केन तपसा भवतोपलब्धम्

चर्तुं तपोऽर्हसि मया सह मित्र मह्यं

   किं वा प्रसीदति स वै भवभावनो मे॥ १५॥

 

न त्वां त्यजामि दयितं द्विजदेवदत्तं

यस्मिन्मनो दृगपि नो न वियाति लग्नम्।

मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते

चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६॥

 

श्रीशुक उवाच

 

इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुधमतिरधिसभाजयामास ॥ १७॥ सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान्बुभुजे ॥ १८॥ तस्यामु ह वा आत्मजान्स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मय कुरुभद्रा श्वकेतुमालसंज्ञान्नव पुत्रानजनयत्॥ १९॥ सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २०॥ आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१॥ आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते ॥ २२॥ सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा नवोदवहन् ॥ २३॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः॥१२॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!