श्रीहरिचरणशरणविचिन्वतां समेषां भक्तिविद्याविनीतानां
तरलीकृतमानसानां नरोत्तमनराणां मनोमोदाय हरिहरकृपा संसाधनाय समर्प्यत इदं विष्णुगीतम्.....
*********** लक्ष्मीरमणं चरणं श्रय रे !! ***********
लक्ष्मीरमणं चरणं श्रय रे !!
वृन्दावरणं शरणं श्रय रे !!
हरिचित्तमवेहि सदा सदयं, समुपैति तदत्र गतं हृदयम् ।
दुरितं गमिता क्षणमेव लयं,चरिते भविता सुखदं विनयम्।।
कल्याणकरं नृहरिं श्रय रे !!
चित्तं त्वरितं शरणं नय रे !!
जनितापभयं विकलीकुरुते , वचने मधुपूरमियन्तनुते।
निजभक्तयशो विमलीकुरुते, मनुजं सहजं सरलं कुरुते ।।
आनन्दभरं हरिमेहि सखे !!
भूसन्तरणं चरणं श्रय रे !!
यमपाशविनाशकरं भज रे !!शुचि हासविलासकरं भज रे!!
तमसामनिशं हरणं भज रे!! प्रभया भयतो हरणं भज रे !!
वेदान्तमयं त्वभयं श्रय रे!!
भेदान्तकरं स्वमनो नय रे !!
यमुनातटरासकरं रुचिरं , नवगोपवधूवसनाहरणम् ।
शुचि गोपकिशोरममुं चपलं ,हृदि धारय मोहमदाहरणम्।।
राधाशरणं , व्रजमेतु सखे !!
बाधाहरणं, द्रुतमेहि सखे !!
प्रणवामृतशब्दसुधापलितं , मुखभूषणभूललितं मधुरम् ।।
मृतिभीतिगतिं शिथिलीकरणं,शुभनामसुधाच्यवनंसततम्।।
सीतालसितं रघुनाथवरं !!
पीतावरणं गतिदं श्रय रे !!
******* श्रीमत्प्रणवमहाकविप्रणीतंविष्णुगीतम् *******
thanks for a lovly feedback