*************श्रीकृष्णाय नमो नमः************
विशालव्यालराजायकालकालाय नृत्यतः।
कालियाय कलिन्दस्य कन्यकापतये नमः।।
कृष्णाहये कृपारूपदण्डव्यापारकर्मणे ।
बालकृष्णाय नीलाब्जकान्ताय महसे नमः।।
विषविस्तारशीलाय, कालिन्दीजलविस्तरे।
कालरूपाय नागाय बन्धदक्षाय मे नुतीः।।
कृष्णचिक्कणदेहाय सर्पबन्धनसंंस्थिते ।
कृष्णाय मणिमंत्राय महौषधसमाय च ।।
बालकृष्णाय कालिन्दीजलक्रीडारताय च।
कालनाथाय नाथाय , पौनः पुन्येन नो नतीः।।
जन्ममृत्युच्छिदे तस्मै भवे विषभिदे नमः ।
यत्पादरेणवो नित्यं विषापहरणक्षमाः।।
नागपत्नीगणायात्र महत्सौभाग्यदायकः ।
स कृष्णो रमतां चित्ते, यो हि प्राणसुरक्षकः।।
नागानुग्रहकारस्य श्रीकृष्णस्य महात्मनः ।
अष्टकं भवतान्नित्यं समेषां रक्षणक्षमः।।इतिश्रीप्रणवमहाकविविरचितं कृष्णनागाष्टकस्तोत्रंसंपूर्णम्
thanks for a lovly feedback