भागवत पञ्चम स्कन्ध पञ्चदश अध्याय ( bhagwat 5.15 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 5.15
bhagwat chapter 5.15


श्रीशुक उवाच


भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभ पदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १॥ तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २॥ अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ ३॥ य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ॥ ४॥प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम् ॥ ५॥ भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलात्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः ॥ ६॥ स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ॥ ७॥  तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८॥


गयं नृपः कः प्रतियाति कर्मभि-

     र्यज्वाभिमानी बहुविद्धर्मगोप्ता।

समागतश्रीः सदसस्पतिः सतां 

            सत्सेवकोऽन्यो भगवत्कलामृते ॥ ९॥


यमभ्यषिञ्चन्परया मुदा सतीः 

   सत्याशिषो दक्षकन्याः सरिद्भिः।

यस्य प्रजानां दुदुहे धराशिषो 

           निराशिषो गुणवत्सस्नुतोधाः ॥ १०॥


छन्दांस्यकामस्य च यस्य कामा-

      न्दुदूहुराजह्रुरथो बलिं नृपाः।

प्रत्यञ्चिता युधि धर्मेण विप्रा 

             यदाशिषां षष्ठमंशं परेत्य ॥ ११॥


यस्याध्वरे भगवानध्वरात्मा 

      मघोनि माद्यत्युरुसोमपीथे।

श्रद्धाविशुद्धाचलभक्तियोग 

             समर्पितेज्याफलमाजहार ॥ १२॥


यत्प्रीणनाद्बर्हिषि देवतिर्यङ् 

      मनुष्यवीरुत्तृणमाविरिञ्चात्।

 प्रीयेत सद्यः स ह विश्वजीवः 

           प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ १३॥


गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ॥ १४॥ तत्रायं श्लोकः -


प्रैयव्रतं    वंशमिमं      विरजश्चरमोद्भवः।

       अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १५॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 

पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम 

पञ्चदशोऽध्यायः॥ १५॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!