मित्राणि !! महद् दुःखमनुभवामि । कुराजनीतिपिशाची
शासनासन्दिकालोलुपा सती देवानपि जातिख्यापनेन
दूषयति।इदं विभाजनं देशस्य लोकतंत्रं धक्ष्यति ।
************** कलिकथा दुरन्ता ***************
भवे प्रभो! कलिकथा दुरन्ता।
विषं वमन्ति सदसि खलु सन्तः।।
रामः क्षत्रः, दलितो मारुतिरिह विप्रो रावणोsपवित्रः।
शूद्रः शिवः, कुबेरो वैश्यः, गिरिजेयं जनजातिचरित्रा।
सत्ता- मद- घूर्णित -चरितानां ,
गगनं स्पृशा त्वहन्ता।।
कृष्णो यादवकुलमतजनकः,बुद्धो दलितजनानां देवः।।
चन्द्रो मुस्लिममतानुयायी, दुर्विप्राणां . सविता देवः ।।
जाति - विभक्ता राष्ट्र - भावना ।
नरकपथं खलु गन्ता ।।
व्यासो वर्णसंकरो जातः , वाल्मीकिः शूद्रतां प्रयातः ।
शनिदेवो तैलीजातीयः , चाण्डाली ननू काली माता ।।
पापिष्ठाssसन्दिकां भूतले ।
प्राप्तुं ज्वलति दिगन्तः ।।
अयिसज्जना!कुरुत हितचिन्तां,नयत न देशंदशां दुरन्ताम्।
अवधारयत राष्ट्रहितमधुना,श्रयतकुनीतिपथं नधिगन्ताम्।।
मानवतामखिला जनतेयं ।
साधयतीह पवित्राम्।।
*******************" प्रणवः "*****************
thanks for a lovly feedback